CTET पेपर-II संस्कृत December 2024

CTET पेपर-II संस्कृत December 2024 এর প্রশ্নগুলির উত্তর করে দেওয়া আছে। Central Teacher Eligibility Test এর প্রশ্নগুলি কেমন ধরণের হতে পারে, সে ধারণা পেতে সালের প্রশ্নগুলির অনুশীলন করা জরুরী।

CTET এ যে দুটি Language রাখতে হয়, তার মধ্যে একটি সংস্কৃত রাখতে পারেন। এ বিষয়ে খুব সহজেই score করতে পারবেন। সংস্কৃতকে যদি Language I নির্বাচন করেন, তাহলে 91 থেকে 120 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। আর আপনি যদি Language II নির্বাচন করেন তবে 121 থেকে 150 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। এখানে LANGUAGE-I এ গদ্য থেকে 9 এবং পদ্য থেকে 6 মোট 15 নম্বর এবং LANGUAGE-II এ দুটি গদ্যাংশ থেকে 8+7 মোট 15 নম্বর। অর্থাৎ LANGUAGE-I এবং LANGUAGE-II মিলিয়ে সর্বমোট 30 নম্বরের প্রশ্নোত্তর আলোচিত হয়েছে।

PART- IV, LANGUAGE-I, SANSKRIT

अभ्यर्थिनः चतुर्थभागस्य (Part-IV) प्रश्नानाम् (प्र.सं. 91-120) उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा (Language-I) रूपेण चितम् ।


निर्देशः – निम्नलिखितानि पद्यानि पठित्वा षट्प्रश्नानां (91-96) उत्तराणि समुचितं विकल्पं चित्वा देयानि।

न चीरहार्यं न च राजहार्य न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ।। 1 ।।
विद्या ददाति विनयं विनयाद्याति पात्रताम्।
पात्रत्वाद्धनमाप्नोति धनाद्धर्म ततस्सुखम् ।। 2 ।।
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति।
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात् ।। ३ ।।
विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ।। 4 ।।
किं कुलेन विशालेन विद्याहीनस्य देहिनः।
अकुलीनोऽपि विद्यावान्देवैरपि स पूज्यते ।। 5।।

MCQ প্রশ্নোত্তর

CTET पेपर II संस्कृत December 2024 MCQ প্রশ্ন ও উত্তর গুলি নিচে দেওয়া হল। প্রশ্নের উত্তরগুলি সরাসরি না দিয়ে শিক্ষার্থীদের সুবিধার্থে উত্তরটি লুক্কায়িত আছে। পরীক্ষার্থীদের চেষ্টা করার সুযোগ আছে। উত্তরে Click👈 করলেই উত্তরটি দেখা যাবে।

1. “व्यये कृते वर्धत एव नित्यम्”— अस्य कथनस्य प्रसन्ने किम् उपयुक्तम् ? 

(A) रजतम्

(B) विद्या

(C) समयः

(D) स्वर्णम्

2. सर्वत्र कः पूज्यते?

(A) बलवान्

(B) धनवान्

(C) अघवान्

(D) विद्वान्

3. “किं कुलेन विशालेन विद्याहीनस्य देहिनः”— अस्य सिद्धान्तस्य किं सारवाक्यम् ?

(A) विद्याविहीने विशालकुले कलहाः भवन्ति

(B) विद्याविहीनं विशालकुलं नाशं गच्छति

(C) विद्यारहिते विशालकुले दुव्र्व्यसनानि जायन्ते

(D) विद्याविहीनं विशालकुलं निरर्थकम्

4. ‘देहिनः’ पदस्य कोऽर्थः?

(A) परमात्मनः

(B) स्थूलकायस्य

(C) जीवात्मनः

(D) बलिष्ठदेहयुक्तस्य

5. स्वदेशे पूज्यते राजा” अत्र किं वाच्यम् अस्ति?

(A) कर्मवाच्यम्

(B) भावकर्मवाच्यम्

(C) भाववाच्यम्

(D) कर्तृवाच्यम्

6. ‘आयाति’ इत्यस्मिन् पदे को धातुः कस्य गणस्य च वर्तते ?

(A) या धातु भ्वादिगणः

(B) या धातु अदादिगणस्य

(C) अय् धातु भ्वादिगणस्य

(D) इ धातु भ्वादिगणः

निर्देशः – निम्नलिखितं गद्यांशं पठित्वा नवप्रश्नानाम् (112-120) उत्तराणि यथोचितं विकल्पं चित्वा देयानि।

अस्ति एकं निर्जनं वनम् । एकदा कश्चित् व्याधः वनम् आगच्छति। सः तण्डुलकणान् भूतले विकिरति। तत्र सः जालं प्रसारयति। स्वयं दुरं गत्वा प्रच्छनः तिष्ठति ।

चित्रग्रीवः नाम कपोतराजः कपोतैः सह आकाशे उत्पतति । कपोताः भूमौ तण्डुलकणान् पश्यन्ति। ते तण्डुलकणान् अभिलषन्ति । चित्रग्रीवः वदति- अत्र निर्जने बने कुतः तण्डुलकणाः? किंचित् अनिष्टं पश्यामि अहम् ।

एकः कपोतः बदति किम् अनिष्टम् अत्र? यदि सर्वत्र शङ्कां करिष्यामः तर्हि अस्माकं जीवनम् अपि कठिनं भविष्यति। अतः वयं भूमौ अवतरामः ।

सर्वे कपोताः तण्डुलार्थं गगनात् अवतरन्ति। ततः जाले बद्धाः ते दुःखिताः भवन्ति।

चित्रग्रीवः वदति-न भेतव्यम्। वयम् उपायं चिन्तयामः। वयं समकालम् एव जालेन सह उत्पतामः।

कपोताः जालेन सह गगनम् उत्पतन्ति। चकितः व्याधः दूरात् तद् दृश्यं पश्यति। दुःखिनः सः गृहं गच्छति।

चित्रग्रीवः पुनः वदति- चित्रवने हिरण्यकः नाम मूषिकराजः निवसति। वयं तस्य समीपं गच्छामः। सः अस्माकं पाशानां छेदनं करिष्यति।

सर्वे कपोताः हिरण्यकस्य चिलस्य समीपम् आगच्छन्ति। हिरण्यकः स्वमित्रं दृष्ट्वा प्रसन्नः भवति किन्तु तस्य बन्धनं दृष्ट्वा दुश्वी भवति। सः शीघ्र स्वमित्रस्य बन्धनस्य छेदनाय तत्परः भवति।

चित्रग्रीवः हिरण्यकं निवारयति वदति च भोः वयस्य, प्रथमं सर्वेषां पाशानां छेदनं कुरु, अनन्तरं मम।

7. भूतले तण्डुलकणान् कः विकिरति?

(A) व्याधः

(B) चित्रग्रीवः

(C) ग्रामीणः

(D) मुनिः

8. कपोतैः सह आकाशे कः उत्पतति?

(A) सर्व पक्षिणः

(B) कपोतराजः चित्रग्रीवः

(C) वायसाः

(D) व्याधः

9. चित्रग्रीवः किं दृष्ट्वा अनिष्टं अपश्यत्?

(A) उड्डीयमानान् विहगान्

(B) निर्जनबने तण्डुलकणान्

(C) 3) वायसानां क्रोशनम्

(D) व्याधम्

10. “यदि सर्वत्र शङ्कां करिष्यामः तर्हि अस्माकं जीवनम् अपि कठिनं भविष्यति।” कथनमिदं कस्य विद्यते?

(A) कपोतराजस्य

(B) वायसस्य

(C) श्रृगालस्य

(D) कपोतानां मध्ये एकस्य कपोतस्य

11. गद्यांशे प्रयुक्तस्य ‘अभिलषन्ति’ इत्यस्मिन् अर्धे निम्नलिखितेषु कः शब्दः प्रयोक्तुं शक्यते?

(A) इच्छन्ति

(B) शृङ्गारं कुर्वन्ति

(C) त्यजन्ति

(D) पश्यन्ति

12. ‘अनिष्ट’ शब्दस्य निम्नलिखितेषु कः पर्यायवाची?

(A) आशङ्का

(B) भयम्

(C) सङ्कटम्

(D) विषादः

13. ‘प्रच्छनः’ पदस्य निर्वचनं क्रियताम् –

(A) प्र + छत् + क्तः

(B) प्र + छद् + क्तः

(C) प्र + छिद् + क्त प्रत्यय

(D) प्र + छन् + नः

14. ‘अवतरन्ति’ इत्यस्मिन् पदे कः धातुः?

(A) तृृ

(B) तर्

(C) तिर्

(D) तृ

15. ‘छेदनम्’ इत्यस्य पदस्य निर्वाचनं दीयताम्

(A) छिद् + अन्

(B) छिद् + ल्युट्

(C) छद् + ल्युट्

(D) छेद् + ल्युट्

PART- V, LANGUAGEII, SANSKRIT

अभ्यर्थिनः पञ्चमभागस्य (Part-V) प्रश्नानाम् (प्र० सं० 121-150) उत्तराणि दद्युः, यदि तैः संस्कृतं द्वितीयभाषा (Language-II)-रूपेण चितम्।

निर्देशः- निम्नलिखितं गद्यांशं पठित्वा सप्तप्रश्नानाम् (121-127) उत्तराणि यथोचितं विकल्पं चित्वा देयानि।

पार्वती शिवं पतिरूपेण प्राप्तुं तपस्याम् अकरोत्। सा पितृगृहं परित्यज्य कानने अवसत्। कानने हिंस्राः पशवः चरन्ति स्म। तथापि पार्वती निर्भया आसीत्। निर्भयं जनम् ईश्वरः स्वयमेव रक्षति।

पार्वत्याः कोमलतनुं दृष्ट्वा जननी आदिशत्वत्से! क्व कठिनं तपः क्व च तव कोमलं शरीरम्? कथम् आतपात् शीतात् वा आत्मानं रक्षिष्यसि? तर्हि तपः मा चर। सुखेन स्वगृहे एव वस। अत्रैव व्रतादिकं कुरु। एतेनैव तव मनोरथः पूर्तिम् एष्यति।

परन्तु पार्वती अकथयत्- अम्ब! तपस्यामेव करिष्यामि। ईश्वरः मम रक्षां करिष्यति। तपस्यार्थ कोऽपि न गृहे वसेत्। एवमुक्त्वा सा वनमगच्छत् तपस्यां च समाचरत्।

कतिचित् मासाः गताः। एकदा कश्चिद् वटुः तपोवनं प्राविशत्। बटुं दृष्ट्वा पार्वती आसनात् उत्थाय तमुपगम्य सादरम् अकथयत्वटो, स्वागतं ते। उपविशतु भवान्।

बटुः कुशलं पृष्ट्वा कौतूहलेन अपृच्छत् हे तपस्विनि ! किमर्थं कठिनं तपः समाचरसि? स्वकीयां तनुं च मलिनां करोषि ? पार्वती न किञ्चिदवदत् । तत्सखी एव तस्याः तपसः प्रयोजनं वटवे न्यवेदयत्।

तत् श्रुत्वा वटुः अपृच्छत् अयि पार्वति ! किं सत्यमेव त्वं शिवं पतिमिच्छसि यो हि अशिवं चरति, श्मशाने वसति ? यस्य त्रीणि नेत्राणि, यस्य वसनं गजचर्म, यस्य अङ्गरागः चिताभस्म, यस्य परिजनाश्च भूतगणाः, किं तमेव शिवं पर्ति कर्तुम् इच्छसि? शिवनिन्दां श्रुत्वा पार्वती क्रुद्धा जाता। सा अवदत् अपसर अरे वाचाल ! त्वं महेश्वरस्य परमार्थस्वरूपमेव न जानासि । तत् नोचितं त्वया सह सम्भाषणम् ।

एवमुक्त्वा यदा सा प्रस्थानाय उद्यता, तावदेव शिवः वटोः रूपं परित्यज्य तस्याः मार्गम् अवरुध्य अवदत् “पार्वति ! प्रीतोऽस्मि तव तपोभिः” इति।

1. पार्वती किमर्थं तपस्याम् अकरोत्?
(A) पार्वती मातुः आदेशात् तपस्याम् अकरोत्
(B) पार्वती शिवं पतिरूपेण प्राप्तुं तपस्याम् अकरोत्
(C) पार्वती आत्मसुखाय तपस्याम् अकरोत्
(D) पार्वती पितुः आदेशात् तपस्याम् अकरोत्

2. ईश्वरः कं स्वयमेव रक्षति?
(A) श्रद्धावन्तम्
(B) निर्भयम्
(C) स्तुतिपरकम्
(D) शरणागतम्

3. “तर्हि तपः मा चर” एतानि वचनानि कस्य सन्ति ?
(1) पार्वत्याः पितुः
(3) देवतानाम्
(C) वटोः
(D) पार्वत्याः मातुः

4. पार्वती आसनाद् उत्थाय कस्य स्वागतम् अकरोत् ?
(A) देवतानाम्
(B) इन्द्रस्य
(C) बटोः
(D) पितुः

5. पार्वती किमर्थं क्रुद्धा अभवत् ?
(A) मातुः परामर्शात्
(B) बने पशूनां कोलाहलेन
(C) बटुना मार्गावरोधात्
(D) शिवनिन्दां श्रुत्वा

6. ‘एष्यति’ इत्यस्य पदस्य निर्वचनं क्रियताम् –
(A) एष् + लट् + प्रथमपुरुषः एकवचनम्
(B) एष्य् + लृट् + मध्यमपुरुषः द्विवचनम्
(C) इ + लुट्लकारः प्रथमपुरुषः एकवचनम्
(D) इष् + लुट्लकारः प्रथमपुरुषः एकवचनम्

7. ‘क्रुद्धा’ इत्यस्मिन् पदे प्रकृति-प्रत्ययपूर्वकं निर्वचनं कुरुत-
(A) क्रुध् + क्त टाप्
(B) क्रुश् ध + आटू
(C) क्रुद्ध + शप् + अ
(D) क्रुध् + ध+ टाप्

निर्देश :- निम्नलिखितं गद्यांशं पठित्वा अष्टप्रश्नानाम् (143-150) उत्तराणि यथोचितं विकल्पं चित्वा देयानि।

आसीत् पुरा माधवो नाम कश्चिद् गोपालकः। तस्य गृहे नन्दिनी नामका गौः आसीत्। तस्याः दुग्धं विक्रीय सः सुखेन जीवनं यापयति स्म। एकदा तस्य भागिनेयः तत्रागत्य सूचितवान् मातुल ! “प्रतिवेशिनः श्रेष्ठिनः गृहे मासानन्तरम् एकः यज्ञः संपत्स्यते। तस्मिन् उत्सवे पञ्चाशत् किलोमितस्य क्षीरस्य आवश्यकता भविष्यति।” इदमाकर्ण्य माधवः अचिन्तयत् “पञ्चाशत् किलोमितं पयः; अस्तु दास्यामि। एतावन्मात्रं पयः विक्रीय बहुधनं प्राप्स्ये, येन एकस्य भवनस्य निर्माणं करिष्यामि” ।

अथ प्रसन्नः माधवः स्वधेनुम् अहर्निशं सेवते। सः तस्याः रतुं धृत्वा तस्यै तृप्तिपर्यन्तं प्रभूतं घासादिकं ददाति, जलं पाययति, विषाणयोः तैलं करोति। प्रातः सायं च तां तिलकं करोति। यदा-कदा गुडादिकमपि भोजयति। स सर्वदा चिन्तयामास “एकवारं ग्रहीष्यामि पयोऽस्या प्राज्यमुत्सवे”।

इत्थं सेवानिरतस्य तस्य एकः मासः व्यतीतः। अस्मिन्नन्तरे तस्य भार्या मालती पितृगृहात् प्रत्यावर्तत। माधवः तां तत्सर्वं विस्तरेण अकथयत्। तौ सत्वरं कुम्भकारस्य गृहाद् घटदशकं क्रीतवन्ती। तदैव प्रतिवेशी दुग्धाय तम् आकारयत्। माधवस्तु सपदि पञ्चोपचारः गाम् अपूजयत्। पात्रहस्तः दोहनाय गोः समीपम् अगच्छत्। मासैकपर्यन्तं दुग्धस्य अदोहनात् दुग्धहीना सा माधवहस्ते पात्रं दृष्दैव अकूर्दत् । माधवः पीनःपुन्येन प्रार्थयति “नन्दिनि! कथं मां व्याकुलयसि ? पञ्चाशत् किलोमितं क्षीरं सत्वरं यच्छ”।

पौनःपुन्येन दोग्धुं प्रयतमानं माधवं सा पृष्ठपादाभ्यां ताडयित्वा रक्तरञ्जितमकरोत्। तं तादृशावस्थायां वीक्ष्य मालती मूर्च्छिता जाता। बहुभिः उपचारैः तस्याः मूच्र्च्छा दूरीकृत्य माधवः ताम् अकथयत् मासान्तेऽहं धनी भविष्यामि इति चिन्तयित्वैव मासपर्यन्तं मया धेनुरेव न दुग्धा। अस्मात् कारणादियं दुग्धहीनाऽभवत्। देवि ! भविष्यचिन्तायां तु मया स्वकीयं वर्तमानमपि बिनाशितम्। एभिः रक्तबिन्दुभिः मम चक्षुरुन्मीलितं यत् लघ्वपि कार्य अविचार्य न कर्तव्यम्। उक्तं हि-

सुविचार्य विधातव्यं कार्य कल्याणकांक्षिणा।
यः करोत्यविचार्यैतत् स विषीदति मानवः ।।

8. माधवः सुखेन जीवनं कथं यापयति स्म ?
(A) गोः दुग्धं विक्रीय
(B) अन्य गोपालकानां साहचर्ये
(C) पत्न्या सह मनोविनोदं कृत्वा
(D) गोः सेवां कृत्वा

9. पञ्चाशत् किलोमितस्य दुग्धस्य आवश्यकता कस्य गृहे आसीत् ?
(A) भागिनेयस्य
(B) ग्रामस्य देवालये
(C) कृषकस्य
(D) श्रेष्ठिनः

10. दुग्धं विक्रीय बहुधनेन माधवः किं कर्तुं अचिन्तयत्?
(A) दुग्धस्य उत्पादनं वर्धयितुम्
(B) भवनस्य निर्माणं कर्तुम्
(C) दुग्धस्य व्यापारं कर्तुम्
(D) अपरां गां क्रेतुम्

11. एकमासानन्तरं नन्दिनी दुग्धहीना कथम् अभवत् ?
(A) नन्दिनी सेवायाः अभावे दुर्बला संजाता
(B) गोः दुग्धस्य दोहनकालः पूर्णोऽभवत्
(C) माधवः गां ताडयति स्म
(D) मासपर्यन्तं धेनुर्न दुग्धा

12. ‘भागिनेय’ शब्दस्य कोऽर्थः?
(A) भगिन्याः पौत्रः
(B) भगिन्याः पुत्री
(C) पितुः भगिन्याः पुत्रः
(D) भगिन्याः पुत्रः

13. “स समीपे वसति” इत्यस्मिन्नर्थे गद्यांशे कः शब्दः प्रयुक्तः?
(A) विषाणी
(B) कुम्भकारः
(C) प्रतिवेशी
(D) पाययति

14. निम्नलिखितेषु प्रेरणार्थकं क्रियारूपं किम् अस्ति?
(A) दास्यामि
(B) प्रत्यावर्तत
(C) पाययति
(D) अचिन्तयत्

15. ‘सेवानिरतः’ इत्यस्मिन् पदे विग्रहपूर्वकं समासं कथम् ?
(A) सेवायां निरतः षष्ठी-तत्पुरुषः
(B) सेवायां निरतः य सः सेवानिरतः बहुव्रीहिः
(C) सेवायाः निर्गतः पञ्चमी तत्पुरुषः
(D) सेवायै निरतम् चतुर्थी तत्पुरुषः

অনুরূপ পাঠ

CTET पेपर II संस्कृत December 2024 MCQ প্রশ্ন ও উত্তর এর মতো ctet এর অনুরূপ পাঠগুলি জানতে নিম্নের Link এ Click করে জেনে নাও

Leave a Comment