CTET पेपर-II संस्कृत February 2026 এর প্রশ্নগুলির উত্তর করে দেওয়া আছে। Central Teacher Eligibility Test এর প্রশ্নগুলি কেমন ধরণের হতে পারে, সে ধারণা পেতে সালের প্রশ্নগুলির অনুশীলন করা জরুরী।
CTET এ যে দুটি Language রাখতে হয়, তার মধ্যে একটি সংস্কৃত রাখতে পারেন। এ বিষয়ে খুব সহজেই score করতে পারবেন। সংস্কৃতকে যদি Language I নির্বাচন করেন, তাহলে 91 থেকে 120 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। আর আপনি যদি Language II নির্বাচন করেন তবে 121 থেকে 150 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। এখানে LANGUAGE-I এ গদ্য থেকে 9 এবং পদ্য থেকে 6 মোট 15 নম্বর এবং LANGUAGE-II এ দুটি গদ্যাংশ থেকে 8+7 মোট 15 নম্বর। অর্থাৎ LANGUAGE-I এবং LANGUAGE-II মিলিয়ে সর্বমোট 30 নম্বরের প্রশ্নোত্তর আলোচিত হয়েছে।
PART- IV, LANGUAGE-I, SANSKRIT
अभ्यर्थिनः चतुर्थभागस्य (Part-IV) प्रश्नानाम् (प्र.सं. 91-120) उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा (Language-I) रूपेण चितम् ।
निर्देशः – अधोलिखितान् पद्यान् पठित्वा प्रश्नानां (106-111) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत।
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ।।1।।
यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम्।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥ 2 ॥
तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा।
तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ॥ 3 ॥
सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् ।
एतद्विद्यात्समासेन लक्षणं सुखदुःखयोः ।। 4।।
यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः ।
तत्त्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ।। 5 ।।
MCQ প্রশ্নোত্তর
CTET पेपर II संस्कृत February 2026 MCQ প্রশ্ন ও উত্তর গুলি নিচে দেওয়া হল। প্রশ্নের উত্তরগুলি সরাসরি না দিয়ে শিক্ষার্থীদের সুবিধার্থে উত্তরটি লুক্কায়িত আছে। পরীক্ষার্থীদের চেষ্টা করার সুযোগ আছে। উত্তরে Click👈 করে সঠিক উত্তরটি দেখে নিতে হবে।
1. परितोषात्मकं कर्म करणार्थं जनैः किं कर्तव्यम् ?
(A) उपहासः
(B) प्रयत्नम्
(C) परिहारः
(D) प्रमादः
উত্তর👈
(B) प्रयत्नम्
2. अभिवादनशीलस्य किं न वर्धते?
(A) यशः
(B) धनम्
(C) बिद्या
(D) आयुः
উত্তর👈
(B) धनम्
3. ‘वर्षशतैरपि’ इत्यस्य पदस्य सम्यक् सन्धिविच्छेदः कुरुत।
(A) वर्ष + शतैरपि
(B) वर्षश + तैरपि
(C) वर्षशतै + रपि
(D) वर्षशतैः + अपि
উত্তর👈
(D) वर्षशतैः + अपि
4. तेष्वेव त्रिषु तुष्ठेषु सर्वं किं समाप्यते?
(A) दुःखम्
(B) आकर्षणम्
(C) तपः
(D) वित्तम्
উত্তর👈
(C) तपः
5. ‘निष्कृतिः’ इत्यस्मिन् पदे कः प्रत्ययः वर्तते?
(A) णिनि
(B) तसिल्
(C) क्तिन्
(D) किए
উত্তর👈
(C) क्तिन्
6. मातापितरौ नृणां सम्भवे किं सहेते?
(A) क्लेशम्
(B) स्वत्वम्
(C) प्रसन्नताम्
(D) घृणाम्
উত্তর👈
(A) क्लेशम्
निर्देशः अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (112-120) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत।
पूर्वं दक्षिणप्रदेशे एकः त्यागराजः नामा विद्वान् आसीत्। तस्य पुत्री ज्ञानाम्बा अतीव बुद्धिमती आसीत्। तस्याः बुद्धिमत्वकारणात् एव तस्यैः वरः दुर्लभः आसीत्। कश्चिदपि ज्ञानेन तस्याः समतां न अकरोत्। एकदा तस्याः पित्रा त्यागराजेन पाश्र्वस्थग्रामस्य कश्चित्- पण्डितपुत्रः वररूपेण अन्विष्टः ज्ञानाम्बां च तस्य विषये असूचयत्। परन्तु ज्ञानाम्बा उक्तवती यत् अहं स्वयमेव तं द्रक्ष्यामि, प्रश्नं च प्रक्ष्यामि। ज्ञानाम्बायाः वाक्यं श्रुत्वा त्यागराजः चिन्तितोऽभवत्। तदा एकस्मिन् दिवसे सः वरस्य ग्रामं गत्वा तस्य पितरं ज्ञानाम्बायाः विचारम् अकथयत्। तस्य पिता ज्ञानाम्बायाः बुद्धिमत्वम् अजानत। यद्यपि सः स्वपुत्रस्य ज्ञानविषये आश्वस्तो न आसीत्, तथापि तेन ज्ञानाम्बायाः साक्षात्कारार्थं स्वीकृतिः प्रदत्ता।
अथ निश्चिते दिने सः पण्डितः स्वपुत्रेण सह त्यागराजकवेः गृहम् आगतः। प्रणामानन्तरं ज्ञानाम्बा स्वपितरम् अवदत् यत् उभौ एव भवन्ती पृथक् कक्षे तिष्ठताम्। अहम् अत्र एवं द्वित्रान् सरलप्रश्नान् प्रक्ष्यामि।
ज्ञानाम्बाकथनानुसारं त्यागराजः वरपितरं गृहीत्वा अन्यस्मिन् कक्षे अगच्छत्। ज्ञानाम्बा तं युवकं तस्य नाम अपृच्छत्। सः च ‘बोधराजः’ इति स्वनाम अवदत् । तदा ज्ञानाम्बा अपृच्छत् — अयि भोः व्याकरणं तु जानासि ? तेन उक्तम् — आं जानामि। मम अयं प्रश्नः “एकः बालकः विहस्य मातरं पृच्छति — अम्ब, मां विहाय कुत्र गच्छसि” इति कृपया ‘विहस्य विहाय’ इति पदयोः व्याकरणपरिचयः दीयताम्। पण्डितसूनुः अवदत् — स्पष्टमेव अत्र क्रमशः षष्ठी च चतुर्थी च विभक्तिः दृश्यते।
ज्ञानाम्बया उक्तं बाढम्, तर्हि ‘अहं कथम्’ इति पदयोः तु द्वितीया विभक्तिः भवेत् ?
युवकः अवदत् —सत्यमुक्तं त्वया ‘एवमेवास्ति।’ ज्ञानाम्बया कथितम् क्षणं तिष्ठतु भवान्, अहं किञ्चित् भोजनमानयामि। युवकोऽवदत् नैव नैव, पित्रा सह गन्तव्यमस्ति ।
अस्मिन्नन्तरे त्यागराजः बोधराजपित्रा सह आगतः। तदा त्यागराजेन पृष्टं जाते ! तव प्रश्नानामुत्तराणि कथं दत्तानि? ज्ञानाम्बा स्मयमाना आसीत्। त्यागराजः कथितवान् सम्यग् उत्तराणि दत्तानि, इति मन्ये। तदा ज्ञानाम्बा इमं श्लोकमत्रदत् “यस्य षष्ठी चतुर्थी च, विहस्य विहाय च।”
अहं कथं द्वितीया स्यात्, द्वितीया स्याम् अहं कथम् ॥
एतच्छ्रुत्वा त्यागराजः निराशः अभवत्। हस्तयोः शिरः गृहीत्वा निम्नमुखः उपाविशत्। सः चिन्तितः आसीत् किं कर्त्तव्यं कोऽपि ज्ञानवान् युवकः न दृश्यते?
वस्तुतः विदुष्यः युवतयः समानं वरमिच्छन्ति ।
7. ज्ञानाम्बायाः वाक्यं श्रुत्वा त्यागराजः ——– अभवत् । (उचितं पदं चित्वा रिक्तस्थानं पूरयत।)
(A) प्रसन्नः
(B) क्रुद्धः
(C) खिन्नः
(D) निराशः
উত্তর👈
(C) खिन्नः
8. पण्डितपुत्रस्य अनुसारं विहस्य विहाय च एतयोः पदयोः का विभक्तिः दृश्यते?
(A) तृतीया च सप्तमी च
(B) षष्ठी च चतुर्थी च
(C) षष्ठी च प्रथमा च
(D) पञ्चमी च द्वितीया च
উত্তর👈
(B) षष्ठी च चतुर्थी च
9. अधोलिखितेषु किं पदं क्त्वतुप्रत्ययान्तं अस्ति?
(A) गृहीत्वा
(B) ज्ञानवान्
(C) कथितवान्
(D) विहाय
উত্তর👈
(C) कथितवान्
10. वस्तुतः विदुष्यः युवतयः कीदृशं वरम् इच्छन्ति?
(A) समानम्
(B) सुशीलम्
(C) दीर्घकायम्
(D) बुद्धिहीनम्
উত্তর👈
(A) समानम्
11. ज्ञानविषये इत्यस्मिन् पदे कः समासः वर्तते ?
(A) तत्पुरुषः
(B) द्विगुः
(C) कर्मधारयः
(D) अव्ययीभावः
উত্তর👈
(A) तत्पुरुषः
12. ‘स्वीकृतिः’ अस्मिन् पदे कः प्रत्ययः अस्ति?
(A) घञ्
(B) तुमुन्
(C) क्तिन्
(D) शानच्
উত্তর👈
(C) क्तिन्
13. बोधराजस्य पिता ज्ञानाम्बायाः किं गुणं जानाति स्म?
(A) गृहकार्ये कुशलताम्
(B) बुद्धिमत्वम्
(C) सुन्दरताम्
(D) हास्यप्रियताम्
উত্তর👈
(B) बुद्धिमत्वम्
14. निश्चिते दिने सः पण्डितः केन सह त्यागराजस्य गृहं आगतः?
(A) स्वपुत्रेण
(B) मित्रैः
(C) पशुभिः
(D) स्वपरिवारेण
উত্তর👈
(A) स्वपुत्रेण
15. “अहं किञ्चित् भोजनमानयामि” एतत् कथनं कः कं कथयति?
(A) ज्ञानाम्बा ब्राह्मणम्
(B) ज्ञानाम्बा बोधराजम्
(C) त्यागराजः ज्ञानाम्बाम्
(D) ब्राह्मणः स्वपुत्रम्
উত্তর👈
(B) ज्ञानाम्बा बोधराजम्
PART- V, LANGUAGE–II, SANSKRIT
अभ्यर्थिनः पञ्चमभागस्य (Part-V) प्रश्नानाम् (प्र.सं. 121-150) उत्तरं दद्युः, यदि तैः संस्कृतं द्वितीयभाषा (Language-II) रूपेण चितम् ।
निर्देशः अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (136-142) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत ।
कस्मिंश्चित् वृक्षे कश्चित् काकः निवसति । एकदा सः तृषार्तः भवति। सः जलार्थं यत्र तत्र अटति। किन्तु कुत्रापि जलं न लभते सः। तृषाव्याकुलः सः पुनश्च जलम् अन्वेष्टुं गच्छति। सः कमपि लघुघटं पश्यति। तस्मिन् घटे अल्पं जलमस्ति। काकः चतुरः अस्ति। सः पाषाणखण्डान् आनीय घटे निक्षिपति। यदा घटः पाषाणैः पूर्णः तदा जलम् उपरि आगच्छति। काकः जलं पिबति। तदा कश्चित् हंसः एतद् सर्वम् अवलोकयति। सः आश्चर्येण तं काकं पृच्छति। भो मित्र, त्वम् एतावान् तृषार्तः तथापि किमर्थम् अर्धमेव जलं पीतवान् तब तृष्णा अपि शान्ता? काकः ईषद् हसति वदति चरे वयस्य, भाग्यवान् असि त्वं यतो हि सरसि निवसति । नास्ति तत्र जलस्य अभावः अतः एव भवान् जलस्य महत्त्वं न जानाति। जलं विना अस्माकं जीवनम् अशक्यम्। हंसः बदति, “जानामि अहम्। अतएव ‘जलं जीवनम्’ इति उच्यते। जलं देवतारूपेण पूज्यते।” काकः वदति, “एतद् जलम् ईश्वरस्य महत् वरदानम्। किन्तु सीमितं, परिमितं वरदानम्। नूनं राष्ट्रिया सम्पत्तिः एषा। तस्याः रक्षणम् अस्माभिः करणीयम्। अतः अहम् अर्धं जलं पीत्वा अर्धं त्यक्तवान् मत्सदृशः अन्यः कोऽपि तृषार्तः तद् जलं पिवतु इत्येव मम विचारः।”
हंसः भणति “भो मित्र, धन्योऽसि त्वम्। तव वर्णः कृष्णः किन्तु मनः धवलम्। सत्यं तव वचनम्। अस्माभिः सर्वैः जलस्य माहात्म्यम् अवगन्तव्यं न तस्य अतिव्ययः विनाशः वा करणीयः। अहं सर्वान् वयस्यान् जलस्य महत्त्वं कथयिष्यामि।
जलं नाम महद्रत्नं भूमौ देवेन निर्मितम् ।
रक्षेत् प्रदूषणनाशात् तत्संवर्धयेत् मतिमान्नरः ।।”
अर्थात् ईश्वरेण अस्यां भूमौ जलनाम निधिः रचितः। अस्य संरक्षणं संवर्धनं च अस्मभ्यं पर कर्तव्यं अस्ति।
1 जलं ईश्वरस्य महत् बरदानं, नूनं——— सम्पत्तिः एषा। उचितं पदं चित्वा रिक्तस्थानं पूरयत।
(A) स्वकीया
(B) शासकीया
(C) राष्ट्रिया
(D) स्थानीया
উত্তর👈
(C) राष्ट्रिया
2. गद्यानुसारं कस्य वर्णः कृष्णः, किन्तु मनः धवलं अस्ति?
(A) पिकस्य
(B) कृष्णस्य
(C) सर्पस्य
(D) काकस्य
উত্তর👈
(D) काकस्य
3. अधोलिखितेषु पदेषु किं अव्ययपदं न अस्ति?
(A) कुत्र
(B) अपि
(C) तदा
(D) तस्यै
উত্তর👈
(D) तस्यै
4. अस्माभिः सर्वैः जलस्य किं न कर्तव्यम् ?
(A) संवर्धनम्
(B) संरक्षणम्
(C) अतिव्ययः
(D) प्रदूषणात् रक्षणम्
উত্তর👈
(B) संरक्षणम्
5. यद्यपि ‘जलमेव जीवनम्’ इति उच्यते, तथापि केचन जनाः अस्य किं न जानन्ति?
(A) वर्णम्
(B) महत्त्वम्
(C) स्वादम्
(D) गन्धम्
উত্তর👈
(B) महत्त्वम्
6. “किमर्थं अर्धमेव जलं पीतवान्” इति एनं प्रश्नं कः कं पृच्छति?
(A) काकः जलम्
(B) जलं हंसम्
(C) हंस काकम्
(D) मित्रः जलम्
উত্তর👈
(C) हंस काकम्
7. ‘अवगन्तव्यम्’ इत्यस्मिन् पदे कः प्रत्ययः प्रयुक्तः?
(A) तव्य
(B) ष्यञ्
(C) यत्
(D) ण्यत्
উত্তর👈
(A) तव्य
निर्देश :- अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (143-150) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत।
अस्मिन् भौतिकवादियुगे मानवाः भौतिकम् उन्नतिं कर्तुम् उद्यताः सन्ति। विज्ञानबलेन ते ईश्वरम् अपि जेतुम् इच्छन्ति, किन्तु तथापि न अस्ति शान्तिः कुत्रचित्। एकः एकस्य स्वार्थ-हननं करोति, एकस्य उन्नतिम्, अन्यः न सहते। सर्वत्र चिन्ता विपन्नता कलहश्च लक्ष्यते। धर्ममूलकभावनायाः अभावः एव अस्य मूलकारणम् अस्मिन् युगे परलोकस्य चर्चा अपि मूर्खता कथ्यते। मा भवतु परलोकः। नास्ति कश्चित् लोकः किन्तु मनुष्यजीवनस्य यत् कीर्तिक्षेत्रं तदेव परलोकः अस्ति। तस्य मरणानन्तरं तस्य सत्कार्यदुष्कार्याणां ध्यानं कृत्वा जगत् तस्य स्तुतिं निन्दां यत् करोति तदेव परलोकः अस्ति। तस्य नाम चिरस्मरणीयं विस्मरणीयम् वा भवति तदेव परलोकः अस्ति। तस्मात् कारणात् सद्भावना सत्कर्म च अपेक्ष्यते। तदेव धर्मः।
रक्षितः धर्मः रक्षां करोति। ब्राह्मे मुहूर्त उत्थातव्यम् इति धर्मः, तस्य रक्षया स्वास्थ्यलाभः भवति। प्रातः स्नानं कृत्वा ईश्वरस्य चिन्तनं कर्तव्यम् इति धर्मः, तस्य पालनेन मनः विमलं भवति। गुरोः शुश्रूषया विद्या भवति इति धर्मः, तस्य पालनेन विद्यायाः लाभः भवति। छात्राणाम् अध्ययनं तपः इति धर्म, तस्य पालनेन लोकः विद्वान् भवति। अतः रक्षितः धर्मः रक्षां करोति ।
प्राणान् त्यक्तत्वा अपि धर्मस्य रक्षा कर्तव्या। यः धर्मम् आचरति, विपत्ती अपि च धर्म न त्यजति, धर्मः तं संततं रक्षति। यः च धर्मस्य आचरणं न करोति, न च तं रक्षति, धर्मः तं नाशयति। अतः धर्मः न हातव्यः न च हन्तव्यः अपितु सततं रक्षितव्यः इदम् एव तथ्यं प्रकाशयता भगवता मनुना भणितम्-
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
तस्माद् धर्मो न हन्तव्यः मा नो धर्मो हतोऽवधीत् ।।
संसारे सः देशः सा जातिः ते च जनाः एव जीवन्ति येषां धर्मः जीवितः अस्ति। धर्ममार्गे बहूनि कष्टानि समापतन्ति, किन्तु तानि सर्वाणि सहमानः यः धर्मात् न विचलति, सफलता तस्य एव चरण-चुम्बनं विदधाति। इतिहासः साक्षी अस्ति यत् सर्वदा सर्वत्र धर्मस्य एव विजयः भवति। किम् अधिकं रामस्य, कृष्णस्य, पाण्डवानाम् अन्येषां च धर्मयुद्धरतानां विजयः वस्तुतः धर्मस्य एव विजयः अस्ति।
धर्मः मानवस्य सार्वकालिकम् मित्रम् अस्ति। सुखे दुःखे, सम्पत्ती विपत्ती, जीवने मरणे, लोके परलोके च धर्मः एवं परमसहायकः अस्ति। धनानि, पशवः, गृहाणि, शकटानि, नार्यः पुत्राः सखायः अन्ये च सर्वे बान्धवाः सम्बन्धिनः च मरणोत्तरं मानवस्य साहाय्यं त्यजन्ति किन्तु एकः धर्मः एव परलोके अपि तम् अनुगच्छति।
8. मनुष्यजीवनस्य यत् ——— तदेव परलोकः अस्ति। उचितं पदं चित्वा रिक्तस्थानं पूरयत।
(A) सङ्गीतज्ञानम्
(B) कीर्तिक्षेत्रम्
(C) भेषजविद्या
(D) विद्यानैपुण्यम्
উত্তর👈
(B) कीर्तिक्षेत्रम्
9. अस्मिन् भौतिकतावादियुगे सर्वत्र किं न लक्ष्यते?
(A) चिन्ता
(B) विपन्नता
(C) कलहः
(D) शान्तिः
উত্তর👈
(D) शान्तिः
10. सफलता कस्य जनस्य चरण-चुम्बनं विदधाति?
(A) यः धर्मात् न विचलति
(B) यः नित्यरूपेण व्यायामं करोति
(C) यः स्वगुरूणां प्रशंसां करोति
(D) यः सर्वदा प्रातःकाले उत्तिष्ठति
উত্তর👈
(A) यः धर्मात् न विचलति
11. निम्नलिखितेषु पदेषु किं पदं ल्युट्प्रत्ययान्तं न अस्ति?
(A) चिन्तनम्
(B) हननम्
(C) आचरणम्
(D) कृष्णम्
উত্তর👈
(D) कृष्णम्
12. मरणोत्तरं के परलोके अपि मानवं अनुगच्छन्ति?
(A) पशवः
(B) सम्बन्धिनः
(C) धर्मः
(D) शकटानि
উত্তর👈
(B) सम्बन्धिनः
13. मानवाः केन उपायेन ईश्वरं जेतुं प्रयतन्ते?
(A) वित्तप्रयोगेन
(B) विज्ञानबलेन
(C) शारीरिकशक्त्या
(D) प्रार्थनाभिः
উত্তর👈
(B) विज्ञानबलेन
14. जनैः धर्मस्य रक्षा कान् अपि त्यक्तत्वा कर्तव्या?
(A) प्राणान्
(B) भोजनम्
(C) नैतिकमूल्यान्
(D) गृहान्
উত্তর👈
(A) प्राणान्
15. धर्मः कुत्र मानवस्य परमसहायकः न भवति ?
(A) सम्पत्तौ
(B) पापकर्मसु
(C) परलोके
(D) दुःखे
উত্তর👈
(C) परलोके
অনুরূপ পাঠ
CTET पेपर II संस्कृत February 2026 MCQ প্রশ্ন ও উত্তর এর মতো ctet এর অনুরূপ পাঠগুলি জানতে নিম্নের Link এ Click করে জেনে নাও—
- CTET पेपर II संस्कृत December 2018 👈
- CTET पेपर II संस्कृत July 2019 👈
- CTET पेपर II संस्कृत December 2019 👈
- CTET पेपर II संस्कृत January 2021 👈
- CTET पेपर II संस्कृत July 2021 👈
- CTET पेपर II संस्कृत August 2023 👈
- CTET पेपर II संस्कृत July 2024 👈
- CTET पेपर II संस्कृत January 2024👈
- CTET पेपर II संस्कृत December 2024 👈
