CTET पेपर II संस्कृत July 2019 এর প্রশ্নগুলির উত্তর করে দেওয়া আছে। Central Teacher Eligibility Test এর প্রশ্নগুলি কেমন ধরণের হতে পারে, সে ধারণা পেতে সালের প্রশ্নগুলির অনুশীলন করা জরুরী।
CTET এ যে দুটি Language রাখতে হয়, তার মধ্যে একটি সংস্কৃত রাখতে পারেন। এ বিষয়ে খুব সহজেই score করতে পারবেন। সংস্কৃতকে যদি Language I নির্বাচন করেন, তাহলে 91 থেকে 120 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। আর আপনি যদি Language II নির্বাচন করেন তবে 121 থেকে 150 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। এখানে LANGUAGE–I এ গদ্য থেকে 9 এবং পদ্য থেকে 6 মোট 15 নম্বর এবং LANGUAGE–II এ দুটি গদ্যাংশ থেকে 8+7 মোট 15 নম্বর। অর্থাৎ LANGUAGE–I এবং LANGUAGE–II মিলিয়ে সর্বমোট 30 নম্বরের প্রশ্নোত্তর আলোচিত হয়েছে।
PART- IV, LANGUAGE–I, SANSKRIT
अभ्यर्थिनः चतुर्थभागस्य (Part-IV) प्रश्नानाम् (प्र.सं. 91-120) उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा (Language-I) रूपेण चितम् ।
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (91-99) विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत ।
अस्मिन् ब्रह्माण्डे बहूनि ग्रहनक्षत्राणि सन्ति । आकाशे मंगल – बुध गुरु आदिषु ग्रहनक्षत्रेषु सूर्योऽपि एकं नक्षत्रम् अस्ति । अस्य प्रकाशेन एव पृथ्वी चन्द्रादयः प्रकाशन्ते । नक्षत्रमेतत् ऊर्जसः महास्रोतः अस्ति । वैज्ञानिकाः अस्य ऊर्जसं प्रति विशेषेण उन्मुखाः सन्ति । सूर्यः संसारस्य प्रकाशकः । अस्य ऊष्मणः आधिक्येन वसन्त-ग्रीष्म-वर्षाः अनाधिक्येन च शरद्धेमन्तशिशिराश्च ऋतवः भवन्ति ।
जीवानां स्वास्थ्याय अपि सूर्यस्य महती भूमिका अस्ति । कतिपयाः योगक्रियाः अस्यातपे एव क्रियन्ते । ऋषेः अथर्वणः मते उदीयमानस्य सूर्यस्य रश्मिभिः शिरोवेदनां दूरीकर्तुं शक्यते । अतः प्राकृतिक चिकित्सारूपेण सूर्यः अस्माकम् उपकारकः शरीरिकशास्त्रे सूर्यस्य रश्मिसेवनं सूर्यस्नानम् इति रूपेण प्रसिद्धम् । पादपानां वनस्पतीनां विकासोऽपि सूर्यष्योमाणं विना न संभवति । अतः भूतले सर्वेषां जीवनं सूर्याधारितमेव ।
MCQ প্রশ্নোত্তর
CTET पेपर II संस्कृत July 2019 MCQ প্রশ্ন ও উত্তর গুলি নিচে দেওয়া হল। প্রশ্নের উত্তরগুলি সরাসরি না দিয়ে শিক্ষার্থীদের সুবিধার্থে উত্তরটি লুক্কায়িত আছে। পরীক্ষার্থীদের চেষ্টা করার সুযোগ আছে। উত্তরে Click👈 করলেই উত্তরটি দেখা যাবে।
1. प्रकाशिताः भवन्ति इत्यस्य कृते अनुच्छेदेऽस्मिन् कः शब्दः प्रयुक्तः तच्चित्वा लिखत—
(A) नद्यां वहन्ति
(B) प्रकाशन्ते
(C) सिञ्चन्ति
(D) निन्दन्ति
উত্তর👈
(B) प्रकाशन्ते
2. सूर्यस्य ऊर्जसं प्रति के उन्मुखाः सन्ति ?
(A) विद्यार्थिनः
(B) वैज्ञानिकाः
(C) लिपिकाः
(D) मन्त्रिणः
উত্তর👈
(B) वैज्ञानिकाः
3. वसन्तग्रीष्मवर्षा ऋतवः कथं भवन्ति ?
(A) सूर्यस्य ऊष्मणः आधिक्येन
(B) सूर्यस्य ऊष्मणः अनाधिक्येन
(C) चन्द्रमसः प्रकाशेन
(D) अर्धरात्रौ
উত্তর👈
(A) सूर्यस्य ऊष्मणः आधिक्येन
4. किरणैः इति पदस्य समानार्थकः शब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः तच्चित्वा लिखत—
(A) रश्मिभिः
(B) रज्जुना
(C) हरितैः
(D) पीतैः
উত্তর👈
(A) रश्मिभिः
5. उपकारं करोति इत्यस्य कृते कः शब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः तच्चित्वा लिखत—
(A) अनुपकारकः
(B) उपकारकः
(C) उपगङ्गम्
(D) अनुदिनम्
(D) तेजः
উত্তর👈
(B) उपकारकः
6. सूर्यस्य रश्मिसेवनं किं नाम्ना प्रसिद्धम् ?
(A) सूर्यस्नानम्
(B) चन्द्रस्नानम्
(C) जलस्नानम्
(D) दधिस्नानम्
উত্তর👈
(A) सूर्यस्नानम्
7. ह्रासोऽपि इत्यस्य विलोमशब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः तच्चित्वा लिखत—
(A) विकासोऽपि
(B) विनासोऽपि
(C) उद्धारोऽपि
(D) अनुद्धारोऽपि
উত্তর👈
(A) विकासोऽपि
8. कुत्र बहूनि ग्रहनक्षत्राणि सन्ति—
(A) नद्याम्
(B) सागरे
(C) ब्रह्माण्डे
(D) गृहे
উত্তর👈
(C) ब्रह्माण्डे
9. सूर्यः किम् अस्ति ?
(A) गृहम्
(B) नक्षत्रम्
(C) पर्वतम्
(D) पुष्पम्
উত্তর👈
(B) नक्षत्रम्
अधोलिखितान् पद्यान् पठित्वा प्रश्नानां (100-105) विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत ।
न पृष्टः कस्यचिद् ब्रूयात् न चान्यायेन पृच्छतः ।
जानन्नपि हि मेधावी जडवल्लोकमाचरेत् ।।1 ।।
वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम् ।।2 ।।
विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् ।
अमित्रादपि सवृत्तममेध्यादपि काञ्चनम् ।। 3।।
सर्वेषामपि शौचानामर्थशौचं परं स्मृतम् ।
योऽर्थे शुचिः स हि शुचिः न मृद्वारिशुचिः शुचिः ।। 4 ।।
यथा धेनुसहस्रेषु वत्सो गच्छति मातरम् ।
तथा यच्च कृतं कर्म कर्तारमनुगच्छति ।। 5 ।।
10. ‘अजानन्नपि’ इत्यस्य विलोमशब्दः श्लोके प्रयुक्तः । तच्चित्वा लिखत—
(A) अजानतापि
(B) जानन्नपि
(C) शृण्वन्नपि
(D) वदन्नपि
উত্তর👈
(B) जानन्नपि
11. वित्तं बन्धुर्वयः कर्म विद्या इत्येषु पञ्चमी का ?
(A) वित्तं
(B) बन्धुः
(C) विद्या
(D) कर्म
উত্তর👈
(C) विद्या
12. स्वीकुर्यात् इत्यस्य कृते कः शब्दः श्लोके प्रयुक्तः तच्चित्वा लिखत—
(A) न स्वीकुर्यात्
(B) ग्राह्यम्
(C) न ग्राह्यम्
(D) पतनम्
উত্তর👈
(B) ग्राह्यम्
13. कः शुचिः भवति ?
(A) अर्थे शुचिः
(B) मृद्वारिशुचिः
(C) रात्रिशुचिः
(D) दिनशुचिः
উত্তর👈
(A) अर्थे शुचिः
14. आगच्छति इति पदस्य विलोमशब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः । तच्चित्वा लिखत—
(A) धावति
(B) गच्छति
(C) पठति
(D) मन्दः
উত্তর👈
(B) गच्छति
15. अपृष्टः इत्यस्य कृते कः शब्दः श्लोके प्रयुक्तः तच्चित्वा लिखत—
(A) न पृष्टः
(B) बहुपृष्टः
(C) मार्गपृष्टः
(D) धनपृष्टः
উত্তর👈
(A) न पृष्टः
PART- V, LANGUAGE–II, SANSKRIT
अभ्यर्थिनः पञ्चमभागस्य (Part-V) प्रश्नानाम् (प्र.सं. 121-150) उत्तरं दद्युः, यदि तैः संस्कृतं द्वितीयभाषा (Language-II) रूपेण चितम् ।
निर्देशः- अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां (121 – 128) विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत।
साम्प्रतिकं युगं वैज्ञानिकं युगं वर्तते । अद्य मानवः तथैव नास्ति यथा शतं वर्षाणि पूर्वमासीत् । सर्वेषां जीवने विज्ञानोपकरणानि प्रविष्टानि । नगरेषु ग्रामेषु च सर्वे जनाः स्व स्व कार्येषु विज्ञानस्य साधनानां प्रयोगं कुर्वन्ति । रेलयानं दूरं गन्तुं लोकप्रियं वाहनम् अस्ति । दूरस्थाः शब्दाः अपि रेडियो माध्यमेन गृह्यन्ते । अधुना टेलीविजनयन्त्रं महदुपकारकं वर्तते । तेन गृहे स्थिताः वयं चित्राणि पश्यामः । चित्रस्थपात्राणां वचनानि श्रृणुमः । कम्प्यूटरयन्त्रम् लघुकायमपि महदुपकारकं वर्तते । यद्यपि सहस्राधिकानां विज्ञानोपकरणानां प्रयोगः अहर्निशं भवति तथापि जनानां सुविधावर्धनार्थं नवीनानि उपकरणानि आविष्क्रियन्ते । आयुर्विज्ञानस्य आविष्कारैः रोगाः दूरीक्रियन्ते । जनानां जीवने सुखं च वर्धते ।
1. केषां जीवने विज्ञानोपकरणानि प्रविष्टानि ?
(A) सर्वेषाम्
(B) केवलं जलचराणाम्
(C) केवलं रात्रिचराणाम्
(D) केवलं पलाण्डुभक्षकाणाम्
উত্তর👈
(A) सर्वेषाम्
2. प्रवेशं प्राप्तानि इत्यस्य पर्यायशब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः, तच्चित्वा लिखत—
(A) निर्गतानि
(B) प्रविष्टानि
(C) हसितानि
(D) पीतानि
উত্তর👈
(B) प्रविष्टानि
3. दूरं गन्तुं लोकप्रियं वाहनं किमस्ति ?
(A) वृषभयानम्
(B) अश्वयानम्
(C) रेलयानम्
(D) नौकायानम्
উত্তর👈
(C) रेलयानम्
4. ‘अधुना’ इति पदं कीदृशं पदमस्ति ?
(A) विशेषणपदम्
(B) अव्ययपदम्
(C) कर्तृपदम्
(D) क्रियापदम्
উত্তর👈
(B) अव्ययपदम्
5. रात्रिंदिवं इति पदस्य पर्याशब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः तच्चित्वा लिखत—
(A) अहर्निशम्
(B) दिनम्
(C) रात्रिः
(D) उभे सन्ध्ये
উত্তর👈
(A) अहर्निशम्
6. आविष्काराः क्रियन्ते इत्यस्य कृते कः शब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः, तच्चित्वा लिखत—
(A) आविष्क्रियन्ते
(B) मोदकाणां भक्षणम्
(C) चित्राणां निर्माणम्
(D) पशूनां धावनम्
উত্তর👈
(A) आविष्क्रियन्ते
7. दुःखं पदस्य विलोमशब्दः अनुच्छेऽस्मिन् प्रयुक्तः तच्चित्वा लिखत—
(A) सुखम्
(B) मधुरम्
(C) पुष्पम्
(D) फलम्
উত্তর👈
(A) सुखम्
8. साम्प्रतिकं युगं कीदृशं युगं वर्तते ?
(A) द्वापरयुगम्
(B) जलयुगम्
(C) वैज्ञानिकं युगम्
(D) पाषाणयुगम्
উত্তর👈
(C) वैज्ञानिकं युगम्
निर्देश :- अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां (129-135) विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत
भारतदेशस्य उत्तरस्यां दिशि हिमालयो नाम पर्वतराजः वर्तते । अस्य तुङ्गानि शिखराणि सर्वदा हिमेनाच्छादितानि भवन्ति । अयं पर्वतः पूर्वसागरात् पश्चिमसागरपर्यन्तं विस्तृतः । अस्य मेखलासु नानाविधाः ओषधयः प्ररोहन्ति । तासु काचन रात्रौ दीपा इव प्रकाशन्ते । अत्रत्येषु वृक्षेषु शालाः, देवदारवः सुतरामुपयोगिनः । अत्र व्याघ्राः ऋक्षाः, वृकाः स्वच्छन्दं विहरन्ति । अस्मिन्नेव क्षेत्रे कस्तूरीमृगाः विहरन्ति । अस्यैव नाभिमण्डलात् कस्तूरिका जायते । इयं वैद्यैः विविधानां रोगाणां चिकित्सायै प्रयुज्यते । अत्रैव मानसं सरः (मानसरोवरः) अस्ति यत्र हंसाः विहरन्ति । अस्य सरोवरस्य तटे ऋषीणाम् आश्रमाः सन्ति ।
9. विहारं कुर्वन्ति इत्यस्य कृतेन अनुच्छेदेऽस्मिन् कः शब्दः प्रयुक्तः ?
(A) हरन्ति
(B) उदाहरन्ति
(C) विहरन्ति
(D) विरहिताः
উত্তর👈
(C) विहरन्ति
10. ‘परतन्त्रम्’ इति पदस्य विलोमशब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः, तच्चित्वा लिखत—
(A) परातन्त्रम्
(B) स्वच्छन्दम्
(C) अर्गलासहितम्
(D) जीमूतवाहनः
উত্তর👈
(B) स्वच्छन्दम्
11. उत्पन्ना भवति इत्यस्य पर्यायशब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः तच्चित्वा लिखत—
(A) म्रियते
(B) स्वपिति
(C) जायते
(D)क्रोधः
উত্তর👈
(C) जायते
12. सरोवरस्य तटे केषाम् आश्रमाः सन्ति ?
(A) भल्लूकानाम्
(B) जम्बुकानाम्
(C) ऋषीणाम्
(D) धावितानाम्
উত্তর👈
(C) ऋषीणाम्
13. विस्तारं प्राप्तः इति पदस्य कृते कः शब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः तच्चित्वा लिखत—
(A) विस्तृतः
(B) अविस्तृतः
(C) न विस्तृतः
(D) बहु कोमलम्
উত্তর👈
(A) विस्तृतः
14. कस्य उत्तरस्यां दिशि पर्वतराजः वर्तते—
(A) भारतदेशस्य
(B) चीनदेशस्य
(C) अफ्रीका देशस्य
(D) ईरान देशस्य
উত্তর👈
(A) भारतदेशस्य
15. अस्य शिखराणि केन आच्छादितानि भवन्ति ?
(A) दुग्धेनाच्छादितानि
(B) फलेनाचहिमेनाच्छादिता
(C) हिमेनाच्छादितानि
(D) अग्निनाच्छादितानि
উত্তর👈
(C) हिमेनाच्छादितानि
অনুরূপ পাঠ
CTET पेपर II संस्कृत July 2019 MCQ প্রশ্ন ও উত্তর এর মতো ctet এর অনুরূপ পাঠগুলি জানতে নিম্নের Link এ Click করে জেনে নাও—
- CTET पेपर II संस्कृत December 2018 👈
- CTET पेपर II संस्कृत December 2019 👈
- CTET पेपर II संस्कृत January 2021 👈
- CTET पेपर II संस्कृत July 2021👈
- CTET पेपर II संस्कृत August 2023 👈
- CTET पेपर II संस्कृत January 2024👈
- CTET पेपर II संस्कृत July 2024 👈
- CTET पेपर II संस्कृत December 2024 👈
- CTET पेपर II संस्कृत February 2026 👈
