TET पेपर-II संस्कृत August 2023 এর প্রশ্নগুলির উত্তর করে দেওয়া আছে। Central Teacher Eligibility Test এর প্রশ্নগুলি কেমন ধরণের হতে পারে, সে ধারণা পেতে সালের প্রশ্নগুলির অনুশীলন করা জরুরী।
CTET এ যে দুটি Language রাখতে হয়, তার মধ্যে একটি সংস্কৃত রাখতে পারেন। এ বিষয়ে খুব সহজেই score করতে পারবেন। সংস্কৃতকে যদি Language I নির্বাচন করেন, তাহলে 91 থেকে 120 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। আর আপনি যদি Language II নির্বাচন করেন তবে 121 থেকে 150 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। এখানে LANGUAGE-I এ গদ্য থেকে 9 এবং পদ্য থেকে 6 মোট 15 নম্বর এবং LANGUAGE-II এ দুটি গদ্যাংশ থেকে 8+7 মোট 15 নম্বর। অর্থাৎ LANGUAGE-I এবং LANGUAGE-II মিলিয়ে সর্বমোট 30 নম্বরের প্রশ্নোত্তর আলোচিত হয়েছে।
PART- IV, LANGUAGE-I, SANSKRIT
अभ्यर्थिनः चतुर्थभागस्य (Part-IV) प्रश्नानाम् (प्र.सं. 91-120) उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा (Language-I) रूपेण चितम् ।
निर्देशः : अधोलिखितान् श्लोकान् पठित्वा तदाधारितप्रश्नानां (प्रश्नसङ्ख्या 91 – 96) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत ।
शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् ।
न तृष्णायाः परो व्याधिर्न च धर्मो दयापरः ।।1।।
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।
शास्त्रपूतं वदेद् वाक्यं मनःपूतं समाचरेत् ।।2।।
तावद् भयाद्धि भेतव्यं यावद् भयमनागतम् ।
आगतं तु भयं दृष्ट्वा नरः कुर्याद् यथोचितम् ।।3।।
माता शत्रुः पिता वैरी येन बालो न पाठितः ।
न शोभते सभामध्ये हंसमध्ये बको यथा ।।4।।
रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ।।5।।
MCQ প্রশ্নোত্তর
CTET पेपर II संस्कृत August 2023 MCQ প্রশ্ন ও উত্তর গুলি নিচে দেওয়া হল। প্রশ্নের উত্তরগুলি সরাসরি না দিয়ে শিক্ষার্থীদের সুবিধার্থে উত্তরটি লুক্কায়িত আছে। পরীক্ষার্থীদের চেষ্টা করার সুযোগ আছে। উত্তরে Click👈 করলেই উত্তরটি দেখা যাবে।
1. सन्तोषात् परं किम् नास्ति ?
(A) प्रमादः
(B) सुखम्
(C) धनम्
(D) अकर्मण्यम्नव
উত্তর👈
(B) सुखम्
2. कीदृशं जलं पिबेत् ?
(A) मन्त्रपूतम्
(B) संक्रमणरहितम्
(C) मिष्टम्
(D) वस्त्रपूतम्
উত্তর👈
(D) वस्त्रपूतम्
3. आगतं भयं दृष्ट्वा नरः किं कुर्यात् ?
(A) कुत्रचिद् निगूहेत्
(B) शस्त्रैः युध्येत
(C) यथोचितम् कुर्यात्
(D) पलायेत्
উত্তর👈
(C) यथोचितम् कुर्यात्
4. ‘शान्तितुल्यम्’ इत्यस्मिन् प्रयोगे कः अलङ्कारः ?
(A) दृष्टान्तः
(B) अनुप्रासः
(C) श्लेषः
(D) उपमा
উত্তর👈
(D) उपमा
5. ‘येन बालो न पाठितः’ वाक्यम् इदम् कस्य वाच्यस्य ?
(A) कर्मवाच्यस्य
(B) भाववाच्यस्य
(C) भावकर्मवाच्यस्य
(D) कर्तृवाच्यस्य
উত্তর👈
(A) कर्मवाच्यस्य
6. ‘वस्त्रपूतम्’ इत्स्मिन प्रयोगे सविग्रहः समासः निर्दिश्यता
(A) वस्त्रं च पूतम् – द्वन्द्व समासः
(B) वस्त्रेण पूतम् – तृतीया तत्पुरुषः
(C) वस्त्राणि पूतानि यस्य – बहुव्रीहिः
(D) वस्त्राय पूतम् – चतुर्थी तत्पुरुषः
উত্তর👈
(B) वस्त्रेण पूतम् – तृतीया तत्पुरुषः
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्न (प्रश्नसङ्ख्या 97 – 105) विकल्पात्मकोत्तरेषु उचिततमम् अ चिनुत ।
एकदा दशबालकाः स्नानाय नदीम् अगच्छन् । ते निर्मले शीतले च नदीजले चिरं स्नानम् अकुर्वन् । ततः ते तीर्त्वा पारं गताः । तदा तेषां नायकः अपृच्छत् – अपि सर्वे बालकाः नदीं उत्तीर्णाः ? इति ।
तदा कश्चित् बालकः अगणयत् एकः, द्वौ, त्रयः, चत्वारः, पञ्च, षट्, सप्त, अष्टौ, नव इति । सः स्वं न अगणयत् । अतः सः अवदत् नव एव सन्ति । दशमः न अस्ति इति । अपरः अपि बालकः पुनः अन्यान् बालकान् अगणयत् । तदा अपि नव एव आसन् । अतः ते निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः इति । ते दुःखिताः तूष्णीम् अतिष्ठन् । तदा कश्चित् पथिकः तत्र आगच्छत् । सः तान् बालकान् दुःखितान् दृष्ट्वा अपृच्छत् बालकाः युष्माकं दुःखस्य कारणं किम ? इति । बालकानां नायकः अकथयत् – वयं दश बालकाः स्नातुम् आगताः । इदानीं नव एव स्मः । एकः नद्यां मग्नः इति ।पथिकः तान् अगणयत् । तत्र दश बालकाः एव आसन् । सः नायकम् आदिशत्-त्वं बालकान् गणय इति । सः तु नव बालकान् एव अगणयत् । तदा पथिकः अवदत् दशमः त्वम् असि इति । तत् श्रुत्वा प्रहृष्टाः भूत्वा सर्वे गृहम् अगच्छन् ।
7. बालकाः किं तीर्त्वा पारं गताः ?
(A) जलाशयम्
(B) वनम्
(C) समुद्रम्
(D) नदीम्
উত্তর👈
(D) नदीम्
8. बालकाः किं निश्चयम् अकुर्वन् ?
(A) यत् दशमः बालकः नद्यां मग्नः ।
(B) यत् ते केवलं अष्टौ एव सन्ति ।
(C) गृहाद् एव नव बालकाः समागता आसन् ।
(D) यत् ते सर्वे सुरक्षिता सन्ति ।
উত্তর👈
(A) यत् दशमः बालकः नद्यां मग्नः ।
9. बालकानाम् केन शुद्धा गणना कृता ?
(A) द्वितीयेन बालकेन
(B) पथिकेन
(C) प्रथमेन बालकेन
(D) नायकेन
উত্তর👈
(B) पथिकेन
10. कस्य वचनं श्रुत्वा प्रसन्नाः भूत्वा गतवन्तः ?
(A) प्रथमगणकस्य
(B) अध्यापकस्य
(C) पथिकस्य
(D) नायकस्य
উত্তর👈
(C) पथिकस्य
11. ‘मग्नः’ इत्यस्य शब्दस्य अत्र कोऽर्थः ?
(A) खिन्नः
(B) जले निमग्नः
(C) संलग्नः
(D) प्रसन्नः
উত্তর👈
(B) जले निमग्नः
12. ‘अन्य’ शब्दस्य अर्थे गद्यांशे कः शब्दः अपि प्रयुक्तः ?
(A) अपरः
(B) पथिकः
(C) नायकः
(D) तूष्णीम्
উত্তর👈
(A) अपरः
13. निम्नलिखितेषु कः शब्दः लङ् लकारस्य नास्ति ?
(A) अवदत्
(B) अगणयत्
(C) गणय
(D) अगच्छन्
উত্তর👈
(C) गणय
14. ‘युष्माकम्’ शब्दस्य व्युत्पत्तिः दोयताम् ?
(A) त्वत् + षष्ठी बहुवचनम्
(B) युष्मद् + षष्ठी बहुवचनम्
(C) एतद् + षष्ठी बहुवचनम्
(D) अस्मद् + षष्ठी बहुवचनम्
উত্তর👈
(B) युष्मद् + षष्ठी बहुवचनम्
15. ‘उत्तीर्णः’ इत्यस्मिन् पदे कः धातुः कः प्रत्ययः ?
(A) तृृ + क्त
(B) तीर् + क्त
(C) तृ + क्त्वा
(D) तीर् + णिच्
উত্তর👈
(A) तृृ + क्त
PART- V, LANGUAGE–II, SANSKRIT
अभ्यर्थिनः पञ्चमभागस्य (Part-V) प्रश्नानाम् (प्र.सं. 121-150) उत्तरं दद्युः, यदि तैः संस्कृतं द्वितीयभाषा (Language-II) रूपेण चितम् ।
निर्देशः- अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां (प्रश्नसङ्ख्या 136 – 142) विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत ।
पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म । कालेन तस्याः सन्ततिः जाता । एकदा कश्चित् प्रमत्तः गजः तस्य वृक्षस्य अधः आगत्य तस्य शाखां शुण्डेन अत्रोटयत् । चटकायाः नीडं भुवि अपतत् । तेन अण्डानि विशीर्णानि । अथ सा चटका व्यलपत् । तस्याः विलापं श्रुत्वा काष्ठकूटः नाम खगः दुःखेन ताम् अपृच्छत्- ‘भद्रे, किमर्थं विलपसि ?’ इति ।
चटकावदत् – ‘दुष्टेनैकेन गजेन मम सन्ततिः नाशिता । तस्य गजस्य वधेनैव मम दुःखम् अपसरेत् ।’ ततः काष्ठकूटः तां बीणारवा-नाम्न्याः मक्षिकायाः समीपम् अनयत् । तयोः वार्ता श्रुत्वा मक्षिकावदत् – ‘ममापि मित्रं मण्डूकः मेघनादः अस्ति । शीघ्रं तमुपेत्य यथोचितं करिष्यामः ।’ तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम् ।
मेघनादः अवदत् ‘यथाहं कथयामि तथा कुरुतम् । मक्षिके ! प्रथमं त्वं मध्याह्ने तस्य गजस्य कर्णे शब्दं कुरु, येन सः नयने निमील्य स्थास्यति । तदा काष्ठकूटः चञ्च्वा तस्य नयने स्फोटयिष्यति । एवं सः गजः अन्धः भविष्यति । तृषार्तः सः जलाशयं गमिष्यति । मार्गे महान् गर्त्तः अस्ति । तस्य अन्तिके अहं स्थास्यामि शब्दं च करिष्यामि । मम शब्देन तं गर्तं जलाशयं मत्वा सः तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च ।’
अथ तथाकृते सः गजः मध्याह्ने मण्डूकस्य शब्दम् अनुसृत्य महतः गर्तस्य अन्तः पतितः मृतः च । तथा चोक्तम् –
‘बहूनामप्यसाराणां समवायो हि दुर्जयः ।’
1. प्रमत्तः गजः किम् अकुर्वत् ?
(A) चटकायाः अण्डानि अभञ्जयत्
(B) वृक्षं अत्रोटयत्
(C) काष्ठकूटं खगम् अमारयत्
(D) शाखां शुण्डेन अत्रोटयत्
উত্তর👈
(D) शाखां शुण्डेन अत्रोटयत्
2. मेघनादः कस्य नाम आसीत् ?
(A) मण्डूकस्य
(B) खगस्य
(C) चटकस्य
(D) गजस्य
উত্তর👈
(A) मण्डूकस्य
3. काष्ठकूटः चटकां कस्य समीपम् अनयत् ।
(A) गजस्य समीपम्
(B) मक्षिकायाः समीपम्
(C) जलाशयस्य समीपम्
(D) मण्डूकस्य समीपम्
উত্তর👈
(B) मक्षिकायाः समीपम्
4. ‘अन्तिके’ इत्यस्य शब्दस्य निम्नलिखितेषु कोऽर्थः ?
(A) मार्गे
(B) सायंकाले
(C) समीपम्
(D) वृत्तान्तः
উত্তর👈
(C) समीपम्
5. ‘मत्वा’ शब्दस्य निर्वचनम् निम्नलिखितेषु किम् अस्ति ?
(A) मत् + वा
(B) मत् + क्त्वा
(C) मा + त्वा
(D) मन् + क्त्वा
উত্তর👈
(D) मन् + क्त्वा
6. ‘तृषार्तः’ इत्यस्य शब्दस्य विग्रहं कृत्वा समासस्य नाम दीयताम् ।
(A) तृषया आर्तः य सः तृषार्तः बहुव्रीहिः
(B) तृषया आर्तः तृतीया तत्पुरुषः
(C) तृषायै आर्तः चतुर्थी तत्पुरुषः
(D) तृषायाः आर्तः पञ्चमी तत्पुरुषः
উত্তর👈
(B) तृषया आर्तः तृतीया तत्पुरुषः
7. ‘यथोचितम्’ अत्र सन्धिविच्छेदं कृत्वा सन्धेर्नाम निर्दिश्यताम् ।
(A) यथा + ओचितम् गुणसन्धिः
(B) यथा + उचितम् वृद्धिसन्धिः
(C) यथा + औचित्यम् वृद्धिसन्धिः
(D) यथा + उचितम् गुणसन्धिः
উত্তর👈
(D) ) यथा + उचितम् गुणसन्धिः
निर्देश :- अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां (प्रश्नसङ्ख्या 143-150) विकल्पात्मकोत्तरेषुः उचिततमम् उत्तरं चिनुत ।
नर्मदातीरे एकः वृक्षः आसीत् । तत्र स्वपरिश्रमेण निर्मितेषु नीडेषु खगाः सुखेन वसन्ति स्म । तत्र वृक्षतले कश्चित् वानरः अपि वसति स्म । एकदा महती वृष्टिः अभवत् । सः वानरः वृष्टिजलेन अतीव आर्द्रः कम्पितः च अभवत् । खगाः शीतेन कम्पमानं वानरम् अवदन् – भो वानर ! त्वं कष्टम् अनुभवसि । तत् कथं गृहस्य निर्माणं न करोषि ! यदा सः वानरः एतत् अशृणोत् तदा सः अचिन्तयत् अहो ! एते क्षुद्राः खगाः मां निन्दन्ति । सः वानरः खगानां नीडानि वृक्षात् अधः अपातयत् । खगानां नीडैः सह तेषाम् अण्डानि अपि नष्टानि । सत्यम् एव उक्तम्—
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
8. खगाः कुत्र अवसन् ?
(A) शाखासु
(B) वृक्षमूले
(C) वृक्षगुल्मेषु
(D) नीडेषु
উত্তর👈
(D) नीडेषु
9. वानरः कुत्र वसति स्म ?
(A) वृक्षतले
(B) मन्दिरेषु
(C) सघनपत्रेषु
(D) जीर्णगृहेषु
উত্তর👈
(A) वृक्षतले
10. एकदा किम् अभवत् ?
(A) महती वृष्टिः संजाता
(B) वृक्षस्य शाखाः त्रुटिताः
(C) भूकम्पः समागच्छत्
(D) तीव्रवायुवेगात् वृक्षः पतितः
উত্তর👈
(A) महती वृष्टिः संजाता
11. कीदृशं वानरं खगाः अवदन् ?
(A) जलं पिबन्तम्
(B) फलानि खादन्तम्
(C) शीतेन कम्पमानम्
(D) शाखासु वसन्तम्
উত্তর👈
(C) शीतेन कम्पमानम्
12. गद्यांशे प्रयुक्तस्य नीडशब्दस्य पर्यायवाची निम्नलिखितेषु कः शब्दः समीचीनः ?
(A) वसतिः
(B) निवासस्थानम्
(C) कुलायः
(D) वासः
উত্তর👈
(C) कुलायः
13. ‘शाखामृगः’ इत्यस्य अर्थे गद्यांशे कः शब्दः प्रयुक्तः ?
(A) आर्द्रः
(B) नीडः
(C) वानरः
(D) खगः
উত্তর👈
(C) वानरः
14. ‘कम्पमानम्’ इत्यस्मिन् पदे कः कृत्प्रत्ययः प्रयुक्तः ?
(A) मानच्
(B) शानच्
(C) कानच्
(D) शतृ
উত্তর👈
(B) शानच्
15. ‘अचिन्तयत्’ क्रियापदम् इदम् कस्य गणस्य धातोः रूपम् अस्ति ?
(A) दिवादिगणस्य
(B) चुरादिगणस्य
(C) तुदादिगणस्य
(D) भ्वादिगणस्य
উত্তর👈
(B) चुरादिगणस्य
অনুরূপ পাঠ
CTET पेपर II संस्कृत August 2023 MCQ প্রশ্ন ও উত্তর এর মতো ctet এর অনুরূপ পাঠগুলি জানতে নিম্নের Link এ Click করে জেনে নাও—
- CTET पेपर II संस्कृत December 2018 👈
- CTET पेपर II संस्कृत July 2019 👈
- CTET पेपर II संस्कृत December 2019 👈
- CTET पेपर II संस्कृत January 2021 👈
- CTET पेपर II संस्कृत July 2021 👈
- CTET पेपर II संस्कृत July January 2024👈
- CTET पेपर II संस्कृत July 2024 👈
- CTET पेपर II संस्कृत December 2024 👈
- CTET पेपर II संस्कृत February 2026 👈
