CTET पेपर II संस्कृत 2024 এর প্রশ্নগুলির উত্তর করে দেওয়া আছে। Central Teacher Eligibility Test এর প্রশ্নগুলি কেমন ধরণের হতে পারে, সে ধারণা পেতে সালের প্রশ্নগুলির অনুশীলন করা জরুরী।
CTET এ যে দুটি Language রাখতে হয়, তার মধ্যে একটি সংস্কৃত রাখতে পারেন। এ বিষয়ে খুব সহজেই score করতে পারবেন। সংস্কৃতকে যদি Language I নির্বাচন করেন, তাহলে 91 থেকে 120 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে। আর আপনি যদি Language II নির্বাচন করেন তবে 121 থেকে 150 পর্যন্ত প্রশ্নগুলোর উত্তর করতে হবে।
LANGUAGE–I, SANSKRIT
अभ्यर्थिनः चतुर्थभागस्य (Part-IV) प्रश्नानाम् (प्र.सं. 91-120) उत्तरं दद्युः, यदि तैः संस्कृतं प्रथमभाषा (Language-I) रूपेण चितम् ।
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (91-99) विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत ।
प्रकृतिः समेषां प्राणिनां संरक्षणाय यतते। इयं सर्वान् पुष्णाति विविधैः प्रकारैः सुखसाधनैः च तर्पयति। पृथिवी, जलम्, तेजः, वायुः, आकाशः च अस्याः प्रमुखानि तत्त्वानि। तान्येव मिलित्वा पृथक्तया वाऽस्माक पर्यावरणं रचयन्ति। आव्रियते परितः समन्तात् लोकः अनेन इति पर्यावरणम्। यथा अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति तथैव मानवः पर्यावरणकुक्षौ। परिष्कृतं प्रदूषणरहितं च पर्यावरणम् अस्मभ्यं सांसारिकं जीवनसुखं, सद्विचारं, सत्यसङ्कल्पं माङ्गलिकसामग्रीञ्च प्रददाति । प्रकृतिकोपैः आतङ्कितो जनः किं कर्तुं प्रभवति ? जलप्लावनैः, अग्निभयैः, भूकम्पैः, वात्याचक्रैः, उल्कापातादिभिश्च सन्तप्तस्य मानवस्य क्व मङ्गलम् ?
अत एव अस्माभिः प्रकृतिः रक्षणीया। तेन च पर्यावरणं रक्षितं भविष्यति। प्राचीनकाले लोकमङ्गलाशंसिन ऋषयो वने निवसन्ति स्म। यतो हि वने सुरक्षितं पर्यावरणमुपलभ्यते स्म। तत्र विविधा विहगाः कलकूजिश्रोत्ररसायनं ददति।
सरितो गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति । वृक्षा लताश्च फलानि पुष्पाणि इन्धनकाष्ठानि च बाहुल्येन समुपहरन्ति शीतलमन्दसुगन्धवनपवना औषधकल्पं प्राणवायुं वितरन्ति ।
परन्तु स्वार्थान्धो मानवः तदेव पर्यावरणम् अद्य नाशयति। स्वल्पलाभाय जना बहुमूल्यानि वस्तूनि नाशयन्ति। जनाः यन्त्रागाराणां विषाक्तं जलं नद्यां निपातयन्ति। तेन मत्स्यादीनां जलचराणां च क्षणेनैव नाशो भवति। नदीजलमपि तत्सर्वथाऽपेयं जायते। मानवाः व्यापारवर्धनाय वनवृक्षान् निर्विवेकं छिन्दन्ति । तस्मात् अवृष्टिः प्रवर्धते, वनपशवश्च शरणरहिता ग्रामेषु उपद्रवं विदधति । शुद्धवायुरपि वृक्षकर्तनात् सङ्कटापन्नो जायते। एवं हि स्वार्थान्धमानवैः विकृतिम् उपगता प्रकृतिः एव सर्वेषां विनाशकर्जी भवति । विकृतिमुपगते पर्यावरणे विविधाः रोगाः भीषणसमस्याश्च सम्भवन्ति । तत्सर्वमिदानीं चिन्तनीयं प्रतिभाति ।
धर्मो रक्षति रक्षितः इत्यार्षवचनम् । पर्यावरणरक्षणमपि धर्मस्यैवाङ्गमिति ऋषयः प्रतिपादितवन्तः । अत एव वापीकूपतडागादिनिर्माणं देवायतन-विश्रामगृहादिस्थापनञ्च धर्मसिद्धेः स्त्रोतरूपेण अङ्गीकृतम् । कुक्कुर-सूकर-सर्प-नकुलादि-स्थलचराः, मत्स्य-कच्छप-मकरप्रभृतयः जलचराश्च रक्षणीयाः । प्रकृतिरक्षया एव लोकरक्षा सम्भवति इत्यत्र नास्ति संशयः ।
MCQ প্রশ্নোত্তর
CTET पेपर II संस्कृत 2024 MCQ প্রশ্ন ও উত্তর গুলি নিচে দেওয়া হল। প্রশ্নের উত্তরগুলি সরাসরি না দিয়ে শিক্ষার্থীদের সুবিধার্থে উত্তরটি লুক্কায়িত আছে। পরীক্ষার্থীদের চেষ্টা করার সুযোগ আছে। উত্তরে Click👈 করলেই উত্তরটি দেখা যাবে।
91. प्राचीनकाले ऋषयो वने निवसन्ति स्म, यतो हि तत्र———–आसीत् / आसन् ।—
(A) हरिताः वृक्षाः
(B) पुष्पिताः पादपाः
(C) सुरक्षितं वातावरणम्
(D) विविधाः जन्तवः
উত্তর👈
(C) सुरक्षितं वातावरणम्
92. केन मानवस्य अमङ्गलं न भवति ?
(A) पर्यावरणसंरक्षणेन
(B) भूकम्पैः
(C) वात्याचक्रैः
(D) उल्कापातैः
উত্তর👈
(A) पर्यावरणसंरक्षणेन
93. अधोलिखितेषु किम् आर्षवचनम् अस्ति ?
(A) धर्मो रक्षति रक्षितः
(B) पठनाय विद्यालयं गच्छ
(C) स्वच्छता परमो धर्मः
(D) शुद्धभोजनं कुरु
উত্তর👈
(A) धर्मो रक्षति रक्षितः
94. अजातश्शिशुः कुत्र सुरक्षितः तिष्ठति ?
(A) भूतले
(B) गृहे
(C) प्रसूतिगृहे
(D) मातृगर्भे
উত্তর👈
(D) मातृगर्भे
95. अधोलिखितेषु किं पेरकृतेः तत्वं न भवति?
(A) आकाशः
(B) जलमे
(C) वायुयानम्
(D) तेजः
উত্তর👈
(C) वायुयानम्
96. शुद्धपर्यावरणम् अस्मभ्यं किं न प्रददाति ?
(A) जीवनसुखम्
(B) सद्विचारम्
(C) प्राकृतिक विपत्तिम्
(D) सत्यसङ्कल्पम्
উত্তর👈
(
97. ‘धर्मस्यैव’ इत्यस्मिन् पदे सन्धिनिर्देशं कुरुत-
(A) गुणसन्धिः
(B) वृद्धिसन्धिः
(C) हल्सन्धिः
(D) दीर्घसन्धिः
উত্তর👈
(B) वृद्धिसन्धिः
98. मत्स्यादीनां नाशो केन भवति ?
(A) अम्लेन
(B) दुग्धेन
(C) विषाक्तजलेन
(D) वर्षाजलेन
উত্তর👈
(C) विषाक्तजलेन
99. ‘विकृतिः’ इत्यस्मिन् पदे कः प्रत्ययः प्रयुक्तः ?
(A) क्त
(B) शतृ
(C) क्तिन्
(D) क्तवतु
উত্তর👈
(C) क्तिन्