CTET पेपर II संस्कृत January 2021 এর প্রশ্নগুলির উত্তর করে দেওয়া আছে। Central Teacher Eligibility Test এর প্রশ্নগুলি কেমন ধরণের হতে পারে, সে ধারণা পেতে সালের প্রশ্নগুলির অনুশীলন করা জরুরী।
CTET এ যে দুটি Language রাখতে হয়, তার মধ্যে একটি সংস্কৃত রাখতে পারেন। এ বিষয়ে খুব সহজেই score করতে পারবেন। সংস্কৃতকে যদি Language I নির্বাচন করেন, তাহলে 91 থেকে 120 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। আর আপনি যদি Language II নির্বাচন করেন তবে 121 থেকে 150 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। এখানে LANGUAGE-I এ গদ্য থেকে 9 এবং পদ্য থেকে 6 মোট 15 নম্বর এবং LANGUAGE-II এ দুটি গদ্যাংশ থেকে 8+7 মোট 15 নম্বর। অর্থাৎ LANGUAGE-I এবং LANGUAGE-II মিলিয়ে সর্বমোট 30 নম্বরের প্রশ্নোত্তর আলোচিত হয়েছে।
PART- IV, LANGUAGE-I, SANSKRIT
अभ्यर्थिनः चतुर्थभागस्य (Part-IV) प्रश्नानाम् (प्र.सं. 91-120) उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा (Language-I) रूपेण चितम् ।
निर्देश :- अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (91-99) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत ।
उल्लालराज्यं किञ्चन लघुसंस्थानम् । तत् सम्पद्भरितम् आसीत् । प्रजाः च सन्तोषेण जीवन्ति स्म तत्र । तत्र एलालवङ्गमरीचादीनाम् उत्पत्तिः अधिका। तानि क्रेतुं विदेशीयाः बहवः आयान्ति स्म ।
सम्पत्तिकारणतः तस्य संस्थानस्य राजा विलास-प्रियः जातः । गच्छता कालेन तस्य मद्यपानप्रवृत्तिः अधिका जाता । वाणिज्यार्थम् आगताः पोर्तुगीसाः कदाचित् कांश्चन प्रदेशान् जित्वा भारते स्वशासनम् आरब्धवन्तः । उल्लालसंस्थानस्य राज्ञे अधिकाधिकं मद्यं दत्त्वा ते तस्य गाढां मैत्रीं सम्पादितवन्तः ।
राज्ञः मद्यसेवनप्रवृत्तिः यदा अधिका जाता तदा राज्ञी अभयादेवी तं बहुधा बोधितवती । तथापि राज्ञः व्यवहारे कोऽपि परिष्कारः न जातः । अथ कदाचित् पोर्तुगीसैः प्रेरितः राजा तेषां केन्द्रं गत्वा तत्रैव वासम् आरब्धवान् । मद्यपानाय यत् मद्यं क्रेतव्यं, तन्निमित्तं स्वसंस्थानमेव पोर्तुगीसाधीनं कृतवान् सः ।
राजा यदा पोर्तुगीसकेन्द्रे वासम् आरब्धवान् तदा मन्त्रिभिः बोधिता राज्ञी संस्थानरक्षणाय स्वयं शासनसूत्रं गृहीतवती, राजानं देशद्रोहित्वेन उद्घोषितवती च ।
पोर्तुगीसजनाः राज्ञा दत्तं पत्रं गृहीत्वा उल्लाल-संस्थानम् आगताः । अभयादेवी तैः आनीतं पत्रं दृष्ट्वा क्रुद्धा सती तत् पत्रं विच्छिद्य क्षिप्तवती । “वयं युद्धं सम्मुखीकर्तुं सज्जाः । किन्तु देशम् अन्याधीनं न करिष्यामः एव” इति धैर्येण अवदत् सा ।
एतस्मात् क्रुद्धाः पोर्तुगीसाः ससैन्यं युद्धाय आगताः । अभयादेवी प्रतिवेशिराज्यानां साहाय्यं याचितवती । केचन राजानः साहाय्यार्थम् आगताः । पोर्तुगीसाः उल्लालराजं पुरतः संस्थाप्य युद्धम् अकुर्वन् । एतस्मिन् युद्धे पोर्तुगीसानां पराजयः जातः । ते पलायनम् अकुर्वन् । उल्लालराजः अपि पलायनं कुर्वन् बाणेनआहतः सन् रणरङ्गे अपतत् । पोर्तुगीसाः तं परित्यज्य धावितवन्तः ।
एकाकितया भूमौ पतितं राजानम् अभयादेवी राजभवनम् आनीतवती । वैद्याः तस्य विशेषोपचारं कृतवन्तः । किन्तु ततः प्रयोजनं किमपि न सिद्धम् । स्वदोषार्थं राज्ञीं क्षमां याचन् राजा प्राणवियोगं प्राप्तवान् ।
राज्ञी तस्य अन्त्यसंस्कारं निर्वर्तितवती । ततः तया धर्मेण शासनं कृतम् । स्वदेशस्य रक्षणार्थं धैर्येण युद्धं कृतवत्याः स्वातन्त्र्यप्रियायाः अभयादेव्याः चरितं निश्चयेनास्ति प्रेरणादायकं ननु ?
MCQ প্রশ্নোত্তর
CTET पेपर II संस्कृत January 2021 MCQ প্রশ্ন ও উত্তর গুলি নিচে দেওয়া হল। প্রশ্নের উত্তরগুলি সরাসরি না দিয়ে শিক্ষার্থীদের সুবিধার্থে উত্তরটি লুক্কায়িত আছে। পরীক্ষার্থীদের চেষ্টা করার সুযোগ আছে। উত্তরে Click👈 করলেই উত্তরটি দেখা যাবে।
1. पोर्तुगीसैः सह युद्धं कर्तुम् अभयादेवी केषां साहायं याचितवती ?
(A) उल्लालराजस्य
(B) आङ्गलशासकानाम्
(C) प्रतिविशिराज्यानाम्
(D) वाणिज्यिकानाम्
উত্তর👈
(C) प्रतिविशिराज्यानाम्
2. युद्धभूमौ एकाकितया कः पतितः आसीत् ?
(A) पोर्तुगीसराजा
(B) उल्लालराजा
(C) अभयादेवी
(D) विदेशीयाः
উত্তর👈
(B) उल्लालराजा
3. स्वप्राणवियोगात् पूर्व राजा किं कृतवान् ?
(A) सुरापानं कृतवान्
(B) राज्यवासिनः सम्बोधितवान्
(C) पोर्तुगीसविरुद्धं युद्धं कृतवान्
(D) राज्ञीम् अभयादेवीं क्षमां याचितवान्
উত্তর👈
(D) राज्ञीम् अभयादेवीं क्षमां याचितवान्
4. “वयं युद्धं सम्मुखीकर्तुं सज्जाः । किन्तु देशम् अन्याधीनं न करिष्यामः एव” इत्युक्तिः कस्याः आसीत् ?
(A) मन्त्रिणः
(B) राज्ञः
(C) राज्ञ्याः
(D) वैदेशिकानाम्
উত্তর👈
(C) राज्ञ्याः
5. जीवन्ति स्म इति पदद्वयस्य मिलित्वा अर्थः
(A) अजीवन्
(B) अजीवम्
(C) अजीवत्
(D) अजीवत
উত্তর👈
(A) अजीवन्
6. संस्थानरक्षणाय स्वयं शासनसूत्रं गृहीतुम् अभयादेवी केन उपदिष्टा ?
(A) राज्ञा
(B) मन्त्रिभिः
(C) स्वयम्
(D) वैदेशिकैः
উত্তর👈
(B) मन्त्रिभिः
7. सम्पत्तिकारणतः राजा विलासप्रियः जातः इति वाक्ये सम्पत्तिकारणतः इति पदे प्रयुक्तः तद्वितप्रत्ययः कस्याः विभक्त्याः अर्थ अस्ति ?
(A) द्वितीया
(B) तृतीया
(C) चतुर्थी
(D) पञ्चमी
উত্তর👈
(D) पञ्चमी
8. एलालवङ्गमरीचादीनाम् उत्पत्तिः कुत्र अधिका जायते स्म ?
(A) बङ्गदेशे
(B) उत्तरभारते
(C) उल्लालप्रान्ते
(D) उत्कलराज्ये
উত্তর👈
(C) उल्लालप्रान्ते
9. उल्लालराजस्य मद्यपानप्रवृत्तिः केषां कारणेन वर्धिता ?
(A) अभयादेव्याः
(B) पोर्तुगीसानाम्
(C) स्वराज्यजनानाम्
(D) आङ्गलजनानाम्
উত্তর👈
(B) पोर्तुगीसानाम्
निर्देश : अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां (100-105) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत ।
न देवो विद्यते काष्ठे
न पाषाणे न मृण्मये ।
भावे हि विद्यते देवः
तस्माद्भावो हि कारणम् ।।1।।
दातृत्वं प्रियवक्तृत्वं
धीरत्वमुचितज्ञता ।
अभ्यासेन न लभ्यन्ते
चत्वारः सहजा गुणाः ।।2।।
अर्थम् महान्तमासाद्य
विद्यामैश्वर्यमेव वा ।
विचरत्यसमुन्नद्धो
यः स पंडित उच्यते ।।3।।
जनिता चोपनेता च,
यस्तु विद्याम् प्रयच्छति ।
अन्नदाता भयत्राता,
पञ्चैते पितरः स्मृताः ।।4।।
सुपुत्रो यः पितुर्मातुः
भूरिभक्तिसुधारसैः ।
निर्वापयति सन्तापं
शेषास्तु कृमिकीटकाः ।।5।।
दुर्जनः प्रियवादी च नैतद्विश्वासकारणम् ।
मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम् ।।6।।
10. पञ्चपितृषु कः न गृह्यते ?
(A) अन्नदाता
(2) जन्मदाता
(C) गुरुः
(D) राज्यमन्त्री
উত্তর👈
(D) राज्यमन्त्री
11. धीरत्वं कीदृशः गुणः ?
(A) अभ्यासलभ्यः
(B) साहजिकः
(C) आयाससाध्यः
(D) अलभ्यः
উত্তর👈
(B) साहजिकः
12. प्रभूतं धनं विद्याम् ऐश्वर्यं च प्राप्य पण्डितजनः कथं विचरति ?
(A) मूढः सन्
(B) अगर्वितः सन्
(C) उत्मत्तः सन्
(D) प्रहर्षितः सन्
উত্তর👈
(C) उत्मत्तः सन्
13. भक्तिसुधारसैः इति पदे कविना कः अलङ्कारः प्रयुक्तः ?
(A) अनुप्रासः
(B) यमकः
(C) रूपकः
(D) अतिशयोक्तिः
উত্তর👈
(C) रूपकः
14. मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम्’ इत्युक्त्या कविः वर्णनं करोति
(A) सत्यवादिनः मित्रस्य
(B) असत्यवादिनः सज्जनस्य
(C) प्रियवादिनः दुर्जनस्य
(D) अप्रियवादिनः दुर्जनस्य
উত্তর👈
(C) प्रियवादिनः दुर्जनस्य
15. उपरिलिखितश्लोकानुसारं देवस्य अस्तित्वे किं कारणम् ?
(A) काष्ठम्
(B) पाषाणम्
(C) मृत्तिका
(D) भावः
উত্তর👈
(D) भावः
PART- V, LANGUAGE–II, SANSKRIT
अभ्यर्थिनः पञ्चमभागस्य (Part-V) प्रश्नानाम् (प्र.सं. 121-150) उत्तरं दद्युः, यदि तैः संस्कृतं द्वितीयभाषा (Language-II) रूपेण चितम् ।
निर्देशः अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (121 128) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत।
कदाचित् कश्चन महात्मा प्रयाणावसरे पिपासाम् अनुभूतवान् । समीपे एव तेन एकः कुटीरः दृष्टः। सः कुटीरः कस्यचित् चर्म-कारस्य । महात्मा तम् उपसर्प्य अपृच्छत् -“आर्य ! किम् अत्र पानाय जलं लभ्येत ?” इति । महात्मानम् उपस्थितं दृष्ट्वा सः चर्मकारः नितरां सन्तुष्टः । सः उत्थाय अन्तः गत्वा जलम् आनीय महात्मने दातुम् उद्यतः । तावता तेन स्वस्य चर्मकारकुलत्वं स्मृतम् । अतः सः अग्रे प्रसारितं हस्तं पृष्ठतः कृतवान् । “किं महोदय ! किमर्थं जलदाने एवं सङ्कोचः ?” सः महात्मा पृष्टवान् । तदा चर्मकारः अवदत् – “श्रीमन् ! अहम् अस्मि निम्नकुलीयः । मया भवते जलं यत् दीयेत तत् भवेत् पापाय” इति । “पापपुण्यादिविषये भवतः महती चिन्ता !” इति हसन् उक्तवान् सः महात्मा । ततः द्वित्राणि पदानि अग्रे निक्षिप्य सः चर्मकारस्य स्कन्धे हस्तं संस्थाप्य अवदत् “महोदय ! इदानीं मया भवान् स्पृष्टः, न तु भवता अहम् । तस्मात् यदि पापं प्राप्येत तर्हि तत् तु मया प्राप्येत। अतः इदानीं जलदाने न कापि आपत्तिः । कृपया जलं दीयताम्” इति। चर्मकारः तस्मै जलं दत्तवान् । जलं पीत्वा सः महात्मा उक्तवान् -“भ्रातः ! भगवतः दृष्ट्या सर्वे समानाः । ये तारतम्यम् आचरेयुः ते तु अज्ञानिनः । स्पृश्यास्पृश्यभेदः मानवेन कल्पितः । तत्र श्रद्धा न करणीया। अहम् इदानीं बुभुक्षितः अस्मि अपि । यदि अद्य भवद्गृहे भोजनं प्राप्येत तर्हि वरं स्यात्” इति ।
“भवान् मम गृहे भोजनं कर्तुं सज्जः यत् तत् तु मम सौभाग्याय एव” इति सहर्षम् उक्त्वा पाकसज्जीकरणाय पत्नीं सूचयितुं सः चर्मकारः अन्तः गतवान् ।
1. किमर्थं जलदाने चर्मकारस्य सङ्कोचः आसीत् ?
(A) सः निम्नकुलीयः आसीत् इति मत्वा
(B) पापपुण्यादिविषये तस्य चिन्ता नासीत् इति
(C) जलम् अशुद्धं स्यात् इति
(D) महात्मनः जलस्य आवश्यकता नासीत् इति
উত্তর👈
(A) सः निम्नकुलीयः आसीत् इति मत्वा
2. हसता महत्मना किम् उक्तम् ?
(A) किम् अत्र पानाय जलम् लभ्येत ?
(B) किमर्थं जलदाने सङ्कोचः ?
(C) पापपुण्यादिविषये भवतः महती चिन्ता !
(D) इदानीं जलदाने न कापि आपत्तिः
উত্তর👈
(C) पापपुण्यादिविषये भवतः महती चिन्ता !
3. महात्मनः उक्त्यनुसारम्
(A) स्पृश्यास्पृश्यभेदः ईश्वरेण निर्मितः । तत्र श्रद्धा करणीया ।
(B) स्पृश्यास्पृश्यभेदः मनुष्येण कल्पितः । तत्र श्रद्धा न करणीया ।
(C) स्पृश्यास्पृश्यभेदः न केनापि कल्पितः । अतः यथास्थिति पालनीयम् ।
(D) स्पृश्यास्पृश्यभेदः मनुष्येण कल्पितः । अतः श्रद्धा करणीया ।
উত্তর👈
(B) स्पृश्यास्पृश्यभेदः मनुष्येण कल्पितः । तत्र श्रद्धा न करणीया ।
4. ‘स्पृश्यास्पृश्यभेदः मानवेन कल्पितः’ इति वाक्यस्य वाच्यपरिवर्तनेन भवेत्
(A) स्पृश्यास्पृश्यभेदं मानवाः कल्पितवन्तः
(B) स्पृश्यास्पृश्यभेदं मानवः कल्पितवान्
(C) स्पृश्यास्पृश्यभेदेन मानवः कल्पितः
(D) स्पृश्यास्पृश्यभेदाय मानवा कल्पिताः
উত্তর👈
(B) स्पृश्यास्पृश्यभेदं मानवः कल्पितवान्
5. ‘अतः सः अग्रे प्रसारितं हस्तं पृष्ठतः कृतवान्’ इति वाक्ये विशेषणपदं किम ?
(A) अतः
(B) प्रसारितम्
(C) हस्तम्
(D) सः
উত্তর👈
(B) प्रसारितम्
6. “महोदय ! इदानीं मया भवान् स्पृष्टः, न तु भवता अहम्” इति कः कस्मै उक्तवान् ?
(A) चर्मकारः महात्मने
(B) चर्मकारः स्वपत्न्यै
(C) महात्मा चर्मकाराय
(D) महात्मा चर्मकारपत्न्यै
উত্তর👈
(C) महात्मा चर्मकाराय
7. चर्मकारः पाकसज्जीकरणाय पत्नीं सूचयितुं गमनसमये कीदृशः आसीत् ?
(A) आनन्दितः
(B) भ्रमितः
(C) दुःखितः
(D) उदासीनः
উত্তর👈
(A) आनन्दितः
8. आर्य ! किमत्र पानाय जलं लभ्येत ? इति प्रश्नः केन पृष्ट ?
(A) चर्मकारेण
(B) महात्मना
(C) ग्राम्यजनैः
(D) चर्मकारकुलेन
উত্তর👈
(B) महात्मना
निर्देश :- अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (129-135) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत
भवन्ति बहवः भारतीयाः अपि तादृशाः, ये भारतं सततं निन्दन्ति, भारते लब्धजन्मानं स्वमपि निन्दन्ति । अतः एव ते भारतं परित्यज्य अमेरिकादिदेशेषु स्थातुकामाः भवन्ति । एवं माननेन ते स्वं प्रगतं मन्यन्ते। इमे भारतीयाः तुच्छाः मलिनाः असभ्याः अप्रगताः कूपमण्डूकबुद्धयः च सन्ति इति अन्ये विदेशीयाः मन्येरन् चेत् ते क्षन्तव्याः स्युः। परं भारतीयाः एव स्वदेशं निन्देयुः चेत् ते कथं क्षमार्हाः भवेयुः ?
“भारतस्य अस्ति काचित् पोलण्डवास्तव्या करोलिनाख्या महिला । भारतीयेन अनुरागगोस्वामिना सा उद्ढा । अतः अधुना सा स्वम् ‘करोलिनागोस्वामी’ इति परिचाययति । सा भारतम् अधिकृत्य इत्थम् अभिदधाति जनजीवनपद्धतिं वीक्ष्य अहं भारते अतीव स्निह्यामि । विश्वस्य सर्वासां समस्यानां समाधानं भारतात् प्राप्तुं शक्यते इत्यत्र अहं विश्वसिमि । एवं सत्यपि भारतं स्वं परिचाययितुं कथं न शक्तम् ? कथं न अन्ये देशाः भारते रुचिं वहन्ति ? मनागपि उपद्रवम् अकुर्वाणाः शान्ताः इमे भारतीयाः सर्वस्मिन् अपि जगति शिक्षणे वाणिज्ये च कौशलेन व्याप्तिं गताः सन्ति चेदपि विदेशीयेषु भारतम् अधिकृत्य कथं विप्रतिपत्तिः अस्ति ?”
“अधुनाऽपि अहं यदा यदा युरोपादिदेशेषु प्रवासं करोमि तदा तदा ते भारते निवसन्तीं मां समुपलक्ष्य आश्चर्यं व्यञ्जयन्तः वदन्ति “करोलिने! इतोऽपि किं त्वं भारते निवससि ! मलिनैः असभ्यैः तैः भारतीयैः सह निवसन्ती त्वं मनागपि किं न उद्विग्ना ? अहो ते सहिष्णुता ! तत्र तव का सुरक्षा ? इतोऽपि त्वयि बालात्कारः किं न जातः ?”
इत्थं ब्रुवाणैः तैः विदेशीयैः कदापि भारतं दृष्टमेव न, केवलं ते युरोपीयलेखकैः लिखितं वृत्तपत्रादिषु प्रकाशितं च पठित्वा इत्थम् अभिप्रयन्ति । बहुधा ते एवं मन्यन्ते यत् भारते कापि सभ्यता संस्कृतिः वा नास्ति एव, केवलं तत्र असभ्यजनानां साम्राज्यं वरीवर्तते इति । बाढम् उद्वेजिता अहम् एतस्य श्रवणात् ।
मया युरोपदेशाः दृष्टाः । अमेरिकादेशोऽपि दृष्टः । भारतस्य वैशाल्यं वीक्ष्य अहम् आश्चर्यमग्ना अस्मि । युरोपस्य ये देशाः सन्ति पोलण्डादयः ते भारतस्य राज्य-तुल्यपरिमाणाः एव । अतः भारते वैविध्यमस्ति ।
मया प्रतिज्ञातम् अस्ति यत् भारतविषयिणीम् इमां विप्रतिपत्तिं निराकर्तुं जगते भारतस्य सम्यक् परिचयः देयः इति ।
9. करोलिना इति नामधेया महिला कस्मात् देशात्
आगता ?
(A) चीनदेशात्
(B) होलण्डदेशात्
(C) पोलण्डदेशात्
(D) जापानदेशात्
উত্তর👈
(C) पोलण्डदेशात्
10. अधोलिखितवाक्येषु किं व्याकरणदृष्ट्या उचितम् ?
(A) अहं भारतम् अतीव स्निह्यामि
(B) अहं भारते अतीव स्निह्यामि
(C) अहं भारताय अतीव स्निह्यामि
(D) अहं भारतात् अतीव स्निह्यामि
উত্তর👈
(A) अहं भारतम् अतीव स्निह्यामि
11. ‘मनागपि उपद्रवम् अकुर्वाणाः शान्ताः इमे भारतीयाः’ इति वाक्ये ‘मनागपि’ इत्यस्य आशयः
(A) किञ्चिदपि
(B) बद्धपि
(C) किमपि न
(D) बहु किमपि
উত্তর👈
(A) किञ्चिदपि
12. यूरोपदेशान् आमेरिकादेशं च दृष्ट्वा पुनः भारतस्य वैशाल्यं वीक्ष्य करोलिनायाः मनसि किम् उद्भूतम् ?
(A) आश्चर्यम्
(B) खेदम्
(C) हर्षम्
(D) नैराश्यम्
উত্তর👈
(A) आश्चर्यम्
13. करोलिनायाः विवाहः केन सह अभवत् ?
(A) विवेकानन्देन सह
(B) अनुरागगोस्वामिना सह
(C) रामानुजेन सह
(D) चन्द्रस्वामिना सह
উত্তর👈
(B) अनुरागगोस्वामिना सह
14. करोलिने ! इतोऽपि किं त्वं भारते निवससि ? इति के पृच्छन्ति करोलिनाम् ?
(A) यूरोपदेशीयाः
(B) भारतदेशीयाः
(C) करोलिनायाः पतिः
(D) करोलिनायाः पिता
উত্তর👈
(A) यूरोपदेशीयाः
15. लब्धजन्मानम् इति समस्तपदस्य विग्रहः स्यात् –
(A) लब्धं जन्म येन सः, तम्
(B) लब्धः जन्मः यस्य सः, तम्
(C) लब्धानां जन्म, तम्
(D) लब्धस्य जन्म, तम्
উত্তর👈
(A) लब्धं जन्म येन सः, तम्
অনুরূপ পাঠ
CTET पेपर II संस्कृत January 2021 MCQ প্রশ্ন ও উত্তর এর মতো ctet এর অনুরূপ পাঠগুলি জানতে নিম্নের Link এ Click করে জেনে নাও—
- CTET पेपर II संस्कृत December 2018 👈
- CTET पेपर II संस्कृत July 2019 👈
- CTET पेपर II संस्कृत December 2019 👈
- CTET पेपर II संस्कृत July 2021👈
- CTET पेपर II संस्कृत August 2023 👈
- CTET पेपर II संस्कृत July January 2024👈
- CTET पेपर II संस्कृत July 2024 👈
- CTET पेपर II संस्कृत December 2024 👈
- CTET पेपर II संस्कृत February 2026 👈
