CTET पेपर II संस्कृत December 2018 এর প্রশ্নগুলির উত্তর করে দেওয়া আছে। Central Teacher Eligibility Test এর প্রশ্নগুলি কেমন ধরণের হতে পারে, সে ধারণা পেতে সালের প্রশ্নগুলির অনুশীলন করা জরুরী।
CTET এ যে দুটি Language রাখতে হয়, তার মধ্যে একটি সংস্কৃত রাখতে পারেন। এ বিষয়ে খুব সহজেই score করতে পারবেন। সংস্কৃতকে যদি Language I নির্বাচন করেন, তাহলে 91 থেকে 120 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। আর আপনি যদি Language II নির্বাচন করেন তবে 121 থেকে 150 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। এখানে LANGUAGE–I এ গদ্য থেকে 9 এবং পদ্য থেকে 6 মোট 15 নম্বর এবং LANGUAGE–II এ দুটি গদ্যাংশ থেকে 8+7 মোট 15 নম্বর। অর্থাৎ LANGUAGE–I এবং LANGUAGE–II মিলিয়ে সর্বমোট 30 নম্বরের প্রশ্নোত্তর আলোচিত হয়েছে।
PART- IV, LANGUAGE–I, SANSKRIT
अभ्यर्थिनः चतुर्थभागस्य (Part-IV) प्रश्नानाम् (प्र.सं. 91-120) उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा (Language-I) रूपेण चितम् ।
निर्देश :- अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (प्र० सं० 106-114) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
अस्ति हिमवान् नाम सर्वरत्नभूमिर्नगेन्द्रः। तस्य सानोरुपरि विभाति काञ्चनपुरं नाम नगरम् । तत्र जीमूतकेतुरिति श्रीमान् विद्याधरपतिः वसति स्म। तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः। स राजा जीमूतकेतुः तं कल्पतरुम् आराध्य तत्प्रसादात् च बोधिसत्त्वांशसम्भवं जीमूतवाहनं नाम पुत्रं प्राप्नोत् । स महान् दानवीरः सर्वभूतानुकम्पी च अभवत्। तस्य गुणैः प्रसन्नः स्वसचिवैश्च प्रेरितः राजा कालेन सम्प्राप्तयौवनं तं यौवराज्येऽभिषिक्तवान्। यौवराज्ये स्थितः सः जीमूतवाहनः कदाचित् हितैषिभिः पितृमन्त्रिभिः उक्तः “युवराज ! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स एव सदा पूज्यः। अस्मिन् अनुकूले स्थिते शक्रोऽपि नास्मान् बाधितुं शक्नुयात्” इति ।
आकर्यैतत् जीमूतवाहनः अन्तरचिन्तयत् “अहो बत ! ईदृशममरपादपं प्राप्यापि पूर्वैः पुरुषैरस्माकं तादृशं फलं किमपि नासादितं किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थोऽर्थितः। तदहमस्मात् मनोरथमभीष्टं साधयामि” इति।
एवमालोच्य स पितुरन्तिकमागच्छत्। आगत्य च सुखमासीनं पितरमेकान्ते न्यवेदयत् “तात ! त्वं तु जानासि एव यदस्मिन् संसारसागरे आशरीरमिदं सर्वं धनं वीचिवच्चञ्चलम् । एकः परोपकार एवाऽस्मिन् संसारेऽनश्वरः यो युगान्तपर्यन्तं यशः प्रसूते। तदस्माभिरीदृशः कल्पतरुः किमर्थं रक्ष्यते? यैश्च पूर्वैरयं ‘मम मम’ इति आग्रहेण रक्षितः, ते इदानीं कुत्र गताः? तेषां कस्यायम् ? अस्य वा के ते? तस्मात् परोपकारैकफलसिद्धये त्वदाज्ञया इमं कल्पपादपम् आराधयामि।
MCQ প্রশ্নোত্তর
CTET पेपर II संस्कृत December 2018 MCQ প্রশ্ন ও উত্তর গুলি নিচে দেওয়া হল। প্রশ্নের উত্তরগুলি সরাসরি না দিয়ে শিক্ষার্থীদের সুবিধার্থে উত্তরটি লুক্কায়িত আছে। পরীক্ষার্থীদের চেষ্টা করার সুযোগ আছে। উত্তরে Click👈 করলেই উত্তরটি দেখা যাবে।
1. जीमूतकेतुः कम् आराध्य पुत्रं प्राप्नोत् ?
(A) हिमवन्तम्
(B) काञ्चनपुरम्
(C) कल्पतरुम्
(D) बोधिसत्त्वम्
উত্তর👈
(C) कल्पतरुम्
2. ‘संसारेऽनश्वरः’ इत्यत्र सन्धिः कः?
(A) प्रकृतिभावः
(B) पूर्वरूपः
(C) वृद्धिः
(D) गुणः
উত্তর👈
(B) पूर्वरूपः
3. ‘नासादितम्’ इत्यस्य पदस्य पर्यायः कः?
(A) न प्राप्तम्
(B) न सन्निविष्टम्
(C) न उपविष्टम्
(D) असाधितं न
উত্তর👈
(A) न प्राप्तम्
4. ‘सर्वकामदः’ इति समस्तपदस्य विग्रहो भवति –
(A) सर्वं कामं दुनोति
(B) सर्वं कामं ददाति
(C) सर्वं कामं दर्शयति
(D) सर्वं कामं दधाति
উত্তর👈
(B) सर्वं कामं ददाति
5. बोधिसत्त्वांशसम्भवः कः?
(A) जीमूतकेतुः
(B) कल्पतरुः
(C) जीमूतवाहनः
(D) हिमवान्
উত্তর👈
(C) जीमूतवाहनः
6. ‘शक्र’ शब्दस्य पर्यायः भवति
(A) इन्द्रः
(B) चन्द्रः
(C) शुक्रः
(D) प्रजापतिः
উত্তর👈
(A) इन्द्रः
7. ‘प्रसन्नः’ इति पदस्य विलोमपदं भवति –
(A) निमग्नः
(B) विषण्णः
(C) स्तब्धः
(D) चकितः
উত্তর👈
(B) विषण्णः
8. गद्यांशेऽस्मिन् ‘नित्यम्’ इति पदस्य पर्यायः प्रयुक्तः
(A) अनश्वरः
(B) सर्वकामदः
(C) हिमवान्
(D) स्थितः
উত্তর👈
(A) अनश्वरः
9. सर्वकामदः कल्पतरुः कुत्र तिष्ठति ?
(A) नगरे
(B) नगेन्द्रे
(C) पुरे
(D) उद्याने
উত্তর👈
(D) उद्याने
निर्देश : अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां (प्र० सं० 115-120) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता ।।।।।
आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।
तस्मात् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः ।।2।।
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्माद् तदेव वक्तव्यं वचने का दरिद्रता ।।3।।
आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना छायेव मैत्री खलसज्जनानाम् ।।4।।
साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः ।
तृणं न खादन्नपि जीवमानः तद्भागधेयं परमं पशूनाम् ।।5।।
चिन्तनीया हि विपदाम् आदावेव प्रतिक्रियाः।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे।॥6॥
10. प्राणेभ्योऽपि विशेषतः किं रक्षेत्?
(A) धर्मम्
(B) सदाचारम्
(C) धनम्
(D) विद्याम्
উত্তর👈
(B) सदाचारम्
11. पिता पुत्राय बाल्ये किं यच्छति?
(A) विद्याधनम्
(B) तपः
(C) वस्तूनि
(D) पुस्तकानि
উত্তর👈
(A) विद्याधनम्
12. ‘जन्तवः’ इति पदं कस्मिन्नर्थे प्रयुक्तम्?
(A) मृगाः
(B) मानवाः
(C) पशवः
(D) जीवाः
উত্তর👈
(B) मानवाः
13. प्रतिक्रियाः आदावेव कासां चिन्तनीयाः?
(A) स्त्रीणाम्
(B) विपदाम्
(C) समस्यानाम्
(D) क्रियाणाम्
উত্তর👈
(B) विपदाम्
14. दिनस्य पूर्वार्द्धच्छाया कथं भवति?
(A) आरम्भगुर्वी
(B) क्षयिणी
(C) लघ्वी
(D) वृद्धिमती
উত্তর👈
(A) आरम्भगुर्वी
15. साक्षात्पशुः कः भवति ?
(A) पुच्छविषाणहीनः
(B) जीवमानः
(C) साहित्यसङ्गीतकलाविहीनः
(D) पुच्छविषाणसहितः
উত্তর👈
(C) साहित्यसङ्गीतकलाविहीनः
PART- V, LANGUAGE–II, SANSKRIT
अभ्यर्थिनः पञ्चमभागस्य (Part-V) प्रश्नानाम् (प्र.सं. 121-150) उत्तरं दद्युः, यदि तैः संस्कृतं द्वितीयभाषा (Language-II) रूपेण चितम् । CTET पेपर II संस्कृत December 2018
निर्देश :- अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (प्र० सं० 136-143) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत ।
आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः। स च विभवक्षयाद्देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्—
यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः ।।
तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुलासीत्। तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः । ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्वपुरमागत्य तं श्रेष्ठिनमुवाच— “भोः श्रेष्ठिन् ! दीयतां मे सा निक्षेपतुला।” स आह— “भोः ! नास्ति सा, त्वदीया तुला मूषकैर्भक्षिता” इति ।
जीर्णधन आह— “भोः श्रेष्ठिन् ! नास्ति दोषस्ते, यदि मूषकैर्भक्षितेति । ईदृगेवायं संसारः। न किञ्चिदत्र शाश्वतमस्ति । परमहं नद्यां स्नानार्थं गमिष्यामि। तत् त्वमात्मीयं शिशुमेनं धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय” इति।
स श्रेष्ठी स्वपुत्रमुवाच— “वत्स ! पितृव्योऽयं तव, स्नानार्थं यास्यति, तद् गम्यतामनेन सार्धम्” इति।
अथासौ वणिक्शिशुः स्नानोपकरणमादाय प्रहृष्टमनाः तेन अभ्यागतेन सह प्रस्थितः। तथानुष्ठिते स वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य, तद्वारं बृहच्छिलयाच्छाद्य सत्त्वरं गृहमागतः ।
पृष्टश्च तेन वणिजा— “भोः ! अभ्यागत ! कथ्यतां कुत्र मे शिशुर्यस्त्वया सह नदीं गतः”? इति।
स आह— “नदीतटात्स श्येनेन हृतः” इति। श्रेष्ट्याह— मिथ्यावादिन् ! किं क्वचित् श्येनो बालं हर्तुं शक्नोति? तत् समर्पय मे सुतम् अन्यथा राजकुले निवेदयिष्यामि” इति।
स आह— “भोः सत्यवादिन् ! यथा श्येनो बालं न नयति, तथा मूषका अपि लौहघटितां तुलां न भक्षयन्ति। तदर्पय मे तुलाम्, यदि दारकेण प्रयोजनम्” इति। एवं विवदमानौ तौ द्वावपि राजकुलं गतौ।
1. जीर्णधनस्य गृहे किमासीत् ?
(A) वणिक्शिशुः
(B) श्येनः
(C) मूषकः
(D) लौहघटिता तुला
উত্তর👈
(D) लौहघटिता तुला
2. सुचिरं कालं कः देशान्तरं भ्रमितवान्?
(A) श्रेष्ठी
(B) वणिक्शिशुः
(C) जीर्णधनः
(D) श्येनः
উত্তর👈
(C) जीर्णधनः
3. पितृव्यः कस्य?
(A) जीर्णधनस्य
(B) शिशोः
(C) श्रेष्ठिनः
(D) सत्यवादिनः
উত্তর👈
(B) शिशोः
4. ‘पुरुषाधमः’ इति समस्तपदस्य विग्रहः?
(A) पुरुषश्वासौ अधमश्च
(B) पुरुषस्य अधमः
(C) पुरुषः अधमः यस्य सः
(D) पुरुषात् अधमः
উত্তর👈
(A) पुरुषश्वासौ अधमश्च
5. ‘मूषकैः’ इति पदस्य पर्यायो भवति –
(A) आखुभिः
(B) वृषदंशैः
(C) कुक्कुरैः
(D) चोरैः
উত্তর👈
(A) आखुभिः
6. प्रहृष्टमनाः कः आसीत् ?
(A) वणिक्
(B) जीर्णधनः
(C) शिशुः
(D) पितृव्यः
উত্তর👈
(C) शिशुः
7. गद्यांशेऽस्मिन् ‘संस्थाप्य’ इत्यर्थे किं पदं प्रयुक्तम् ?
(A) प्रक्षिप्य
(B) आच्छाद्य
(C) निविश्य
(D) सन्दृश्य
উত্তর👈
(A) प्रक्षिप्य
8. कौ राजकुलं गतौ?
(A) विभवहीन-पुरुषाधमौ
(B) श्येन-मूषकौ
(C) पुत्र-पितृव्यौ
(D) जीर्णधन-वणिजौ
উত্তর👈
(D) जीर्णधन-वणिजौ
निर्देश :- (प्र० सं० 144-150) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत। अधोलिखितं गद्यांशं पठित्वा प्रश्नानां
कश्चित् कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्। तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत्। अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत। सः ऋषभः हलमूह्वा गन्तुमशक्तः क्षेत्रे पपात। क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारं यत्नमकरोत्। तथापि वृषः नोत्थितः ।
भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्। सुरभेरिमामवस्थां दृष्ट्वा सुराधिपः तामपृच्छत्— “अयि शुभे ! किमेवं रोदिषि? उच्यताम्” इति। सा च
विनिपातो न वः कश्चित् दृश्यते त्रिदशाधिपः।
अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक !।।
“भोः वासव ! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्वहति। इतरमिव धुरं वोढुं सः न शक्नोति । एतत् भवान् पश्यति न?” इति प्रत्यवोचत्।
“भद्रे ! नूनम् । सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्?” इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्—
यदि पुत्रसहस्रं मे, सर्वत्र सममेव मे।
दीनस्य तु सतः शक्र ! पुत्रस्याभ्यधिका कृपा ।।
“बहून्यपत्यानि मे सन्तीति सत्यम्। तथाप्यहमेतस्मिन् पुत्रे विशिष्य आत्मवेदनामनुभवामि । यतो हि अयमन्येभ्यो दुर्बलः । सर्वेष्वपत्येषु जननी तुल्यवत्सला एव। तथापि दुर्बले सुते मातुः अभ्यधिका कृपा सहजैव” इति। सुरभिवचनं श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत् । स च तामेवमसान्त्वयत्— “गच्छ वत्से ! सर्वं भद्रं जायेत”।
9. गद्यांशे प्रयुक्त ‘बलीवर्द’ शब्दस्य कोऽर्थः?
(A) गौः
(B) वृषः
(C) गर्दभः
(D) बलवान्
উত্তর👈
(B) वृषः
10. सुराधिपः कः?
(A) वासवः
(B) इन्द्रः
(C) शक्रः
(D) उपर्युक्ताः सर्वेऽपि
উত্তর👈
(D) उपर्युक्ताः सर्वेऽपि
11. गद्यांशे ‘वेगेन’ इत्यर्थे प्रयुक्तं पदं किम् ?
(A) शरीरेण
(B) तोदनेन
(C) जवेन
(D) तेन
উত্তর👈
(C) जवेन
12. ‘दृष्ट्वा’ इति प्रयोगस्य युक्तः कृदन्तप्रत्ययः अस्ति –
(A) क्त्वा
(B) तुमुन्
(C) क्तः
(D) शानच्
উত্তর👈
(A) क्त्वा
13. मातुः अभ्यधिका कृपा कस्मिन् भवति ?
(A) सहस्राधिकेषु पुत्रेषु
(B) बलीवर्दयोः
(C) सुबले
(D) दुर्बले
উত্তর👈
(D) दुर्बले
14. ‘अपत्यानि’ इति पदस्य पर्यायः अस्ति-
(A) पुत्राः
(B) पुत्र्यः
(C) सन्ततिः
(D) कुटुम्बानि
উত্তর👈
(C) सन्ततिः
15. ‘कृच्छ्रेण’ इति पदस्य विपरीतार्थकं पदं भवति –
(A) कष्टेन
(B) सुलभतया
(C) दुःखेन
(D) सन्तोषेण
উত্তর👈
(B) सुलभतया
অনুরূপ পাঠ
CTET पेपर II संस्कृत December 2018 MCQ প্রশ্ন ও উত্তর এর মতো ctet এর অনুরূপ পাঠগুলি জানতে নিম্নের Link এ Click করে জেনে নাও—
- CTET पेपर II संस्कृत July 2019 👈
- CTET पेपर II संस्कृत December 2019 👈
- CTET पेपर II संस्कृत January 2021 👈
- CTET पेपर II संस्कृत July 2021👈
- CTET पेपर II संस्कृत August 2023 👈
- CTET पेपर II संस्कृत July January 2024👈
- CTET पेपर II संस्कृत July 2024 👈
- CTET पेपर II संस्कृत December 2024 👈
- CTET पेपर II संस्कृत February 2026 👈
