CTET पेपर-II संस्कृत December 2024 এর প্রশ্নগুলির উত্তর করে দেওয়া আছে। Central Teacher Eligibility Test এর প্রশ্নগুলি কেমন ধরণের হতে পারে, সে ধারণা পেতে সালের প্রশ্নগুলির অনুশীলন করা জরুরী।
CTET এ যে দুটি Language রাখতে হয়, তার মধ্যে একটি সংস্কৃত রাখতে পারেন। এ বিষয়ে খুব সহজেই score করতে পারবেন। সংস্কৃতকে যদি Language I নির্বাচন করেন, তাহলে 91 থেকে 120 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। আর আপনি যদি Language II নির্বাচন করেন তবে 121 থেকে 150 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে।
LANGUAGE–I, SANSKRIT
अभ्यर्थिनः चतुर्थभागस्य (Part-IV) प्रश्नानाम् (प्र.सं. 91-120) उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा (Language-I) रूपेण चितम् ।
निर्देशः – निम्नलिखितानि पद्यानि पठित्वा षट्प्रश्नानां (91-96) उत्तराणि समुचितं विकल्पं चित्वा देयानि।
न चीरहार्यं न च राजहार्य न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ।। 1 ।।
विद्या ददाति विनयं विनयाद्याति पात्रताम्।
पात्रत्वाद्धनमाप्नोति धनाद्धर्म ततस्सुखम् ।। 2 ।।
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति।
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात् ।। ३ ।।
विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ।। 4 ।।
किं कुलेन विशालेन विद्याहीनस्य देहिनः।
अकुलीनोऽपि विद्यावान्देवैरपि स पूज्यते ।। 5।।
MCQ প্রশ্নোত্তর
CTET पेपर II संस्कृत December 2024 MCQ প্রশ্ন ও উত্তর গুলি নিচে দেওয়া হল। প্রশ্নের উত্তরগুলি সরাসরি না দিয়ে শিক্ষার্থীদের সুবিধার্থে উত্তরটি লুক্কায়িত আছে। পরীক্ষার্থীদের চেষ্টা করার সুযোগ আছে। উত্তরে Click👈 করলেই উত্তরটি দেখা যাবে।
91. “व्यये कृते वर्धत एव नित्यम्”— अस्य कथनस्य प्रसन्ने किम् उपयुक्तम् ?
(A) रजतम्
(B) विद्या
(C) समयः
(D) स्वर्णम्
উত্তর👈
(B) विद्या
92. सर्वत्र कः पूज्यते?
(A) बलवान्
(B) धनवान्
(C) अघवान्
(D) विद्वान्
উত্তর👈
(D) विद्वान्
93. “किं कुलेन विशालेन विद्याहीनस्य देहिनः”— अस्य सिद्धान्तस्य किं सारवाक्यम् ?
(A) विद्याविहीने विशालकुले कलहाः भवन्ति
(B) विद्याविहीनं विशालकुलं नाशं गच्छति
(C) विद्यारहिते विशालकुले दुव्र्व्यसनानि जायन्ते
(D) विद्याविहीनं विशालकुलं निरर्थकम्
উত্তর👈
(D) विद्याविहीनं विशालकुलं निरर्थकम्
94. ‘देहिनः’ पदस्य कोऽर्थः?
(A) परमात्मनः
(B) स्थूलकायस्य
(C) जीवात्मनः
(D) बलिष्ठदेहयुक्तस्य
উত্তর👈
(D) विद्वान्
95. स्वदेशे पूज्यते राजा” अत्र किं वाच्यम् अस्ति?
(A) कर्मवाच्यम्
(B) भावकर्मवाच्यम्
(C) भाववाच्यम्
(D) कर्तृवाच्यम्
উত্তর👈
(A) कर्मवाच्यम्
96. ‘आयाति’ इत्यस्मिन् पदे को धातुः कस्य गणस्य च वर्तते ?
(A) या धातु भ्वादिगणः
(B) या धातु अदादिगणस्य
(C) अय् धातु भ्वादिगणस्य
(D) इ धातु भ्वादिगणः
উত্তর👈
(B) या धातु अदादिगणस्य
निर्देशः – निम्नलिखितं गद्यांशं पठित्वा नवप्रश्नानाम् (112-120) उत्तराणि यथोचितं विकल्पं चित्वा देयानि।
अस्ति एकं निर्जनं वनम् । एकदा कश्चित् व्याधः वनम् आगच्छति। सः तण्डुलकणान् भूतले विकिरति। तत्र सः जालं प्रसारयति। स्वयं दुरं गत्वा प्रच्छनः तिष्ठति ।
चित्रग्रीवः नाम कपोतराजः कपोतैः सह आकाशे उत्पतति । कपोताः भूमौ तण्डुलकणान् पश्यन्ति। ते तण्डुलकणान् अभिलषन्ति । चित्रग्रीवः वदति- अत्र निर्जने बने कुतः तण्डुलकणाः? किंचित् अनिष्टं पश्यामि अहम् ।
एकः कपोतः बदति किम् अनिष्टम् अत्र? यदि सर्वत्र शङ्कां करिष्यामः तर्हि अस्माकं जीवनम् अपि कठिनं भविष्यति। अतः वयं भूमौ अवतरामः ।
सर्वे कपोताः तण्डुलार्थं गगनात् अवतरन्ति। ततः जाले बद्धाः ते दुःखिताः भवन्ति।
चित्रग्रीवः वदति-न भेतव्यम्। वयम् उपायं चिन्तयामः। वयं समकालम् एव जालेन सह उत्पतामः।
कपोताः जालेन सह गगनम् उत्पतन्ति। चकितः व्याधः दूरात् तद् दृश्यं पश्यति। दुःखिनः सः गृहं गच्छति।
चित्रग्रीवः पुनः वदति- चित्रवने हिरण्यकः नाम मूषिकराजः निवसति। वयं तस्य समीपं गच्छामः। सः अस्माकं पाशानां छेदनं करिष्यति।
सर्वे कपोताः हिरण्यकस्य चिलस्य समीपम् आगच्छन्ति। हिरण्यकः स्वमित्रं दृष्ट्वा प्रसन्नः भवति किन्तु तस्य बन्धनं दृष्ट्वा दुश्वी भवति। सः शीघ्र स्वमित्रस्य बन्धनस्य छेदनाय तत्परः भवति।
चित्रग्रीवः हिरण्यकं निवारयति वदति च भोः वयस्य, प्रथमं सर्वेषां पाशानां छेदनं कुरु, अनन्तरं मम।
112. भूतले तण्डुलकणान् कः विकिरति?
(A) व्याधः
(B) चित्रग्रीवः
(C) ग्रामीणः
(D) मुनिः
উত্তর👈
(A) व्याधः
113. कपोतैः सह आकाशे कः उत्पतति?
(A) सर्व पक्षिणः
(B) कपोतराजः चित्रग्रीवः
(C) वायसाः
(D) व्याधः
উত্তর👈
(B) कपोतराजः चित्रग्रीवः
114. चित्रग्रीवः किं दृष्ट्वा अनिष्टं अपश्यत्?
(A) उड्डीयमानान् विहगान्
(B) निर्जनबने तण्डुलकणान्
(C) 3) वायसानां क्रोशनम्
(D) व्याधम्
উত্তর👈
(B) निर्जनबने तण्डुलकणान्
115. “यदि सर्वत्र शङ्कां करिष्यामः तर्हि अस्माकं जीवनम् अपि कठिनं भविष्यति।” कथनमिदं कस्य विद्यते?
(A) कपोतराजस्य
(B) वायसस्य
(C) श्रृगालस्य
(D) कपोतानां मध्ये एकस्य कपोतस्य
উত্তর👈
(D) कपोतानां मध्ये एकस्य कपोतस्य
116. गद्यांशे प्रयुक्तस्य ‘अभिलषन्ति’ इत्यस्मिन् अर्धे निम्नलिखितेषु कः शब्दः प्रयोक्तुं शक्यते?
(A) इच्छन्ति
(B) शृङ्गारं कुर्वन्ति
(C) त्यजन्ति
(D) पश्यन्ति
উত্তর👈
(A) इच्छन्ति
117. ‘अनिष्ट’ शब्दस्य निम्नलिखितेषु कः पर्यायवाची?
(A) आशङ्का
(B) भयम्
(C) सङ्कटम्
(D) विषादः
উত্তর👈
(A) आशङ्का
118. ‘प्रच्छनः’ पदस्य निर्वचनं क्रियताम् –
(A) प्र + छत् + क्तः
(B) प्र + छद् + क्तः
(C) प्र + छिद् + क्त प्रत्यय
(D) प्र + छन् + नः
উত্তর👈
(B) प्र + छद् + क्तः
119. ‘अवतरन्ति’ इत्यस्मिन् पदे कः धातुः?
(A) तृृ
(B) तर्
(C) तिर्
(D) तृ
উত্তর👈
(A) तृृ
120. ‘छेदनम्’ इत्यस्य पदस्य निर्वाचनं दीयताम्
(A) छिद् + अन्
(B) छिद् + ल्युट्
(C) छद् + ल्युट्
(D) छेद् + ल्युट्
উত্তর👈
(B) छिद् + ल्युट्
অনুরূপ পাঠ
CTET पेपर II संस्कृत December 2024 MCQ প্রশ্ন ও উত্তর এর মতো SEMESTER – 4 এর অনুরূপ পাঠগুলি জানতে নিম্নের Link এ Click করে জেনে নাও—