TET पेपर-II संस्कृत January 2024 এর প্রশ্নগুলির উত্তর করে দেওয়া আছে। Central Teacher Eligibility Test এর প্রশ্নগুলি কেমন ধরণের হতে পারে, সে ধারণা পেতে সালের প্রশ্নগুলির অনুশীলন করা জরুরী।
CTET এ যে দুটি Language রাখতে হয়, তার মধ্যে একটি সংস্কৃত রাখতে পারেন। এ বিষয়ে খুব সহজেই score করতে পারবেন। সংস্কৃতকে যদি Language I নির্বাচন করেন, তাহলে 91 থেকে 120 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। আর আপনি যদি Language II নির্বাচন করেন তবে 121 থেকে 150 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। এখানে LANGUAGE–I এ গদ্য থেকে 9 এবং পদ্য থেকে 6 মোট 15 নম্বর এবং LANGUAGE–II এ দুটি গদ্যাংশ থেকে 8+7 মোট 15 নম্বর। অর্থাৎ LANGUAGE–I এবং LANGUAGE–II মিলিয়ে সর্বমোট 30 নম্বরের প্রশ্নোত্তর আলোচিত হয়েছে।
PART- IV, LANGUAGE–I, SANSKRIT
अभ्यर्थिनः चतुर्थभागस्य (Part-IV) प्रश्नानाम् (प्र.सं. 91-120) उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा (Language-I) रूपेण चितम् ।
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (91-99) विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत ।
उच्यते खलु ‘शरीरमाद्यं खलु धर्मसाधनम्’। सत्यमिदम् । विना शरीर स्वास्थ्यं किमपि शुभं कर्म न भवितुमर्हति। शरीरेणैव सर्वाणि शुभानि कार्याणि साधयितुं शक्यन्ते। शरीरस्य स्वास्थ्यायाधोलिखिताः नियमाः अवश्यं पालनीयाः
सर्वतः प्रथमं स्वस्थेन मनुष्येण ब्राह्मे मुहूर्ते उत्थातव्यम्। नियमितरूपेण दन्तधावनेन कूर्चिकया वा दन्तशुद्धिः कर्त्तव्या। प्रत्येकं दन्तं क्रमशः निर्मलं कृत्वा जलेन मुखं धावनीयम्। एवं मुखस्य सर्वं मलमपनीयते मुखरोगाश्च न भवन्ति।
शीतलेन जलेन वदनप्रक्षालनं नेत्रयोश्च शुद्धिः हितकरी भवति। ततः सर्वस्मिन् शरीरे तैलमर्दनं विधेयम्। तैलमर्दनेन अङ्गानि बलिष्ठानि जायन्ते सौन्दर्यं च वर्धते। पुनः व्यायामः कर्त्तव्यः। व्यायामेन सम्यक् रक्तसञ्चारः, पेशीनां पुष्टिः, क्षुधावृद्धिः, शरीरे च स्फूर्तिः जायते ।
व्यायामानन्तरं किञ्चित्कालं स्थित्वा स्नानमपि विधेयम्। स्नानं प्रायः शीतलेन वारिणा कर्त्तव्यम्ः परन्तु शिथिले शरीरे कदुष्णेन वारिणा स्नानं हितकरं भवति। स्नानं कृत्वा स्वच्छान्येव वस्त्राणि धारणीयानि, न तु मलिनानि। मलिनवस्त्राणां धारणमेतादृशमेव भवति यथा स्नात्वा पङ्कलेपः कृतः स्यात् ।
स्वास्थ्यरक्षार्थं स्वाहारेऽपि ध्यानं देयम्। यः यथासमयं भक्षयति, परिमितं च, सः कदापि जठररोगेण पीडितो न भवति । भोजनं सात्त्विकं, शुद्ध, पुष्टिकरं च स्यात् तच्च शान्तमनसा भोक्तव्यम् ।
यथा स्वच्छता, व्यायामः, भोजनं च स्वास्थाय उपयुक्तानि, तथैव विश्रामस्यापि महत्त्वमस्ति। ऋते विश्रामात् कश्चिदपि स्वस्थः स्थातुं न शक्नोति । विश्रामेण श्रमोऽपनीयते, तस्मात् विश्रामः स्वास्थ्याय परमावश्यकः। ये परीक्षा दिनेषु निरन्तरं पठन्ति, न च विश्राम्यन्ति, ते विक्षिप्ताः जायन्ते, सर्वं पठितं च विस्मरन्ति। एवं च रुग्णीभूय परीक्षायामप्यनुत्तीर्णाः जायन्ते। तस्माद्विश्रामस्यापि महत्यावश्यकता वर्त्तते।
आलस्यं विश्रामस्य पर्यायो नास्ति। आलस्यं तु कर्मण्यनिच्छा भवति, विश्रामश्च कर्मणः करणाय नवशक्त्याः अर्जन साधनम् भवति । तस्मान्मनुष्येणालसेन न भाव्यम्, परमावश्यको विश्रामः कर्त्तव्यः ।
MCQ প্রশ্নোত্তর
CTET पेपर II संस्कृत January 2024 MCQ প্রশ্ন ও উত্তর গুলি নিচে দেওয়া হল। প্রশ্নের উত্তরগুলি সরাসরি না দিয়ে শিক্ষার্থীদের সুবিধার্থে উত্তরটি লুক্কায়িত আছে। পরীক্ষার্থীদের চেষ্টা করার সুযোগ আছে। উত্তরে Click👈 করলেই উত্তরটি দেখা যাবে।
1. स्वस्थेन मनुष्येण कदा उत्थातव्यम् ?
(A) मध्यरात्र्याम्
(B) सायंकाले
(C) अपरान्हकाले
(D) ब्राझे मुहूर्ते
উত্তর👈
(D) ब्राझे मुहूर्ते
2. तैलमर्दनानन्तरं किं कर्तव्यम् ?
(A) स्नानम्
(B) व्यायामः
(C) भोजनम्
(D) नृत्यम्
উত্তর👈
(B) व्यायामः
3. ‘श्रमोऽपनीयते’ इत्यस्मिन् पदे कः सन्धिः वर्तते ?
(A) स्वरसन्धिः
(B) विसर्गसन्धिः
(C) हल्सन्धिः
(D) यण्सन्धिः
উত্তর👈
(B) विसर्गसन्धिः
4. कर्मण्यनिच्छा-इत्यस्मिन् पदे सम्यक् सन्धिविच्छेदः चिनुत।
(A) कर्मण्य+निच्छा
(B) कर्मण्+यनिच्छा
(C) कर्मणि+अनिच्छा
(D) कर्मण्यनिच्छा
উত্তর👈
(C) कर्मणि+अनिच्छा
5. अधोलिखितेषु किं तुमुन् प्रत्ययान्तं पदं नास्ति ?
(A) भवितुम्
(B) स्थातुम्
(C) विक्षिप्ताः
(D) साधयितुम्
উত্তর👈
(C) विक्षिप्ताः
6. व्यायामेन अस्माकं शरीरे किं न भवति ?
(A) क्षुधावृद्धिः
(B) स्फूर्तिः
(C) आलस्यम्
(D) रक्तसञ्चारः
উত্তর👈
(C) आलस्यम्
7. भोजनं कीदृशं न भवितव्यम् ?
(A) सात्विकम्
(B) गरिष्ठम्
(C) शुद्धम्
(D) पुष्टिकरम्
উত্তর👈
(B) गरिष्ठम्
8. स्नानं प्रायः केन कर्तव्यम् ?
(A) मधुना
(B) दुग्धेन
(C) तैलेन
(D) शीतलेन वारिणा
উত্তর👈
(D) शीतलेन वारिणा
9. कः कदापि जठररोगेण पीडितो न भवति ?
(A) यः सर्वदा मिष्ठान्नं खादति
(B) यः नियमितरूपेण उद्याने भ्रमति
(C) यः यथासमयं परिमितं च भक्षयति
(D) यः मित्रैः सह वार्तालापं करोति
উত্তর👈
(C) यः यथासमयं परिमितं च भक्षयति
अधोलिखितान् पद्यान् पठित्वा प्रश्नानां (100-105) विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत ।
जाड्यं धियो हरति सिञ्चति वाचि सत्यम्,
मानोन्नतिं दिशति पापमपाकरोति।
चेतः प्रसादयति दिक्षु तनोति कीर्तिम्,
सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥1 ॥
सर्पाः पिबन्ति पवनं न च दुर्बलास्ते,
शुष्कैः तृणैः वनगजाः बलिनः भवन्ति ।
कन्दैः फलैः मुनिवराः क्षपयन्ति कालम्,
सन्तोष एव पुरुषस्य परं निधानम् ॥ 2 ॥
परिवर्तिनि संसारे मृतः को वा न जायते।
स जातो येन जातेन याति वंशः समुन्नतिम् ॥ 3 ॥
मृग-मीन-सज्जनानां तृण-जल-सन्तोष विहत वृत्तीनाम् ।
लुब्धक-धीवर-पिशुना निष्कारणवैरिणो जगति ॥ 4 ॥
वैरिणा नहि संदध्यात् सुश्लिष्टेनापि सन्धिना ।
सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ 5 ॥
10. अस्मिन् संसारे को जनः जातः मन्यते ?
(A) यः सम्यरूपेण विद्यां प्राप्नोति
(B) यः स्ववंशं समुन्नतिं नयति
(C) यः सर्वासु कलासु निपुणो भवति
(D) यः काव्यरचनायां सफलो भवति
উত্তর👈
(B) यः स्ववंशं समुन्नतिं नयति
11. सत्सङ्गतिः पुंसां किं कार्यं न करोति ?
(A) वाचि सत्यं सिञ्चति
(B) मानोन्नतिं दिशति
(C) दुष्कर्मणि नियोजयति
(D) धियो जाड्यं हरति
উত্তর👈
(C) दुष्कर्मणि नियोजयति
12. वनगजाः केन बलिनः भवन्ति ?
(A) कन्दमूलैः
(B) शुष्कैः तृणैः
(C) पुष्पैः
(D) पवनेन
উত্তর👈
(B) शुष्कैः तृणैः
13. जगति मीनस्य निष्कारणवैरी को भवति ?
(A) मनुष्यः
(B) मगरः
(C) धीवरः
(D) सर्पः
উত্তর👈
(C) धीवरः
14. शीतलम्-इत्यस्य पदस्य विपरीतार्थकं पदं पद्येषु किम् ?
(A) जातम्
(B) कीर्तिम्
(C) उन्नतिम्
(D) सुतप्तम्
উত্তর👈
(D) सुतप्तम्
15. पुरुषस्य परं निधानं किं भवति ?
(A) व्यसनम्
(B) भौतिकसाधनानि
(C) सन्तोषः
(D) धनम्
উত্তর👈
(C) सन्तोषः
PART- V, LANGUAGE–II, SANSKRIT
अभ्यर्थिनः पञ्चमभागस्य (Part-V) प्रश्नानाम् (प्र.सं. 121-150) उत्तरं दद्युः, यदि तैः संस्कृतं द्वितीयभाषा (Language-II) रूपेण चितम्।
निर्देश :- अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (121-128) विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत।
सामाजिक-सञ्चार माध्यमम् आधुनिक युगस्य एतादृशं माध्यमम् अस्ति, येन वयम् अखिलविश्वे केनापि सह कुत्रापि सम्पर्क साधयितुं समर्थाः भवेम। अन्तर्जालस्य प्रयोगं विना एतन्त्र सम्भवति। अद्यत्वे अन्तर्जालस्य कृपया ‘गूगल फेसबुक-व्हाट्सएप’ इत्यादीनि अनेकानि उपकरणानि उपलब्धानि सन्ति। अधुना तु एतानि सर्वाणि उपकरणानि चल-दूरभाषन्त्रेऽपि विद्यमानानि सन्ति।
गूगलादि उपकरणानां प्रयोगेन वयं कस्मिन्नपि विषये सर्वं ज्ञातुं शक्नुमः। अस्मिन् शब्दकोशानां, नवीन शोध-कार्याणां सूचनानां च भण्डारः वर्तते। अन्तर्जालस्य सहायतया वयं स्थानात् स्थानं धनान्तरणं कुर्याम। समाचाराणां सन्देशानां च आदानं प्रदानं च कुर्मः। गृहादेव कार्यालयस्य कार्याणि सम्पादयामः। विपणिं गन्तुं विना वस्तूनि क्रीणामः विक्रीणामः च।
अद्यत्वे तु एतादृशी स्थितिरस्ति यत् अन्तर्जालस्य उपयोगं विना वयं किमपि कार्य कर्तुं सक्षमाः न स्मः। कालान्तरे निःसंशयः वयं सर्वे अस्मिन्नेव निर्भराः भविष्यामः। एतस्य ज्ञानं विना गतिर्न भविष्यति। परन्तु एतेषां उपकरणानां प्रयोगेण वयं निष्क्रियाः भवामः । अल्पमपि ज्ञानाय वयं कदापि स्वबुद्धेः प्रयोगः न कुर्मः, अपितु गूगलशरणं गच्छामः। परिवारजनैः सह अपि फेसबुक व्हाट्सएप च इत्याभ्यां माध्यमाभ्यां वार्तालापं कुर्मः। परस्पर सम्बन्धानाम् अद्य तु किमपि महत्त्वं नास्ति ।
एतेषां उपकरणानां सततप्रयोगेण नेत्रदोषाः जायन्ते, पृष्ठे पीडा भवति, स्मृतेः ह्रासः दृश्यते, कार्येषु एकाग्रता नश्यति, सम्प्रेषणक्षमतायाः विकासः अवरुध्यते आत्मसम्मानं च क्षरति।
यथा अन्येषां वस्तूनां प्रयोगेण लाभाः हानयश्च भवन्ति, तथैव सामाजिक सञ्चार माध्यमस्य प्रयोगेण अपि भवन्ति। अतएव
अस्माभिः अस्य सदुपयोगाः ग्रहणीयाः दुरुपयोगाः च हातव्याः ।
1. ‘सक्रियाः’ इत्यस्य पदस्य विपरीतार्थकं पदं गद्यांशे किं अस्ति ?
(A) ग्रहणीयाः
(B) सदुपयोगाः
(C) स्वबुद्धेः
(D) निष्क्रियाः
উত্তর👈
(D) निष्क्रियाः
2. ‘गूगल-फेसबुक’ इत्यादीनि उपकरणानि कस्मिन् उपलब्धानि भवन्ति ?
(A) उद्याने
(C) चिकित्सालये
(C) चल-दूरभाषयन्त्रे
(D) क्षेत्रे
উত্তর👈
(C) चल-दूरभाषयन्त्रे
3. ‘सम्प्रेषणक्षमतायाः’ इत्यस्मिन् पदे कः समासः वर्तते ?
(A) षष्ठीतत्पुरुष समासः
(B) कर्मधारयः समासः
(C) बहुव्रीहिः समासः
(D) द्विगुः समासः
উত্তর👈
(A) षष्ठीतत्पुरुष समासः
4. ‘हातव्याः’ इत्यस्मिन् पदे कः प्रत्ययः वर्तते ?
(A) क्तवतु
(B) तव्यत्
(C) क्त्वा
(D) शतू
উত্তর👈
(B) तव्यत्
5. ‘कालान्तरे वयं सर्वे अस्मिन्नेव ————–भविष्यामः’ अस्मिन् वाक्ये रिक्तस्थानं पूरयत।
(A) प्रसन्नाः
(B) क्षुब्धाः
(C) निर्भराः
(D) क्रोधिताः
উত্তর👈
(C) निर्भराः
6. अद्यतने अल्पमपि ज्ञानाय वयं कस्य प्रयोगः न कुर्मः ?
(A) स्वबुद्धेः
(B) पत्रस्य
(C) नृत्यस्य
(D) भोजनस्य
উত্তর👈
(A) स्वबुद्धेः
7. अन्तर्जालस्य उपकरणानां प्रयोगेन कः दोषः न जायते ?
(A) पृष्ठे पीडा
(B) नेत्रदोषः
(C) क्रिकेटक्रीडायां निपुणता
(D) स्मृतेः ह्रासः
উত্তর👈
(C) क्रिकेटक्रीडायां निपुणता
8. कुत्र गन्तुं विना वयं वस्तूनि क्रीणामः ?
(A) विद्यालयम्
(B) आपणम्
(C) विपणिम्
(D) अरण्यम्
উত্তর👈
(C) विपणिम्
निर्देश :- अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (129-135) विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत
उपवने विचरणं कुर्वन् राजकुमारः एकेन विषधरेण दष्टः अभूत्। अचेतनं तं तस्य सहचराः राज्ञे निवेदितवन्तः। सम्पूर्णे राजपरिवारे शोकः आच्छन्नः। एकमात्रं सः एव राज्ञः प्रियतमः उत्तराधिकारी आसीत्। राजवैद्याः तस्य चिकित्सां अकुर्वन्। किन्तु सफलता नैव मिलिता। राजज्योतिषिणा तस्य दीर्घायुष्यं जन्मपत्रतः दृष्ट्वा एकः उपायः कथितः यत् यदि काचित् सती साध्वी स्त्री राजकुमारं दष्ट-स्थाने स्पृशेत् तर्हि अयं स्वस्थः भवेत्। राज्ञः अनेकपत्न्यः आसन्। राजकुमारस्य जननी अपि तासु एका आसीत्। सा प्रथमं ततः च क्रमशः सर्वाः अपि राज्यः राजकुमारं स्पृष्टवत्यः। किन्तु राजकुमारस्य चेतना नैव आयाता। अनेन राज्ञीनाम् असतीत्वम् अपि प्रकटितम् अभूत्। पुरस्कार-लोभेन राज्यस्य अन्याभिः अपि महिलाभिः चेष्टा कृता। किन्तु ताः अपि विफलाः एव अतिष्ठन् । अन्ते तेन एव राजज्योतिषिणा राजा निवेदितः यत् अधुना एव राज्य-सीमायाम् एका युवतिः स्वस्य पत्या सह प्रविष्टा अस्ति। कदाचित् सा कार्य साधयेत्। राजा एकाकी एव ताम् आनेतुं निर्गतः। ताम् उपेत्य सः अनुनयं विनयं कृत्वा राजभवनम् आनीतवान्। तस्याः स्पर्शमात्रेण राजकुमारः तत्क्षणम् एव सुप्तोत्थितः इव जागरितः। सर्वेषां हर्षेण मुख-कमलानि विकसितानि अजायन्त। विरक्तः राजा स्वीयं राज्यार्धं ताभ्यां दम्पतिभ्याम्, अवशिष्टं च आत्मजाय समर्प्य तपः तप्तुं वनं प्रस्थितः इति ।
9. राजा आत्मजाय किं समर्ण्य वनं प्रस्थितः ?
(A) धनम्
(B) स्वभवनम्
(C) अवशिष्टं राज्यम्
(D) भैषजम्
উত্তর👈
(C) अवशिष्टं राज्यम्
10. अधोलिखितयोः तालिकयोः सम्यक् सम्मेलनं कुरुत-—
| ক – স্তম্ভ | খ – স্তম্ভ |
| अ) उपवनम् | अ) चिकित्सा |
| ब) राजवैद्याः | ब) तपः |
| स) राज्ञः | स) विचरणम् |
| द) वनम् | द) उत्तराधिकारी |
(A) (अ)-(अ), (ब) (ब), (स)- (स), (द)-(द)
(B) (अ)-(द), (ब)-(स), (स)-(अ), (द)-(ब)
(C) (अ)-(ब), (ब) (स), (स) (अ), (द)-(द)
(D) (अ)-(स), (ब)-(अ), (स) (द), (द)-(ब
উত্তর👈
(D) (अ)-(स), (ब)-(अ), (स) (द), (द)-(ब
11. अधोलिखितेषु पदेषु किं पदं अन्येभ्यः भिन्नं अस्ति ?
(A) कथितः
(B) प्रस्थितः
(C) विफलाः
(D) विरक्तः
উত্তর👈
(C) विफलाः
12. राजकुमारः केन कारणेन अचेतनः अभूत ?
(A) विषधरस्य विषेण
(B) पुष्पाणां परागेण
(C) फलानां भक्षणेन
(D) भूमौ पतनेन
উত্তর👈
(A) विषधरस्य विषेण
13. राजकुमारं प्रथमं का स्त्री स्पृष्टवति ?
(A) राज्ञः पत्न्यः
(B) तस्य जननी
(C) राज्यस्य अन्याः महिलकुरुत
(D) राज्यसीमास्थिता युवतिः
উত্তর👈
(B) तस्य जननी
14. ‘सुप्तोत्थितः’ इत्यस्मिन् पदे सन्धिनिर्देशं कुरुत।
(A) विसर्गसन्धिः
(B) गुणसन्धिः
(C) वृद्धिसन्धिः
(D) अयादिसन्धिः
উত্তর👈
(B) गुणसन्धिः
15. सीमायाम्-इत्यस्मिन् पदे का विभक्तिः किञ्च वचनम् अस्ति ?
(A) द्वितीया विभक्तिः, एकवचनम्
(B) चतुर्थी विभक्तिः, द्विवचनम्
(C) सप्तमी विभक्तिः, एकवचनम्
(D) षष्ठी विभक्तिः, बहुवचनम्
উত্তর👈
(C) सप्तमी विभक्तिः, एकवचनम्
অনুরূপ পাঠ
CTET पेपर II संस्कृत January 2024 MCQ প্রশ্ন ও উত্তর এর মতো ctet এর অনুরূপ পাঠগুলি জানতে নিম্নের Link এ Click করে জেনে নাও—
- CTET पेपर II संस्कृत December 2018 👈
- CTET पेपर II संस्कृत July 2019 👈
- CTET पेपर II संस्कृत December 2019 👈
- CTET पेपर II संस्कृत January 2021 👈
- CTET पेपर II संस्कृत July 2021👈
- CTET पेपर II संस्कृत August 2023 👈
- CTET पेपर II संस्कृत July 2024 👈
- CTET पेपर II संस्कृत December 2024 👈
- CTET पेपर II संस्कृत February 2026 👈
