CTET पेपर-II संस्कृत July 2021 এর প্রশ্নগুলির উত্তর করে দেওয়া আছে। Central Teacher Eligibility Test এর প্রশ্নগুলি কেমন ধরণের হতে পারে, সে ধারণা পেতে সালের প্রশ্নগুলির অনুশীলন করা জরুরী।
CTET এ যে দুটি Language রাখতে হয়, তার মধ্যে একটি সংস্কৃত রাখতে পারেন। এ বিষয়ে খুব সহজেই score করতে পারবেন। সংস্কৃতকে যদি Language I নির্বাচন করেন, তাহলে 91 থেকে 120 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। আর আপনি যদি Language II নির্বাচন করেন তবে 121 থেকে 150 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। এখানে LANGUAGE-I এ গদ্য থেকে 9 এবং পদ্য থেকে 6 মোট 15 নম্বর এবং LANGUAGE-II এ দুটি গদ্যাংশ থেকে 8+7 মোট 15 নম্বর। অর্থাৎ LANGUAGE-I এবং LANGUAGE-II মিলিয়ে সর্বমোট 30 নম্বরের প্রশ্নোত্তর আলোচিত হয়েছে।
PART- IV, LANGUAGE-I, SANSKRIT
अभ्यर्थिनः चतुर्थभागस्य (Part-IV) प्रश्नानाम् (प्र.सं. 91-120) उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा (Language-I) रूपेण चितम् ।
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (91 – 99) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत ।
वाग्भटः विख्यातः प्राचीनः वैद्यराजः । सः सिन्धप्रान्ते जन्म अलभत । सः आसीत् पञ्चमे शतके । तेन आयुर्वेदशास्त्रे विपुलं संशोधनं कृतम् । तेन लिखितस्य ग्रन्थस्य नाम – ‘अष्टाङ्गसंहिता’ इति । अद्यापि सः ग्रन्थः प्रमाणभूतः मन्यते । तिबेटतः रामेश्वरपर्यन्तं तस्य कीर्तिः प्रसृता । एतं ग्रन्थम् अधिकृत्य अद्य यावत् २९ भाष्यविवरणग्रन्थाः प्रसिद्धाः सन्ति ।
एकदा धन्वन्तरिः व्यचिन्तयत् – ‘पृथिवीतले विद्यमानानां विविधानां वैद्यानां परीक्षा करणीया’ इति । अतः तेन शुकस्य रूपं धृतम् । सः एकम् एव प्रश्नं त्रिवारम् उच्चार्य वैद्यान् पृष्टवान् । सः प्रश्नः आसीत् ‘कोऽरुक् ? कोऽरुक् ? कोऽरुक् ?’ (कः आरोग्यसम्पन्नः भवति इत्यर्थः)
वैद्याः विविधानि उत्तराणि दत्तवन्तः केचन तु सुदीर्घम् उत्तरं दत्तवन्तः । किन्तु कस्यापि उत्तरेण धन्वन्तरिः न सन्तुष्टः ।
अन्ते शुकः वाग्भटं प्रति आगतः । वाग्भटः स्नानार्थं नदीतीरं गच्छति स्म । शुकरूपधारी धन्वन्तरिः मार्गे स्थितस्य एकस्य वृक्षस्य शाखायाम् उपविष्टः । तेन वाग्भटाय त्रिवारं प्रश्नः कृतः ‘कोऽरुक् ? कोऽरुक् ? कोऽरुक् ?’
वाग्भटेन ज्ञातं यत् एषः न सामान्यः पक्षी इति । सः पक्षिणं नमस्कृतवान् । पक्षिणे सत्काररूपेण फलानि तेन अर्पितानि ।
शुकः अवदत् – “आदौ उत्तरं दातव्यम् । यदि उत्तरं तृप्तिकरं स्यात् तर्हि एव अहम् उपाहारं स्वीकरिष्यामि” इति ।
वाग्भटः क्षणमात्रं चिन्तितवान् । त्रयाणां प्रश्नानाम् एकम् एव उत्तरं सः दत्तवान् “हितभुक्, मितभुक् उष्णभुक्” इति । तस्य आशयः आहारः हितकारः मितरूपः उष्णः च भवेत् इति ।
वाग्भटस्य उत्तरेण शुकः सन्तुष्टः अभवत् । सः उपाहारं स्वीकृत्य ततः निरगच्छत् ।
MCQ প্রশ্নোত্তর
CTET पेपर II संस्कृत July 2021 MCQ প্রশ্ন ও উত্তর গুলি নিচে দেওয়া হল। প্রশ্নের উত্তরগুলি সরাসরি না দিয়ে শিক্ষার্থীদের সুবিধার্থে উত্তরটি লুক্কায়িত আছে। পরীক্ষার্থীদের চেষ্টা করার সুযোগ আছে। উত্তরে Click👈 করলেই উত্তরটি দেখা যাবে।
1. अष्टाङ्गसंहिताग्रन्थाधारेण कति भाष्यविवरण-ग्रन्थाः प्रसिद्धाः ?
(A) नवतिः
(B) नवविंशतिः
(C) एकोनविंशतिः
(D) नव
উত্তর👈
(B) नवविंशतिः
2. वैद्यानां परीक्षां कर्तुं धन्वन्तरिणा कस्य रूपं धृतम् ।
(A) मनुष्यस्य
(B) शुकस्य
(C) शुनः
(D) कीटस्यनव
উত্তর👈
(B) शुकस्य
3. कोऽरुक् इति अत्र सन्धिच्छेदः कथम् ?
(A) कः अरुक्
(B) को रुक्
(C) को अरुक्
(D) कः रुक्
উত্তর👈
(A) कः अरुक्
4. हितभुक् मितभुक् उष्णभुक् इति वाक्ये मितशब्दस्य अर्थः
(A) मित्रम्
(B) सूर्यः
(C) अल्पम्
(D) विशिष्टम्
উত্তর👈
(C) अल्पम्
5. वैद्यपरीक्षायां कः उत्तीर्णः अभवत् ?
(A) धन्वन्तरिः
(B) वाग्भटः
(C) शुकः
(D) चरकः
উত্তর👈
(B) वाग्भटः
6. तिब्बतदेशात् रामेश्वरपर्यन्तं कस्य प्रसिद्धिः आसीत् ?
(A) धन्वन्तरेः
(B) क्षपणकस्य
(C) शुश्रुतस्य
(D) वाग्भटस्य
উত্তর👈
(D) वाग्भटस्य
7. उष्णभुक् इति समस्तपदस्य विग्रहः कथं स्यात् ?
(A) उष्णं भुङ्क्ते इति
(B) उष्णं भोजयति इति
(C) उष्णं भुक्तम् इति
(D) उष्णेन भुक्
উত্তর👈
(A) उष्णं भुङ्क्ते इति
8. कस्मिन् क्षेत्रे वाग्भटः प्रसिद्धः आसीत् ?
(A) व्याकरणक्षेत्रे
(B) कृषिक्षेत्रे
(C) वाणिज्यक्षेत्रे
(D) वैद्यकीयक्षेत्रे
উত্তর👈
(D) वैद्यकीयक्षेत्रे
9. अष्टाङ्गसंहिता इति कस्य शास्त्रस्य ग्रन्थः ?
(A) दर्शनशास्त्रस्य
(B) गणितशास्त्रस्य
(C) वैद्यकीयशास्त्रस्य
(D) व्याकरणशास्त्रस्य
উত্তর👈
(C) वैद्यकीयशास्त्रस्य
अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां (100 – 105) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत –
अश्रद्धा परमं पापं,
श्रद्धा पापप्रमोचिनी
जहाति पापं श्रद्धावान्,
सर्पो जीर्णामिव त्वचाम् ।। (1)
दूरेऽपि सज्जनाः भान्ति
हिमवन्नगसन्निभाः ।
असन्तो नैव दृश्यन्ते
रात्रिक्षिप्ताः शरा यथा ।। (2)
भक्तिर्देवे मतिर्धर्मे,
शक्तिस्त्यागे रतिः श्रुतौ ।
दया सर्वेषु भूतेषु
स्यान्मे जन्मनि जन्मनि ।। (3)
आयुषः क्षण एकोऽपि
सर्वरत्नैर्न न लभ्यते ।
नीयते स वृथा येन
प्रमादः सुमहानहो ।। (4)
स्वभावो नोपदेशेन
शक्यते कर्तुमन्यथा ।
सुतप्तमपि पानीयं
पुनर्गच्छति शीतताम् ।। (5)
दुर्जनः सुजनीकर्तुं
यत्नेनापि न शक्यते ।
संस्कारेणापि लशुनं
कः सुगन्धीकरिष्यति ।।6
10. सज्जनानां तुलना केन सह कृता अस्ति ?
(A) सर्पः
(B) हिमालयः
(C) सर्वरत्नानि
(D) पानीयम्
উত্তর👈
(B) हिमालयः
11. दया सर्वेषु भूतेषु इति कामना कदा पर्यन्तं क्रियते ?
(A) अस्मिन् जन्मनि
(B) पूर्वजन्मनि
(C) अपरजन्मनि
(D) सर्वस्मिन् जन्मनि
উত্তর👈
(D) सर्वस्मिन् जन्मनि
12. उपदेशेन स्वभावः
(A) अन्यथा कर्तुं न शक्यते
(B) अन्यथा कर्तुं शक्यते
(C) यथार्थं कर्तुं शक्यते
(D) यथेष्टं कर्तुं न शक्यते
উত্তর👈
(A) अन्यथा कर्तुं न शक्यते
13. सर्वरत्नैः किं न लभ्यते ?
(A) स्वभावः
(B) प्रासादः
(C) आयुषः एकोऽपि क्षणः
(D) उपदेशः
উত্তর👈
(C) आयुषः एकोऽपि क्षणः
14. संस्कारेणापि लशुनं कः सुगन्धीकरिष्यति इति वाक्यस्य आशयः
(A) दुर्जनः सुगन्धीकरिष्यति
(B) सुजनः सुगन्धीकरिष्यति
(C) कोऽपि न सुगन्धीकरिष्यति
(D) सर्वः सुगन्धीकरिष्यति
উত্তর👈
(C) कोऽपि न सुगन्धीकरिष्यति
15. “जहाति पापं श्रद्धावान् सर्पो जीर्णामिव त्वचाम्” इति उक्तौ कः अलङ्कारः प्रयुक्तः ?
(A) अनुप्रासः
(B) उपमा
(C) उत्प्रेक्षा
(D) भ्रान्तिमान्
উত্তর👈
(B) उपमा
PART- V, LANGUAGE–II, SANSKRIT
पञ्चमभागस्य (Part-V) प्रश्नानाम् (प्र.सं. 121-150) उत्तरं दद्युः, यदि तैः संस्कृतं द्वितीयभाषा (Language-II) रूपेण चितम्।
निर्देशः अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (121 128) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत।
अस्ति कस्यचिन्महीपतेः कस्मिश्चित्स्थाने मनोरमं शयनस्थानम्। तत्र शुक्लतरपटयुगलमध्यसंस्थिता मन्दविसर्पिणी नाम श्वेता यूका प्रतिवसति स्म। सा च तस्य महीपते रक्तमास्वादयन्ती सुखेन कालं नयमाना तिष्ठति। अन्येद्युश्च तत्र शयने क्वचिद् भ्राम्यन् अग्निमुखो नाम मत्कुणः समायातः। अथ तं दृष्ट्वा सा विषण्णवदना प्रोवाच “भो अग्निमुख ! कुतस्त्वमत्रानुचितस्थाने समायातः ? तद्यावद् न कश्चिद् पश्यति, तावच्छीघ्रं गम्यताभ्” इति। स आह “भगवति ! गृहागतस्य असाधोरपि नैतद्युज्यते वक्तुम्। अपरं मयाऽनेक मानुषाणां अनेकविधानि रुधिराण्यास्वादितानि आहारदोषात् कटुतिक्तकषायाऽम्लरसास्वादानि। न च मया कदाचितम् धुरक्तं समास्वादितम्। तद्यदि त्वं प्रसादं करोषि, तदस्य नृपतेः विविधव्यञ्जनान्ज पानचोष्यलेह्यस्वादाहारवशात् शरीरे यन्मिष्टं रक्तं सञ्जातं, तदास्वादनेन सौख्यं संपादयामि जिह्वायाः” इति तच्छ्रुत्वा मन्दविसर्पिणी आह, “भो मत्कुण! अहमस्य नृपतेर्निद्रावशं गतस्य रक्तम् आस्वादयामि। पुनः त्वम् अग्निमुखः चपलश्च। तद्यदि मया सह रक्तपानं करोषि, तत्तिष्ठ, अभीष्टतरं रक्तमास्वादय, सोऽब्रवीत-“भगवति ! एवं करिष्यामि। यावच्वं नास्वादयसि प्रथमं नृपरवतं, तावन्मम देवगुरुकृतः शपथः स्यात् यदि तदास्वादयामि।”
एवं तयोः परस्परं वदतोः, स राजा तच्छयनमासाद्य प्रसुप्तः। अथाऽसौ मत्कुणः जिह्वालौल्यात् जाग्रतमपि तं महीपतिम् अदशत् ।
अथाऽसौ महीपतिः सूच्यग्रविद्ध इव तच्छयनं त्यक्त्वा तत्क्षणादेवोत्थितः, प्राह च, अहो, ज्ञायतामत्र प्रच्छादनपटे मत्कुणो यूका वा नूनं तिष्ठति, येनाहं दष्टः । इति। अथ ये कञ्चुकिनः तत्र स्थिताः ते सत्वरं प्रच्छादनपटं गृहीत्वा सूक्ष्मदृष्ट्या वीक्षाचक्रुः । अत्रान्तरे स मत्कुणः चापल्यात खट्वान्तं प्रविष्टः। सा मन्दविसर्पिण्यपि वस्त्रसंन्ध्यन्तर्गता तैर्द्रष्टा, व्यापादिता च।
1. यूकायाः नाम किमासीत् ?
(A) श्वेता
(B) तीव्रविसर्पिणी
(C) अचिरविसर्पिणी
(D) मन्दविसर्पिणी
উত্তর👈
(D) मन्दविसर्पिणी
2. मत्कुणस्य नाम किमासीत् ?
(A) ताम्रमुखः
(B) सुवर्णमुखः
(C) अग्निमुखः
(D) रजतमुखः
উত্তর👈
(C) अग्निमुखः
3. मत्कुणः कं अदशत् ?
(A) कृषकम्
(B) शिशुम्
(C) राजपुत्रम्
(D) महीपतिम्
উত্তর👈
(D) महीपतिम्
4. ‘हता’ इत्यस्य समानार्थकं पदं चित्वा लिखत।
(A) मर्षिता
(B) व्यापादिता
(C) कुपिता
(D) भग्ना
উত্তর👈
(B) व्यापादिता
5.यूका कुत्र प्रतिवसति स्म ?
(A) पट युगले
(D) घटयुगले
(C) सूत्रयुगले
(D) कटे
উত্তর👈
(A) पट युगले
6. ‘नृपतेः’ इति पदे का विभक्तिः ?
(A) प्रथमा
(B) षष्ठी
(C) द्वितीया
(D) सप्तमी
উত্তর👈
(B) षष्ठी
7. ‘भ्राम्यन्’ इति पदे प्रयुक्त कृदन्तप्रत्ययं चित्वा लिखत ।
(A) शतृ
(B) क्त्वा
(C) तुमुन्
(D) शानच्
উত্তর👈
(D) शानच्
8. ‘दृष्टवन्तः’ इति अर्थे प्रयुक्तं क्रियापदं चित्वा लिखत ।
(A) वीक्षाचकार
(B) गतवन्तः
(C) हसितवन्तः
(D) वीक्षाचक्रुः
উত্তর👈
(D) वीक्षाचक्रुः
निर्देश :- अधोलिखितं गद्यांशं पठित्वा तदाधारित प्रश्नानां (129-135) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
कश्चिद् गोमायुः नाम शृगालः क्षुत्क्षामकण्ठ इतस्ततः आहारक्रियार्थं परिभ्रमन् वने सैन्यद्वयसङ्ग्रामभूमिम् अपश्यत। तस्यां च दुन्दुभेः पतितस्य वायुवशाद् वल्लीशाखागृहैन्र्त्य मानस्य शब्दम् अश्रृणों ।
अथ क्षुभितहृदयः चिन्तयामास अहो, विनष्टोऽस्मि तद्यावन्नास्य प्रोच्चारितशब्दस्य दृष्टिगोचरं गच्छामि तावदन्यतो व्रजामि। अथवा नैतद्युज्यते सहसैव। तत् तावज्जानामि कस्थायं शब्दः। इत्थं धैर्यमालष्य विमर्शयन यावन्मन्दं मन्दं गच्छति तावद दुन्दुभिम् अपश्यत्। स च तं परिज्ञाय समीपं गत्वा स्वयमेव कौतुकादताडयत्। भूयश्च हर्षादचिन्तयत् अहो! चिरादेतदस्माकं महद् भोजन-मायतितम्। तन्नूनं प्रभूतमांसमेदाऽसृग्भिः परिपूरितं भविष्यति।
ततः परुषचर्मावगुष्ठितं तत्कथमपि विदार्य एकदेशे छिद्रं कृत्वा संहृष्टमना मध्ये प्रविष्टः। परं चर्मविदारणतो दंष्ट्राभङ्गः समजनि। अथ निराशीभूतः तद् दारुशेषमवलोक्य श्लोकमेनमपठत् पूर्वमेव मया ज्ञात पूर्णमेतद्धि मेदसा अनुप्रविश्य विज्ञातं यावच्चर्मच दारु च।
9. ‘परिभ्रमन्’ इति पदे प्रयुक्तकृदन्तप्रत्ययं चित्वा लिखत
(A) क्त
(B) क्त्वा
(C) ल्यप्
(D) शतृ
উত্তর👈
(D) शतृ
10. शृगालस्य कस्मात् दंष्ट्राभङ्गः सञ्जातः ?
(A) चर्मविदारणतः
(B) सुवर्णविदारणतः
(C) काष्ठविदारणतः
(D) वृक्षविदारणतः
উত্তর👈
(A) चर्मविदारणतः
11. शृगालः वने परिभ्रमन् किं अपश्यत् ?
(A) राजपुरुषम्
(B) रङ्गभूमिम्
(C) सङ्ग्रामभूमिम्
(D) राजभवनम्
উত্তর👈
(C) सङ्ग्रामभूमिम्
12. ‘दुन्दुभेः’ इति पदे का विभक्तिः ?
(A) सप्तमी
(B) पञ्चमी
(C) प्रथमा
(D) द्वितीया
উত্তর👈
(B) पञ्चमी
13. शृगालः कस्य शब्दं अशृणोत् ?
(A) असिकृतं शब्दं
(B) दुन्दुभिकृतं शब्दं
(C) वीणाकृतं शब्दं
(D) तूष्ठीरकृतं शब्दं
উত্তর👈
(B) दुन्दुभिकृतं शब्दं
14. शृगालस्य नाम किमासीत् ?
(A) लक्षायुः
(B) दीर्घायुः
(C) शतायुः
(D) गोमायुः
উত্তর👈
(D) गोमायुः
15. ‘कठोरः’ इत्यस्य समानार्थकं पदं चित्वां लिखत ।
(A) गुरुः
(B) परुषः
(C) वक्रः
(D) अनम्यः
উত্তর👈
(B) परुषः
অনুরূপ পাঠ
CTET पेपर II संस्कृत July 2021 MCQ প্রশ্ন ও উত্তর এর মতো ctet এর অনুরূপ পাঠগুলি জানতে নিম্নের Link এ Click করে জেনে নাও—
- CTET पेपर II संस्कृत December 2018 👈
- CTET पेपर II संस्कृत July 2019 👈
- CTET पेपर II संस्कृत December 2019 👈
- CTET पेपर II संस्कृत January 2021 👈
- CTET पेपर II संस्कृत August 2023 👈
- CTET पेपर II संस्कृत July 2024 👈
- CTET पेपर II संस्कृत January 2024👈
- CTET पेपर II संस्कृत December 2024 👈
- CTET पेपर II संस्कृत February 2026 👈
