CTET पेपर II संस्कृत July 2024 এর প্রশ্নগুলির উত্তর করে দেওয়া আছে। Central Teacher Eligibility Test এর প্রশ্নগুলি কেমন ধরণের হতে পারে, সে ধারণা পেতে সালের প্রশ্নগুলির অনুশীলন করা জরুরী।
CTET এ যে দুটি Language রাখতে হয়, তার মধ্যে একটি সংস্কৃত রাখতে পারেন। এ বিষয়ে খুব সহজেই score করতে পারবেন। সংস্কৃতকে যদি Language I নির্বাচন করেন, তাহলে 91 থেকে 120 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। আর আপনি যদি Language II নির্বাচন করেন তবে 121 থেকে 150 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। এখানে LANGUAGE-I এ গদ্য থেকে 9 এবং পদ্য থেকে 6 মোট 15 নম্বর এবং LANGUAGE-II এ দুটি গদ্যাংশ থেকে 8+7 মোট 15 নম্বর। অর্থাৎ LANGUAGE-I এবং LANGUAGE-II মিলিয়ে সর্বমোট 30 নম্বরের প্রশ্নোত্তর আলোচিত হয়েছে।
PART- IV, LANGUAGE-I, SANSKRIT
अभ्यर्थिनः चतुर्थभागस्य (Part-IV) प्रश्नानाम् (प्र.सं. 91-120) उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा (Language-I) रूपेण चितम् ।
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (91-99) विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत ।
प्रकृतिः समेषां प्राणिनां संरक्षणाय यतते। इयं सर्वान् पुष्णाति विविधैः प्रकारैः सुखसाधनैः च तर्पयति। पृथिवी, जलम्, तेजः, वायुः, आकाशः च अस्याः प्रमुखानि तत्त्वानि। तान्येव मिलित्वा पृथक्तया वाऽस्माक पर्यावरणं रचयन्ति। आव्रियते परितः समन्तात् लोकः अनेन इति पर्यावरणम्। यथा अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति तथैव मानवः पर्यावरणकुक्षौ। परिष्कृतं प्रदूषणरहितं च पर्यावरणम् अस्मभ्यं सांसारिकं जीवनसुखं, सद्विचारं, सत्यसङ्कल्पं माङ्गलिकसामग्रीञ्च प्रददाति । प्रकृतिकोपैः आतङ्कितो जनः किं कर्तुं प्रभवति ? जलप्लावनैः, अग्निभयैः, भूकम्पैः, वात्याचक्रैः, उल्कापातादिभिश्च सन्तप्तस्य मानवस्य क्व मङ्गलम् ?
अत एव अस्माभिः प्रकृतिः रक्षणीया। तेन च पर्यावरणं रक्षितं भविष्यति। प्राचीनकाले लोकमङ्गलाशंसिन ऋषयो वने निवसन्ति स्म। यतो हि वने सुरक्षितं पर्यावरणमुपलभ्यते स्म। तत्र विविधा विहगाः कलकूजिश्रोत्ररसायनं ददति।
सरितो गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति । वृक्षा लताश्च फलानि पुष्पाणि इन्धनकाष्ठानि च बाहुल्येन समुपहरन्ति शीतलमन्दसुगन्धवनपवना औषधकल्पं प्राणवायुं वितरन्ति ।
परन्तु स्वार्थान्धो मानवः तदेव पर्यावरणम् अद्य नाशयति। स्वल्पलाभाय जना बहुमूल्यानि वस्तूनि नाशयन्ति। जनाः यन्त्रागाराणां विषाक्तं जलं नद्यां निपातयन्ति। तेन मत्स्यादीनां जलचराणां च क्षणेनैव नाशो भवति। नदीजलमपि तत्सर्वथाऽपेयं जायते। मानवाः व्यापारवर्धनाय वनवृक्षान् निर्विवेकं छिन्दन्ति । तस्मात् अवृष्टिः प्रवर्धते, वनपशवश्च शरणरहिता ग्रामेषु उपद्रवं विदधति । शुद्धवायुरपि वृक्षकर्तनात् सङ्कटापन्नो जायते। एवं हि स्वार्थान्धमानवैः विकृतिम् उपगता प्रकृतिः एव सर्वेषां विनाशकर्जी भवति । विकृतिमुपगते पर्यावरणे विविधाः रोगाः भीषणसमस्याश्च सम्भवन्ति । तत्सर्वमिदानीं चिन्तनीयं प्रतिभाति ।
धर्मो रक्षति रक्षितः इत्यार्षवचनम् । पर्यावरणरक्षणमपि धर्मस्यैवाङ्गमिति ऋषयः प्रतिपादितवन्तः । अत एव वापीकूपतडागादिनिर्माणं देवायतन-विश्रामगृहादिस्थापनञ्च धर्मसिद्धेः स्त्रोतरूपेण अङ्गीकृतम् । कुक्कुर-सूकर-सर्प-नकुलादि-स्थलचराः, मत्स्य-कच्छप-मकरप्रभृतयः जलचराश्च रक्षणीयाः । प्रकृतिरक्षया एव लोकरक्षा सम्भवति इत्यत्र नास्ति संशयः ।
MCQ প্রশ্নোত্তর
CTET पेपर II संस्कृत July 2024 MCQ প্রশ্ন ও উত্তর গুলি নিচে দেওয়া হল। প্রশ্নের উত্তরগুলি সরাসরি না দিয়ে শিক্ষার্থীদের সুবিধার্থে উত্তরটি লুক্কায়িত আছে। পরীক্ষার্থীদের চেষ্টা করার সুযোগ আছে। উত্তরে Click👈 করলেই উত্তরটি দেখা যাবে।
1. प्राचीनकाले ऋषयो वने निवसन्ति स्म, यतो हि तत्र———–आसीत् / आसन् ।—
(A) हरिताः वृक्षाः
(B) पुष्पिताः पादपाः
(C) सुरक्षितं वातावरणम्
(D) विविधाः जन्तवः
উত্তর👈
(C) सुरक्षितं वातावरणम्
2. केन मानवस्य अमङ्गलं न भवति ?
(A) पर्यावरणसंरक्षणेन
(B) भूकम्पैः
(C) वात्याचक्रैः
(D) उल्कापातैः
উত্তর👈
(A) पर्यावरणसंरक्षणेन
3. अधोलिखितेषु किम् आर्षवचनम् अस्ति ?
(A) धर्मो रक्षति रक्षितः
(B) पठनाय विद्यालयं गच्छ
(C) स्वच्छता परमो धर्मः
(D) शुद्धभोजनं कुरु
উত্তর👈
(A) धर्मो रक्षति रक्षितः
4. अजातश्शिशुः कुत्र सुरक्षितः तिष्ठति ?
(A) भूतले
(B) गृहे
(C) प्रसूतिगृहे
(D) मातृगर्भे
উত্তর👈
(D) मातृगर्भे
5. अधोलिखितेषु किं प्रकृतेः तत्वं न भवति?
(A) आकाशः
(B) जलम्
(C) वायुयानम्
(D) तेजः
উত্তর👈
(C) वायुयानम्
6. शुद्धपर्यावरणम् अस्मभ्यं किं न प्रददाति ?
(A) जीवनसुखम्
(B) सद्विचारम्
(C) प्राकृतिक विपत्तिम्
(D) सत्यसङ्कल्पम्
উত্তর👈
(C) प्राकृतिक विपत्तिम्
7. ‘धर्मस्यैव’ इत्यस्मिन् पदे सन्धिनिर्देशं कुरुत-
(A) गुणसन्धिः
(B) वृद्धिसन्धिः
(C) हल्सन्धिः
(D) दीर्घसन्धिः
উত্তর👈
(B) वृद्धिसन्धिः
8. मत्स्यादीनां नाशो केन भवति ?
(A) अम्लेन
(B) दुग्धेन
(C) विषाक्तजलेन
(D) वर्षाजलेन
উত্তর👈
(C) विषाक्तजलेन
9. ‘विकृतिः’ इत्यस्मिन् पदे कः प्रत्ययः प्रयुक्तः ?
(A) क्त
(B) शतृ
(C) क्तिन्
(D) क्तवतु
উত্তর👈
(C) क्तिन्
अधोलिखितान् पद्यान् पठित्वा प्रश्नानां (100-105) विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत ।
गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् ।
प्राप्तविद्या गुरुं शिष्या दग्धाऽरण्यं मृगास्तथा ।। 1 ।।
आचारः कुलमाख्याति देशम् आख्याति भाषणम् ।
सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ।।2।।
रूपयौवनसम्पन्नाः विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ।13।।
उद्योगे नास्ति दारिद्र्यम् जपतो नास्ति पातकम् ।
मौने च कलहो नास्ति नास्ति जागरिते भयम् ।। 4 ।।
एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना ।
आह्लादितं कुलं सर्वं यथा चन्द्रेण शर्वरी ।। 511
10. अधोलिखितेषु क्रियापदं चिनुत ।
(A) दारिद्रयम्
(B) साधुना
(C) शोभन्ते
(D) शर्वरी
উত্তর👈
(C) शोभन्ते
11. दक्षिणां गृहीत्वा यजमानकं के त्यजन्ति ?
(A) मित्राणि
(B) विप्राः
(C) छात्रा:
(D) सम्बन्धिनः
উত্তর👈
(B) विप्राः
12. सुपुत्रस्य तुलना केन सह कृता ?
(A) वृक्षेण
(B) चन्द्रेण
(C) गजेन
(D) पुष्पेण
উত্তর👈
(D) पुष्पेण
13. आहलादितं इत्यस्मिन् पदे कः प्रत्ययः अस्ति ?
(A) क्त
(B) शतृ
(C) शाणच्
(D) मतुप्
উত্তর👈
(A) क्त
14. ‘विद्याहीनाः’ इत्यस्मिन् पदे कः समासः वर्तते ?
(A) द्वन्द्वसमासः
(B) तत्पुरुषसमासः
(C) अव्ययीभावसमासः
(D) कर्मधारयसमासः
উত্তর👈
(B) तत्पुरुषसमासः
15. भोजनं किं आख्याति ?
(A) देश:
(B) आचारः
(C) सम्भ्रमः
(D) वपुः
উত্তর👈
(D) वपुः
PART- V, LANGUAGE–II, SANSKRIT
अभ्यर्थिनः पञ्चमभागस्य (Part-V) प्रश्नानाम् (प्र.सं. 121-150) उत्तरं दद्युः, यदि तैः संस्कृतं द्वितीयभाषा (Language-II) रूपेण चितम्।
निर्देशः – अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (121-128) विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत ।
प्राचीनकाले वाल्मीकिः नाम एकः ऋषिः आसीत् । एकदा स्वशिष्यैः सह सः तमसानद्याः तटे विहरति स्म। तदैव सः व्याधेन विद्धम् एकं क्रौञ्चमपश्यत् । तस्य वियोगेन क्रौञ्ची उच्चैः अरुदत् । तस्याः रोदनं श्रुत्वा ऋषिः द्रवीभूतः अभवत् । तस्य मुखात् अयं श्लोकः सहसा एव निर्गतः
“मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ।।”
अयं श्लोकः लौकिकसंस्कृतसाहित्यस्य प्रथमा रचना अस्ति। ऋषेः वाणीं श्रुत्वा ब्रह्मा स्वयमेव तत्र उपस्थितः अभवत् ऋषिं च रामचरितं लेखितुं प्रेरितवान् । ब्रह्मणः आदेशानुसारं महर्षिणा वाल्मीकिना श्लोकबद्धा रामायणी कथा लिखिता । संस्कृतसाहित्ये रामायणं नाम महाकाव्यम् आदिकाव्यं मन्यते ऋषिश्च आदिकविः । रामायणम् एकमुपजीव्यं काव्यमस्ति । अस्य कथाः गृहीत्वा अनेकानि काव्यानि महाकाव्यानि नाटकानि च रचितानि ।
अस्मिन् काव्ये सर्वत्र स्वाभाविकता वर्तते । प्रकृतिवर्णने तु महर्षिः वाल्मीकिः अप्रतिम एव । अस्य पात्रसृष्टिः सजीवा व्यक्तित्वयुक्ता च विद्यते । सीतायाः चरितं भारतीयनारीचरितादर्शस्य प्रतीकमस्ति । मातृप्रेम्णः यादृशी भावना अत्र दरीदृश्यते न सा प्राप्यते अन्यत्र कुत्रापि । आदर्शः आज्ञापालकः धर्मरक्षकः रामसदृशः सुतः, भरतलक्ष्मणशत्रुघ्नसदृशाः भ्रातरः, दशरथतुल्यः पिता, कौशल्यासुमित्रातुल्ये जनन्यौ, सीतासदृशीसाध्वी पत्नी, हनुमत्सदृशः सेवकः, सुग्रीवतुल्यः सुहृत्, विभीषणसदृशः भक्तः च अन्यत्र कुत्रापि विश्वसाहित्ये नैव दृश्यन्ते। सीता मातृरूपेण सम्मान्यते श्रीरामश्च भगवद्रूपेण । मानवजीवनस्य अमूल्यानि तत्त्वानि अत्र वर्णितानि सन्ति ।
1. सर्वेभ्यः इत्यस्मिन् पदे का विभक्तिः किं च वचनम् अस्ति ?
(A) सप्तमी विभक्तिः, द्विवचनम्
(B) तृतीया विभक्तिः, बहुवचनम्
(C) चतुर्थी विभक्तिः, बहुवचनम्
(D) षष्ठी विभक्तिः, एकवचनम्
উত্তর👈
(C) चतुर्थी विभक्तिः, बहुवचनम्
2. कस्मिन् ग्रन्थे जीवनमूल्यानि वर्णितानि सन्ति ?
(A) गीतायाम्
(B) महाभारते
(C) रघुवंशे
(D) रामायणे
উত্তর👈
(D) रामायणे
3. रामायणस्य पात्रसृष्टिः कीदृशी वर्तते ?
(A) सजीवा
(B) प्रथमा
(C) अतुल्या
(D) कृत्रिमतायुक्ता
উত্তর👈
(A) सजीवा
4. अधोलिखितेषु किं क्त्वाप्रत्ययान्तं पदं न वर्तते ?
(A) लिखित्वा
(B) युक्ता
(C) श्रुत्वा
(D) गृहीत्वा
উত্তর👈
(B) युक्ता
5. रामायणस्य कथाः गृहीत्वा कानि न लिखितानि ?
(A) काव्यानि
(B) गणितस्य सूत्राणि
(C) महाकाव्यानि
(D) नाटकानि
উত্তর👈
(B) गणितस्य सूत्राणि
6. रामायणम् एकं ——— काव्यम् अस्ति । अत्र रिक्तस्थानं पूरयत ।
(A) अपठितम्
(B) सरसम्
(C) प्रसिद्धम्
(D) उपजीव्यम्
উত্তর👈
(D) उपजीव्यम्
7. क्रौञ्ची कस्य वियोगेन उच्चैः अरुदत् ?
(A) मातुः
(B) गृहस्य
(C) क्रौञ्चस्य
(D) शुकस्य
উত্তর👈
(C) क्रौञ्चस्य
8. संस्कृतसाहित्ये आदिकविः कः मन्यते ?
(A) वाल्मीकिः
(B) भवभूतिः
(C) भासः
(D) व्यासः
উত্তর👈
(A) वाल्मीकिः
निर्देश :- अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (129-135) विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत ।
संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा अस्ति । विश्वस्य प्राचीनतमः ग्रन्थः ‘ऋग्वेदः’ अस्यामेव भाषायाम् लिखितः अस्ति । इयम् भाषा सुरवाणी, देववाणी, गीर्वाणवाणी, सुरभारती, देवभाषा प्रभृतिभिः नामभिः लोके विख्याता अस्ति । इयम् रम्या, मधुरा, दिव्या, सरला, सरसा च भाषा अस्ति। इयम् भाषा अलौकिकैः गुणैः समृद्धा वर्तते। इयमेव भाषा सर्वासाम् भारतीयभाषाणाम् जननी । सर्वासु एव भाषासु संस्कृतशब्दाः प्राचुर्येण उपलभ्यन्ते ।
वेदाः, उपनिषदः, पुराणानि, रामायणम्, महाभारतम्-इत्यादयः हिन्दूनाम् अनेके धार्मिकाः ग्रन्थाः संस्कृते एव लिखिताः सन्ति। विश्वविख्याता गीता महाभारतस्यैव अंशः अस्ति । महाकवेः कालिदासस्य रघुवंशम् अभिज्ञानशाकुन्तलम् च, भवभूतेः उत्तररामचरितादयः ग्रन्थाः संस्कृतसाहित्ये विशेषरूपेण प्रसिद्धाः सन्ति। एतान् पठित्वा न केवलं भारतीयाः अपितु वैदेशिकाः अपि चकितचकिताः भवन्ति ।
अस्याः अध्ययनेनैव अस्माकम् सर्वेषाम् नैतिकम्, आध्यात्मिकम्, सामाजिकम् च कल्याणम् संभवम् किन्तु दुःखस्य विषयोऽयं यत् अधुना जनाः संस्कृतभाषाम् संस्कृतसाहित्यम् च पठितुम् नैव इच्छन्ति। आधुनिके कलियुगे आंग्लभाषायाः एव महत्वम् वर्तते ।
स्वसंस्कृतिम् ज्ञातुमपि संस्कृतस्य अध्ययनम् अनिवार्यं वर्तते । अतः संस्कृतभाषायाः माहात्म्यं गौरवं च विज्ञाय अस्माभिः सर्वैः अस्याः प्रचारे प्रसारे च प्रयत्नः करणीयः ।
9. संस्कृतभाषा कीदृशी न वर्तते ?
(A) रम्या
(B) परुषा
(C) सरला
(D) दिव्या
উত্তর👈
(B) परुषा
10. संस्कृतभाषा कैः समृद्धा वर्तते ?
(A) चमत्कारेण
(B) सुन्दरतया
(C) अलौकिकैः गुणैः
(D) नैतिकतया
উত্তর👈
(C) अलौकिकैः गुणैः
11. अधोलिखितेषु किं तृतीया विभक्तेः पदं न अस्ति ?
(A) अस्माभिः
(B) नामभिः
(C) गौरवम्
(D) प्राचुर्येण
উত্তর👈
(C) गौरवम्
12. आधुनिके कलियुगे कस्याः भाषायाः महत्वं वर्तते ?
(A) फारसी भाषा
(B) पञ्जाबीभाषा
(C) फ्रैन्चभाषा
(D) आङ्ग्लभाषा
উত্তর👈
(D) आङ्ग्लभाषा
13. कान् पठित्वा भारतीयाः वैदेशिकाः च चकिताः भवन्ति ?
(A) संगीतग्रन्थान्
(B) गणितविषयस्य पुस्तकानि
(C) संस्कृतसाहित्यस्य ग्रन्थान्
(D) तमिलभाषायां लिखितान् ग्रन्थान्
উত্তর👈
(C) संस्कृतसाहित्यस्य ग्रन्थान्
14. अध्ययनेनैव इत्यस्य पदस्य सम्यक् सन्धिविच्छेदं कुरुत ।
(A) अध्ययनेन + एव
(B) अध्ययने + नैव
(C) अध्यय + नेनैव
(D) अधि + अध्ययनेनैव
উত্তর👈
(A) अध्ययनेन + एव
15. भवभूतेः कः ग्रन्थः प्रसिद्धः अस्ति ?
(A) स्वप्नवासवदत्तम्
(B) ऋग्वेदः
(C) उत्तररामचरितम्
(D) जानकीहरणम्
উত্তর👈
(C) उत्तररामचरितम्
অনুরূপ পাঠ
CTET पेपर II संस्कृत July 2024 MCQ প্রশ্ন ও উত্তর এর মতো ctet এর অনুরূপ পাঠগুলি জানতে নিম্নের Link এ Click করে জেনে নাও—
- CTET पेपर II संस्कृत December 2018 👈
- CTET पेपर II संस्कृत July 2019 👈
- CTET पेपर II संस्कृत December 2019 👈
- CTET पेपर II संस्कृत January 2021 👈
- CTET पेपर II संस्कृत July 2021👈
- CTET पेपर II संस्कृत August 2023 👈
- CTET पेपर II संस्कृत July January 2024👈
- CTET पेपर II संस्कृत December 2024 👈
- CTET पेपर II संस्कृत February 2026 👈
