CTET पेपर II संस्कृत December 2018

CTET पेपर II संस्कृत December 2018 এর প্রশ্নগুলির উত্তর করে দেওয়া আছে। Central Teacher Eligibility Test এর প্রশ্নগুলি কেমন ধরণের হতে পারে, সে ধারণা পেতে সালের প্রশ্নগুলির অনুশীলন করা জরুরী।

CTET এ যে দুটি Language রাখতে হয়, তার মধ্যে একটি সংস্কৃত রাখতে পারেন। এ বিষয়ে খুব সহজেই score করতে পারবেন। সংস্কৃতকে যদি Language I নির্বাচন করেন, তাহলে 91 থেকে 120 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। আর আপনি যদি Language II নির্বাচন করেন তবে 121 থেকে 150 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে।

LANGUAGEI, SANSKRIT

अभ्यर्थिनः चतुर्थभागस्य (Part-IV) प्रश्नानाम् (प्र.सं. 91-120) उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा (Language-I) रूपेण चितम् ।


निर्देश : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (प्र० सं० 106-114) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।

अस्ति हिमवान् नाम सर्वरत्नभूमिर्नगेन्द्रः। तस्य सानोरुपरि विभाति काञ्चनपुरं नाम नगरम् । तत्र जीमूतकेतुरिति श्रीमान् विद्याधरपतिः वसति स्म। तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः। स राजा जीमूतकेतुः तं कल्पतरुम् आराध्य तत्प्रसादात् च बोधिसत्त्वांशसम्भवं जीमूतवाहनं नाम पुत्रं प्राप्नोत् । स महान् दानवीरः सर्वभूतानुकम्पी च अभवत्। तस्य गुणैः प्रसन्नः स्वसचिवैश्च प्रेरितः राजा कालेन सम्प्राप्तयौवनं तं यौवराज्येऽभिषिक्तवान्। यौवराज्ये स्थितः सः जीमूतवाहनः कदाचित् हितैषिभिः पितृमन्त्रिभिः उक्तः “युवराज ! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स एव सदा पूज्यः। अस्मिन् अनुकूले स्थिते शक्रोऽपि नास्मान् बाधितुं शक्नुयात्” इति ।

आकर्यैतत् जीमूतवाहनः अन्तरचिन्तयत् “अहो बत ! ईदृशममरपादपं प्राप्यापि पूर्वैः पुरुषैरस्माकं तादृशं फलं किमपि नासादितं किन्तु केवलं कैश्चिदेव कृपणैः कश्चिद‌पि अर्थोऽर्थितः। तदहमस्मात् मनोरथमभीष्टं साधयामि” इति।

एवमालोच्य स पितुरन्तिकमागच्छत्। आगत्य च सुखमासीनं पितरमेकान्ते न्यवेदयत् “तात ! त्वं तु जानासि एव यदस्मिन् संसारसागरे आशरीरमिदं सर्वं धनं वीचिवच्चञ्चलम् । एकः परोपकार एवाऽस्मिन् संसारेऽनश्वरः यो युगान्तपर्यन्तं यशः प्रसूते। तदस्माभिरीदृशः कल्पतरुः किमर्थं रक्ष्यते? यैश्च पूर्वैरयं ‘मम मम’ इति आग्रहेण रक्षितः, ते इदानीं कुत्र गताः? तेषां कस्यायम् ? अस्य वा के ते? तस्मात् परोपकारैकफलसिद्धये त्वदाज्ञया इमं कल्पपादपम् आराधयामि।

MCQ প্রশ্নোত্তর

CTET पेपर II संस्कृत December 2018 MCQ প্রশ্ন ও উত্তর গুলি নিচে দেওয়া হল। প্রশ্নের উত্তরগুলি সরাসরি না দিয়ে শিক্ষার্থীদের সুবিধার্থে উত্তরটি লুক্কায়িত আছে। পরীক্ষার্থীদের চেষ্টা করার সুযোগ আছে। উত্তরে Click👈 করলেই উত্তরটি দেখা যাবে।

106. जीमूतकेतुः कम् आराध्य पुत्रं प्राप्नोत् ?
(A) हिमवन्तम्
(B) काञ्चनपुरम्
(C) कल्पतरुम्
(D) बोधिसत्त्वम्

107. ‘संसारेऽनश्वरः’ इत्यत्र सन्धिः कः?
(A) प्रकृतिभावः
(B) पूर्वरूपः
(C) वृद्धिः
(D) गुणः

108. ‘नासादितम्’ इत्यस्य पदस्य पर्यायः कः?
(A) न प्राप्तम्
(B) न सन्निविष्टम्
(C) न उपविष्टम्
(D) असाधितं न

109. ‘सर्वकामदः’ इति समस्तपदस्य विग्रहो भवति –
(A) सर्वं कामं दुनोति
(B) सर्वं कामं ददाति
(C) सर्वं कामं दर्शयति
(D) सर्वं कामं दधाति

110. बोधिसत्त्वांशसम्भवः कः?
(A) जीमूतकेतुः
(B) कल्पतरुः
(C) जीमूतवाहनः
(D) हिमवान्

111. ‘शक्र’ शब्दस्य पर्यायः भवति
(A) इन्द्रः
(B) चन्द्रः
(C) शुक्रः
(D) प्रजापतिः

112. ‘प्रसन्नः’ इति पदस्य विलोमपदं भवति –
(A) निमग्नः
(B) विषण्णः
(C) स्तब्धः
(D) चकितः

113. गद्यांशेऽस्मिन् ‘नित्यम्’ इति पदस्य पर्यायः प्रयुक्तः
(A) अनश्वरः
(B) सर्वकामदः
(C) हिमवान्
(D) स्थितः

114. सर्वकामदः कल्पतरुः कुत्र तिष्ठति ?
(A) नगरे
(B) नगेन्द्रे
(C) पुरे
(D) उद्याने

अधोलिखितान् श्लोकान् पठित्वा तदाधारितप्रश्नानां (100 – 105) विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत ।

केवलं जलपानेन समये स्याद्यथासु

অনুরূপ পাঠ

CTET पेपर II संस्कृत December 2018 MCQ প্রশ্ন ও উত্তর এর মতো ctet এর অনুরূপ পাঠগুলি জানতে নিম্নের Link এ Click করে জেনে নাও

Leave a Comment