CTET पेपर II संस्कृत July 2019

CTET पेपर II संस्कृत July 2019 এর প্রশ্নগুলির উত্তর করে দেওয়া আছে। Central Teacher Eligibility Test এর প্রশ্নগুলি কেমন ধরণের হতে পারে, সে ধারণা পেতে সালের প্রশ্নগুলির অনুশীলন করা জরুরী।

CTET এ যে দুটি Language রাখতে হয়, তার মধ্যে একটি সংস্কৃত রাখতে পারেন। এ বিষয়ে খুব সহজেই score করতে পারবেন। সংস্কৃতকে যদি Language I নির্বাচন করেন, তাহলে 91 থেকে 120 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। আর আপনি যদি Language II নির্বাচন করেন তবে 121 থেকে 150 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে।

LANGUAGEI, SANSKRIT

अभ्यर्थिनः चतुर्थभागस्य (Part-IV) प्रश्नानाम् (प्र.सं. 91-120) उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा (Language-I) रूपेण चितम् ।


अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (91-99) विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत ।

अस्मिन् ब्रह्माण्डे बहूनि ग्रहनक्षत्राणि सन्ति । आकाशे मंगल – बुध गुरु आदिषु ग्रहनक्षत्रेषु सूर्योऽपि एकं नक्षत्रम् अस्ति । अस्य प्रकाशेन एव पृथ्वी चन्द्रादयः प्रकाशन्ते । नक्षत्रमेतत् ऊर्जसः महास्रोतः अस्ति । वैज्ञानिकाः अस्य ऊर्जसं प्रति विशेषेण उन्मुखाः सन्ति । सूर्यः संसारस्य प्रकाशकः । अस्य ऊष्मणः आधिक्येन वसन्त-ग्रीष्म-वर्षाः अनाधिक्येन च शरद्धेमन्तशिशिराश्च ऋतवः भवन्ति ।
जीवानां स्वास्थ्याय अपि सूर्यस्य महती भूमिका अस्ति । कतिपयाः योगक्रियाः अस्यातपे एव क्रियन्ते । ऋषेः अथर्वणः मते उदीयमानस्य सूर्यस्य रश्मिभिः शिरोवेदनां दूरीकर्तुं शक्यते । अतः प्राकृतिक चिकित्सारूपेण सूर्यः अस्माकम् उपकारकः शरीरिकशास्त्रे सूर्यस्य रश्मिसेवनं सूर्यस्नानम् इति रूपेण प्रसिद्धम् । पादपानां वनस्पतीनां विकासोऽपि सूर्यष्योमाणं विना न संभवति । अतः भूतले सर्वेषां जीवनं सूर्याधारितमेव ।

MCQ প্রশ্নোত্তর

CTET पेपर II संस्कृत July 2019 MCQ প্রশ্ন ও উত্তর গুলি নিচে দেওয়া হল। প্রশ্নের উত্তরগুলি সরাসরি না দিয়ে শিক্ষার্থীদের সুবিধার্থে উত্তরটি লুক্কায়িত আছে। পরীক্ষার্থীদের চেষ্টা করার সুযোগ আছে। উত্তরে Click👈 করলেই উত্তরটি দেখা যাবে।

91. प्रकाशिताः भवन्ति इत्यस्य कृते अनुच्छेदेऽस्मिन् कः शब्दः प्रयुक्तः तच्चित्वा लिखत
(A) नद्यां वहन्ति
(B) प्रकाशन्ते
(C) सिञ्चन्ति
(D) निन्दन्ति

92. सूर्यस्य ऊर्जसं प्रति के उन्मुखाः सन्ति ?
(A) विद्यार्थिनः
(B) वैज्ञानिकाः
(C) लिपिकाः
(D) मन्त्रिणः

93. वसन्तग्रीष्मवर्षा ऋतवः कथं भवन्ति ?
(A) सूर्यस्य ऊष्मणः आधिक्येन
(B) सूर्यस्य ऊष्मणः अनाधिक्येन
(C) चन्द्रमसः प्रकाशेन
(D) अर्धरात्रौ

94. किरणैः इति पदस्य समानार्थकः शब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः तच्चित्वा लिखत –
(A) रश्मिभिः
(B) रज्जुना
(C) हरितैः
(D) पीतैः

95. उपकारं करोति इत्यस्य कृते कः शब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः तच्चित्वा लिखत –
(A) अनुपकारकः
(B) उपकारकः
(C) उपगङ्गम्
(D) अनुदिनम्

(D) तेजः

96. सूर्यस्य रश्मिसेवनं किं नाम्ना प्रसिद्धम् ?
(A) सूर्यस्नानम्
(B) चन्द्रस्नानम्
(C) जलस्नानम्
(D) दधिस्नानम्

97. ह्रासोऽपि इत्यस्य विलोमशब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः तच्चित्वा लिखत –
(A) विकासोऽपि
(B) विनासोऽपि
(C) उद्धारोऽपि
(D) अनुद्धारोऽपि

98. कुत्र बहूनि ग्रहनक्षत्राणि सन्ति
(A) नद्याम्
(B) सागरे
(C) ब्रह्माण्डे
(D) गृहे

99. सूर्यः किम् अस्ति ?
(A) गृहम्
(B) नक्षत्रम्
(C) पर्वतम्
(D) पुष्पम्

अधोलिखितान् पद्यान् पठित्वा प्रश्नानां (100-105) विकल्पात्म

न पृष्टः कस्यचिद् ब्रूयात् न चान्यायेन पृच्छतः ।
जानन्नपि हि मेधावी जडवल्लोकमाचरेत् ।।1 ।।

वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम् ।।2 ।।

विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् ।
अमित्रादपि सवृत्तममेध्यादपि काञ्चनम् ।। 3।।

सर्वेषामपि शौचानामर्थशौचं परं स्मृतम् ।
योऽर्थे शुचिः स हि शुचिः न मृद्वारिशुचिः शुचिः ।। 4 ।।

यथा धेनुसहस्रेषु वत्सो गच्छति मातरम् ।
तथा यच्च कृतं कर्म कर्तारमनुगच्छति ।। 5 ।।

100. ‘अजानन्नपि’ इत्यस्य विलोमशब्दः श्लोके प्रयुक्तः । तच्चित्वा लिखत –
(A) अजानतापि
(B) जानन्नपि
(C) शृण्वन्नपि
(D) वदन्नपि

101. वित्तं बन्धुर्वयः कर्म विद्या इत्येषु पञ्चमी का ?
(A) वित्तं
(B) बन्धुः
(C) विद्या
(D) कर्म

102. स्वीकुर्यात् इत्यस्य कृते कः शब्दः श्लोके प्रयुक्तः तच्चित्वा लिखत –
(A) न स्वीकुर्यात्
(B) ग्राह्यम्
(C) न ग्राह्यम्
(D) पतनम्

103. कः शुचिः भवति ?
(A) अर्थे शुचिः
(B) मृद्वारिशुचिः
(C) रात्रिशुचिः
(D) दिनशुचिः

104. आगच्छति इति पदस्य विलोमशब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः । तच्चित्वा लिखत –
(A) धावति
(B) गच्छति
(C) पठति
(D) मन्दः

105. अपृष्टः इत्यस्य कृते कः शब्दः श्लोके प्रयुक्तः तच्चित्वा लिखत –
(A) न पृष्टः
(B) बहुपृष्टः
(C) मार्गपृष्टः
(D) धनपृष्टः

অনুরূপ পাঠ

CTET पेपर II संस्कृत July 2019 MCQ প্রশ্ন ও উত্তর এর মতো ctet এর অনুরূপ পাঠগুলি জানতে নিম্নের Link এ Click করে জেনে নাও

Leave a Comment