CTET पेपर II संस्कृत December 2019

CTET पेपर II संस्कृत December 2019 এর প্রশ্নগুলির উত্তর করে দেওয়া আছে। Central Teacher Eligibility Test এর প্রশ্নগুলি কেমন ধরণের হতে পারে, সে ধারণা পেতে সালের প্রশ্নগুলির অনুশীলন করা জরুরী।

CTET এ যে দুটি Language রাখতে হয়, তার মধ্যে একটি সংস্কৃত রাখতে পারেন। এ বিষয়ে খুব সহজেই score করতে পারবেন। সংস্কৃতকে যদি Language I নির্বাচন করেন, তাহলে 91 থেকে 120 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। আর আপনি যদি Language II নির্বাচন করেন তবে 121 থেকে 150 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। এখানে LANGUAGEI এ গদ্য থেকে 9 এবং পদ্য থেকে 6 মোট 15 নম্বর এবং LANGUAGEII এ দুটি গদ্যাংশ থেকে 8+7 মোট 15 নম্বর। অর্থাৎ LANGUAGEI এবং LANGUAGEII মিলিয়ে সর্বমোট 30 নম্বরের প্রশ্নোত্তর আলোচিত হয়েছে।

PART- IV, LANGUAGEI, SANSKRIT

अभ्यर्थिनः चतुर्थभागस्य (Part-IV) प्रश्नानाम् (प्र.सं. 91-120) उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा (Language-I) रूपेण चितम् ।


अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (91-99) विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत ।

विन्ध्यपर्वतमालायाः मध्ये चित्रकूटं नाम तीर्थस्थलम् अस्ति । स्थानमिदं कोलाहलरहितं प्राकृतिकसौन्दर्यसम्पन्नमस्ति । अत्र आगमनेन दर्शनेन च आनन्दानुभूतिः जायते । चित्रकूटे सघनानि वनानि सन्ति । अत्र वहवः निर्झराः सन्ति । सर्वत्रापि हरीतिमा राजते । चित्रकूटस्य धार्मिकं सांस्कृतिकं च महत्त्वं विद्यते । कथ्यते यत् सीतालक्ष्मणाभ्यां सह वनवासकाले श्रीरामः एकादशवर्षाणि यावत् चित्रकूटे एवं निवासं कृतवान् । महर्षिः अत्रिः साध्वी अनुसूया च अत्रैव तपस्यां कृत्वा आत्मज्ञानम् अलभेताम् । अत्र अनेकानि दर्शनीयानि स्थलानि सन्ति । रामघट्टः मन्दाकिन्याः तटे रामघट्टः अस्ति । अत्र प्रायेण तीर्थयात्रिणां सम्मर्दः भवति । सायंकाले मन्दाकिन्याः नीराजनसमये मनोरमदृश्यं भवति । रामघट्टात् नातिदूरमेव जानकीकुण्डम् अस्ति । वनवासे सीता अत्रैव स्नानं करोति स्म । सघनवनमध्ये अनुसूयाश्रमः विद्यते । अत्र पक्षिणां कलरवः निर्झरध्वनिः शीतलवायुश्च मनांसि रञ्जयन्ति । एतदेव मन्दाकिन्याः उद्गमस्थलम् ।

जानकी कुण्डसमीपे एव विशाला शिला दर्शनीया वर्तते । चित्रकूटतः पञ्चकोशदूरम् नयनाभिरामं सौन्दर्ययुक्तं गुप्तगोदावरीस्थलं वर्तते । अत्र निरन्तरं जलं प्रवहति । तत्रैव हनुमानधारास्थलं वर्तते । अत्र उच्चस्थलात् जलं पतति ।

MCQ প্রশ্নোত্তর

CTET पेपर II संस्कृत December 2019 MCQ প্রশ্ন ও উত্তর গুলি নিচে দেওয়া হল। প্রশ্নের উত্তরগুলি সরাসরি না দিয়ে শিক্ষার্থীদের সুবিধার্থে উত্তরটি লুক্কায়িত আছে। পরীক্ষার্থীদের চেষ্টা করার সুযোগ আছে। উত্তরে Click👈 করলেই উত্তরটি দেখা যাবে।

91. अत्रागमनेन दर्शनेन च किं भवति ?
(A) आनन्दानुभूतिः
(B) क्लेषानुभूतिः
(C) पीडानुभूतिः
(D) ज्वरानुभूतिः

92. सीतालक्ष्मणाभ्यां सह कः अत्र वासम् अकरोत् ?
(A) वाल्मीकिः
(B) व्यासः
(C) कालिदासः
(D) श्रीरामः

93. अकरोत् इति पदस्य समानार्थकपदं अनुच्छेदेऽस्मिन् प्रयुक्तः तच्चित्वा लिखत—
(A) लिखितवान्
(B) पीतवान्
(C) कृतवान्
(D) पूरितवान्

94. का नाम साध्वी तपस्यां कृत्वा आत्मज्ञानम् अलभत् ?
(A) शकुन्तला
(B) अपाला
(C) प्रिया
(D) अनुसूया

95. ‘करोति’ इति पदे का धातुः वर्तते ?
(A) √कृ
(B) √पठ्
(C) √लिख
(D) √हस्

96. ‘रञ्जयन्ति’ इति पदस्य एकवचने कि पदं भवति ?
(A) रञ्जयतः
(B) रञ्जयति
(C) रञ्जयामि
(D) रञ्जयसि

97. अनुसूयाश्रमः कस्याः नद्याः उद्गमस्थलम् अस्ति ?
(A) गोदावर्याः
(B) नर्मदायाः
(C) गङ्गायाः
(D) मन्दाकिन्याः

98. चित्रकूटतः कियद्दूरं गुप्तगोदावरीस्थलं वर्तते ?
(A) पञ्चक्रोशमितम्
(B) सप्तक्रोशमितम्
(C) दशक्रोशमितम्
(D) पञ्चविंशतिक्रोशमितम्

99. चित्रकूटं नाम तीर्थस्थलम् कुत्रास्ति ?
(A) आरावली पर्वतमालामध्ये
(B) विन्ध्यपर्वतमालामध्ये
(C) पूर्वपर्वतमालामध्ये
(D) पश्चिमोत्तरपर्वतमालामध्ये

अधोलिखितान् श्लोकान् पठित्वा तदाधारितप्रश्नानां (100 – 105) विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत ।

केवलं जलपानेन समये स्याद्यथासुखम् ।
न तथामृतपानेन व्यतीते समये भवेत् ।।

महान्तं प्राप्य सद्बुद्धिः संत्यजेन्न लघु जनम् ।
यत्रास्ति सूचिकाकार्यं कृपाणः किं करिष्यति ।।

भविष्यत्कालकार्येषु सदा व्यग्रोऽस्ति यो जनः ।
विनष्टं कुरुते तेन वर्तमानस्य जीवनम् ।।

पुरतः पर्वतं वीक्ष्य न चिखेद सरिज्जलम् ।
पथबाधामचिन्त्यैव याति मार्गान्तरं प्रति ।।

खलानां परपीडायां दृश्यते यावती रुचिः ।
न तथावश्यके कार्ये स्वकीये वर्तते क्वचित् ।।

100. सूचिकाकार्यक्षेत्रे कः समर्थः न ?
(A) कृपाणः
(B) बालकः
(C) वृद्धः
(D) युवा

101. भविष्यत्कालकार्येषु सदा व्यग्रः जनः किं विनष्टं करोति ?
(A) भविष्यजीवनम्
(B) अगस्त्यस्य जीवनम्
(C) वर्तमानस्य जीवनम्
(D) मार्चमासस्य जीवनम्

102. सम्मुखं इति पदस्य पर्यायपदं श्लोके प्रयुक्तम् । तच्चित्वा लिखत—
(A) परितः
(B) पुरतः
(C) सर्वतः
(D) पृष्ठतः

103. दृष्ट्वा इति पदस्य पर्यायपदं श्लोके प्रयुक्तम् । तच्चित्वा लिखत—
(A) वीक्ष्य
(B) संगृह्य
(C) अनुभूय
(D) समाप्य

104. खलानां कुत्र रुचिः वर्तते ?
(A) मार्गनिर्माणे
(B) वृक्षारोपणे
(C) परपीडायाम्
(D) सत्यभाषणे

105. समये जलपानेन किं भवति ?
(A) दुःखम्
(B) पीडा
(C) सुखम्
(D) ग्लानिः


PART- V, LANGUAGEII, SANSKRIT

अभ्यर्थिनः पञ्चमभागस्य (Part-V) प्रश्नानाम् (प्र.सं. 121-150) उत्तरं दद्युः, यदि तैः संस्कृतं द्वितीयभाषा (Language-II) रूपेण चितम् ।

निर्देशः- अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां (121-128) विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत।

विश्वविद्यालयस्य कश्चित् प्राध्यापकः जलविहाराय नावम् आरूढः । नौकया जलविहारस्य तस्य प्रथमः अवसरः आसीत् । तत्र मनोरमान् दृश्यान् दृष्ट्वा सः नाविकम् अपृच्छत् – भो नाविक ! किं भवता कदापि गणितं पठितम् ? नाविकः न पठितम् महोदय । प्राध्यापकः किं गणितं पठितुं विद्यालयं न गतवान् । नूनं भवतः जीवनस्य चतुर्थांशः व्यर्थः अभवत । कि भवता रासायनशास्त्रं भौतिकशास्त्रं वा पठितम् ? नाविकः अवदत् ईदृशं मे भाग्यं कुतः ? यदहं भौतिकशास्त्रं रासायनशास्त्रं वा पठेयम् । प्राध्यापकः – नूनं भवतः जीवनस्य अर्धांशः व्यर्थः अभवत् । वद वद त्वया आंग्लभाषा तु पठिता एव । नाविकः (ग्लानिम् अनुभवन) महाशय ! नाहं मात्रा पित्रा वा विद्यालयं प्रेषितः । तर्हि कुतः पठेयम् ? प्राध्यापकः व्यर्थाः अभवन् । तर्हि तव जीवनस्य त्रयो भागाः व्यर्थाः अभवन् ।

अत्रान्तरे नदे जलावर्तनं समायातम् । तदा लहरीणां वेगेन नौः अकम्पत् । तयोः पश्यत एव नौका जलेन पूरिता जाता । नाविकः प्राध्यापकम् अपृच्छत् – महोदय ! किं भवान् तर्तुं जानाति ? नौकां जलपूरितां दृष्ट्वा भीतः प्राध्यापकः अवदत् – अहं तु तर्तुं न जानामि । नाविकः अवोचत् – यदि भवान् तर्तुं न जानाति तर्हि भवतः सर्वं जीवनं वृथा जातम् । अहं तु बाहुभ्यां नदं तीर्त्या पारं गच्छामि ।

1. ‘जलविहाराय’ इत्यस्मिन् पदे का विभक्तिः प्रयुक्ता ?
(A) प्रथमा
(B) द्वितीया
(C) सप्तमी
(D) चतुर्थी

2. ‘ईदृशं मे भाग्यं कुतः ?’ इति वाक्यं कः अवदत् ?
(A) प्राध्यापकः
(B) नाविकः
(C) नौका
(D) लहरी

3. ‘पठितम्’ इति पदे कः प्रत्ययः प्रयुक्तः ?
(A) तम्
(B) क्त
(C) क्तवतु
(D) क्त्वा

4. ‘कदापि’ इति पदस्य सन्धिविच्छेदः भवति—
(A) क + दापि
(B) कद + आपि
(C) कदा + अपि
(D) कदा + पि

5. ‘तर्तुम्’ इति पदे कः प्रत्ययः प्रयुक्तः ?
(A) तुम्
(B) तुमुन्
(C) मुन्
(D) ल्यप्

6. नदे किं समायातम् ?
(A) जलम्
(B) वृक्षम्
(C) जलावर्तनम्
(D) पुष्पाणि

7. नौका केन पूरिता जाता ?
(A) पत्रेण
(B) पुष्पेण
(C) फलेन
(D) जलेन

8. जलविहाराय नावं कः आरूढः ?
(A) प्राध्यापकः
(B) प्राध्यापिका
(C) प्राचार्यः
(D) मुख्याध्यापकः

निर्देश :- अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां (129-135) विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत

पुरा वाल्मीकिः नाम एक ऋषिः आसीत् । एकदा सः स्नातुं तमसातीरमगच्छत् । मार्गे सः व्याधेन विद्धम् एकं क्रोञ्चपक्षिणमपश्यत् । सहचरस्य वियोगेन व्याकुलितायाः क्रौञ्च्याः उच्चैः रोदनम् अश्रृणोत् । क्रौञ्च्याः विलापं श्रुत्वा ऋषिः द्रवितः अभवत् । क्रौञ्चीक्रन्दनात् जातः ऋषेः शोकः श्लोकरूपेण तस्य मुखात् एवं निरगच्छत् –

मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ।।

अयमेव श्लोकः लौकिकसाहित्यस्य आदिकाव्यरचना । ततः प्रभृति ऋषिरयं कविपदं प्राप्तवान् । ऋषेः कवित्वं विज्ञाय ब्रह्मा आकाशवाण्या आदिशत् ऋषे ! कुरु रामायणं काव्यम् । तत्र रामचरितं वर्णय येन रामस्य पुण्यं चरित्रं विदित्वा जनाः सन्मार्गस्य अनुसरणं कुर्युः । अस्मिन् काव्ये (रामायणे) पितुः आज्ञापालनम्, भ्रातृस्नेहः, परोपकारः, दया, दीनरक्षा इत्यादीनि मानवतायाः पोषकानि जीवनमूल्यानि वर्णितानि सन्ति ।

9. कीदृशं क्रौञ्चपक्षिणम् वाल्मीकिः मार्गे अपश्यत् ?
(A) हसन्
(B) व्याधेन विद्धम्
(C) देवैः पूजितम्
(D) जले तरन्

10. ऋषेः शोकः केन रूपेण तस्य मुखात् निरगच्छत् ?
(A) गीतरूपेण
(2) गद्यरूपेण
(C) श्लोकरूपेण
(D) स्नेहरूपेण

11. ‘ज्ञात्वा’ इति पदस्य समानार्थकशब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः, तच्चित्वा लिखत—
(A) श्रुत्वा
(B) दृष्ट्वा
(C) विज्ञाय
(D) विलोकनाय

12. ‘आदिशत्’ इति पदस्य कोऽर्थः भवति ?
(A) उपदेशं कृतवान्
(B) आदेशम् अकरोत्
(C) काव्यम् अपाठयत्
(D) वंशीम् अवादयत्

13. भो ऋषे ! कुरु रामायणं काव्यम् इति कः अवदत् ?
(A) तारणीशः
(B) मार्कण्डेयः
(C) जाबालिः
(D) ब्रह्मा

14. ‘सन्ति’ इति पदे को धातुः वर्तते ?
(A) √दा
(B) √पठ्
(C) √गम्
(D) √अस्

15. वाल्मीकिः कः आसीत् ?
(A) ऋषिः
(B) ग्रामीणः
(C) नागरिकः
(D) खेचरः

অনুরূপ পাঠ

CTET पेपर II संस्कृत December 2019 MCQ প্রশ্ন ও উত্তর এর মতো ctet এর অনুরূপ পাঠগুলি জানতে নিম্নের Link এ Click করে জেনে নাও

Leave a Comment