একাদশ শ্রেণীর সংস্কৃত প্রকল্প

এই অধ্যায়ের আলোচ্য বিষয় একাদশ শ্রেণীর সংস্কৃত প্রকল্প । একাদশ শ্রেণীর জন্য কয়েকটি প্রকল্প দেওয়া হল। Class xi Sanskrit Project , Sanskrit Project Class 11 । ছবি ও তথ্যসহ সংস্কৃত ভাষায় দেবনাগরী হরফে যে কোনো দুটি বিষয় অবলম্বনে প্রকল্পের কাজ করতে হবে। প্রাচীন ভারতের জনপদ, পাহাড়, নদনদী থেকে একটি বিষয়। প্রথম ও দ্বিতীয় সেমেস্টারের পাঠ্যভুক্ত বিষয়সমূহ (সাহিত্য ও সাহিত্যের ইতিহাস) থেকে একটি বিষয় এবং অনুচ্ছেদ রচনা ( প্রকৃতি বিষয়ক, জীবনী বিষয়ক, নিতিশিক্ষা) থেকে একটি।

পশ্চিমবঙ্গ উচ্চ মাধ্যমিক শিক্ষাসংসদ প্রবর্তিত সংস্কৃত বিষয়ের পাঠ্যসূচি অনুযায়ী একাদশ-দ্বাদশ শ্রেণির শিক্ষার্থীদের অভ্যন্তরীণ মূল্যায়নের অঙ্গ হিসেবে দুটি প্রকল্প করতে হবে। নিজ নিজ বিদ্যালয়ের সংস্কৃত বিষয়ের শিক্ষক-শিক্ষিকার তত্ত্বাবধানে নির্বাচিত প্রকল্পের কাজ করে প্রতিবেদন লিখতে হবে। শিক্ষার্থীরা তার নিজের পছন্দমতো বিষয় গ্রহণ করতে পারে। এখানে সে নিজে প্রকল্প বিষয়ক বিভিন্ন তথ্য সংগ্রহ এবং বিশ্লেষণ করে সেটি শিক্ষক-শিক্ষিকার কাছে উপস্থাপন করবে। সংস্কৃত প্রকল্প পরীক্ষার্থীদের গুরুত্বপূর্ণ বিষয়।

প্রকল্প লেখার নিয়ম

  • A4 মাপের সাদা কাগজে নিজের হাতে প্রকল্পের বিষয় লিখতে হবে।
  • A4 মাপের সাদা কাগজের প্রতি পৃষ্ঠায় উপরে, বামদিকে এবং ডানদিকে সুন্দর করে মার্জিন দিতে হবে।

সামনের পাতায় লেখার নিয়ম

  • উপরে প্রকল্পের শিরোনাম বড়ো হরফে লিখতে হবে।
  • মাঝখানে ছাত্র/ছাত্রীর নাম, শ্রেণি, বিভাগ, রেজিস্ট্রেশন নম্বর, রোল নম্বর লিখতে হবে।
  • নিচে বিদ্যালয়ের নাম এবং প্রতিবেদন উপস্থাপনের বর্ষ লিখতে হবে।

প্রকল্পের বিষয়

গঙ্গা নদী বিষয়ে একটি প্রকল্প রচনা করো।

গঙ্গা নদী প্রকল্পটির বিষয় দেবনাগরী হরফে লিখতে হবে। তাই দেবনাগরী হরফে দেওয়া হল। ছবি পরে দেওয়া হবে।

प्रस्तावना

गङ्गायाः जले निमज्जनं कृत्वा मुमुक्षवः ब्रह्मपदं सायुज्यं च प्राप्नुवन्ति। सा पुण्यसलिला सरित् गङ्गापदेन प्रख्याता। गङ्गा नदी दक्षिण एशियाखण्डे विद्यमाने भारतदेशे, बा‌ङ्ग्लादेशे च प्रवहन्ती काचित् नदी। अस्याः पुण्यसलिलायाः उद्गमः भारतवर्षस्य प्रख्याततमशैलराजहिमवतः गङ्गोत्री नामकस्थानात् समभवत् । ततः हरिद्वारप्रयागकाशीप्रभृतीनां तीर्थस्थलानां यात्रां कुर्वन्ती प्रयागे यमुनासरस्वतीभ्यांसम्मिलिता सती अनेकादिभि अन्याभिः नदीभिश्च सम्मिश्रित्य प्रवहन्ती अन्ते गङ्गासागराख्ये तीर्थस्थले जलधौ निमज्जति। अस्याः धार्मिक, सांस्कृतिकं, ऐतिहासिकं च महत्त्वं भारतीयसमाजे प्राचीनकालात् विद्यते। अस्मिन् प्रकल्पे गङ्गायाः धार्मिक, सांस्कृतिक, वार्तास्वरूपाणां संस्कृतभाषायां प्रभावं च विवेचयिष् यामः।

उद्भवनम्

हरिद्वारप्रयागकाशीत्यादयः भूयांसः तीर्थाः अस्याः पुण्यतोयायाः तटे विद्यन्ते। अस्याः अलौकिकं सौन्दर्य विशेषतः हरिद्वारे काश्याञ्च वाङ्गनसगोचरं दृश्यते। अस्याः एव तीरे वर्तमानायाः वाराणस्याः सायन्तनी शोभा अतीवानन्ददायिनी भवति। तत्रेयं अर्द्धचन्द्राकाररूपा विराजते। यदा सायंकाले विद्धर्तिकानां रश्मिभिः नागरिकी सुषमा शनैः शनैः विवर्धते तदा भागीरथ्याः जले तटवर्तिनां प्रासादानां प्रतिबिम्बानि दर्शनीयानि भवन्ति । तस्मिन् काले तु मम मानसपटले इयं विचारसरणिः उत्पद्यते यद् वाराणस्याःईदृशीं शोभां परित्यक्तुम् इयं सरित् कदापि न समर्था भवितुं शक्नोति। एवमन्यत्रापि इयं तत्र तत्र वासिनां कृते अत्यधिकानन्दाहलाददायिनी अस्ति। अस्याः जलं तु लौकिकाध्यात्मिकोभयदृशा जनमलविनाशकं, मानसिककलुषनिवारकं, स्वास्थ्यविवर्धकञ्चास्ति । अतिपवित्रत्वं तु गंगाजलस्य महती विशेषता। स्वच्छत्वम् अद्वितीयं गुणम्। इदं जलं स्वच्छपात्रे निधाय चिराय रक्षितेऽपि कीटादिजन्तुना विकृतिं न आपद्यते ।

पौराणिकवृत्तान्तम्

पौराणिककथानुसारेण अस्याः पतितपावन्याः भूलोके आगमनविषये प्रख्यातक्रमः ईदृशः श्रूयते- एकदा अयोध्यायां सगरनामकः कोऽपि नृपः प्रशासतिस्म। तेन शताश्वमेधाख्यान् यज्ञान् कर्तुं सुनिश्चितम्। नवनवतियज्ञकरणानन्तरं यदा शततमं यज्ञं विधातुम् अश्वः मुञ्चितः तदा भीतः इन्द्रः तं यज्ञाश्वं पाताललोके नीत्त्वा कपिलऋषेः आश्रमस्य समीपे बबन्ध। सगरस्य राज्ञः षष्टिसहस्त्रपुत्राः तम् अन्वेयन्तः भूमिं खनन्तश्च पाताललोके गतवन्तः आसन् । तत्र तपस्यतः कपिलस्य आश्रमे अश्वं वीक्ष्य तस्मै अपशब्दानां प्रयोगं कुर्वन्तः अश्वं मुमुचुः । कपिलस्य महत् कोपात् ते सर्वे सगरपुत्राः प्लुष्टा जाताः। तेषामुद्धारार्थमेव दिलीपस्य पुत्रः भगीरथः बहुकालपर्यन्तं घोरे तपसि स्वं जीवनकालम् अपनीय ब्रह्मणः कमण्डलौ वर्तमानां गङ्गां भूलोके नेतुं ब्रह्मणं प्रार्थयामास। तदनन्तरं शिवं प्रसादीकृत्य तमपि गङ्गाभारं वोढुं सन्नद्धं कृतवान् । परिणामतः स्वर्गाद् ब्रह्मकमण्डलोः निसृता गङ्गा तेन भगीरथेनैव वसुन्धरातले आनीता । तदा प्रभृति इयंभागीरथी इति नाम्ना प्रसिद्धा। इमां गङ्गा त्रिपथगा अपिडि कथयन्ति सुधियः। स्वर्गादवतरन्ती इयं किञ्चिकालं शूलपाणिजटासु अवरुद्धा सती भगीरथप्रार्थनया कपिलमहसा भस्मीभूतान् सगरपुत्रान् उत्तरितुं भूलोके अवतरिता। स्वर्गात् भूलोके अवतरन्ती पुनः पाताललोके समापतितत्वादियं त्रिपथगामिनी एव त्रिपथगा इति नाम प्राप्तवती। हिमवान्- शैलराहिमालयात् प्रादुर्भूता अतः हैमवती इत्यपि व्यपदिश्यते, जहोः ऋषेराश्रममध्यादपसरन्ती जाह्नवी इति नामधेया अभूत्। अस्याः ख्यातिः हिमवतः ज्येष्ठा पुत्रीरूपेऽपि अस्ति। ब्रह्मणः शापवशादेव सा मर्त्यलोके समागता आसीत्। शान्तनुराज्ञः पत्नी रूपे सा अष्टौ पुत्रान् अजनयत् तेष्वेव अन्यतमः भीष्मः आसीत्। एवमेव अनेकानि अन्यान्यपि नामानि गंगायाः पुराणेषु समुपलभ्यन्ते । अद्यापि अस्याः पापविनाशिन्याः तीरे निवासार्थ मुमुक्षवः दूरदेशेभ्यः आयान्ति । अस्याः तीरे निवासेन, जलपानेन, स्नानेन वायोस्स्पर्शन, विचरणेन च जनानां स्वास्थ्यवर्धनं भवति। मानसिकशारीरिकरोगान् दूरीकर्तुं अस्याः जलं पटुतमं विद्यते। अत एव प्रतिवर्षम् असंख्याकाः जनाः अस्या तटे आगत्य जले च स्नानं कृत्वा स्वेषां मनोरथानां पूर्त्यर्थ याचयन्ति मनोरथं प्राप्नुवन्ति च । इयं गङ्गा अस्माकं हिन्दनां कृते मातृवत् सरिद् अस्ति । आस्तिकजनाः मनोभिलषितानि अस्याः पूजां कृत्वा फलानि आप्नुर्वान्त । समये च अस्याः पावने तीरे महान्तः उत्सवाः अपि तस्याः प्रसादनार्थ तैः आयोज्यन्ते। अन्ते अहं केवलं इदमेव वक्तुं समर्थः यद् गङ्गेयं इहलोके परलोके उभयत्र फलदात्री रूपेण विराजते।

सांस्कृतिकमहत्त्वम्

तीर्थयात्राः उत्सवाः च गङ्गानदीम् अवलम्व्य तीर्थक्षेत्राणि निर्मितानि। यथा हरिद्वारम्, वाराणसी, प्रयागराजश्च । अत्र प्रतिवर्ष कुंभमेला यत्र कोटिशः जनाः गङ्गास्नानं कुर्वन्ति। एते उत्सवाः भारतस्य सांस्कृतिकसम्प्रदायेषु महत्वपूर्णानि स्थानानि प्राप्नुवन्ति। गङ्गायाः दैनिकं जीवनं गङ्गानद्याः उपासना प्रतिदिनं सम्पन्ना भवति, विशेषतः वाराणस्यां हरिद्वारे च गङ्गाः आरती नाम प्रार्थनायाः विधानं प्रसिद्धं अस्ति। अयं सांस्कृतिककार्यक्रमः सहस्रशः श्रद्धालवः पर्यटकान् च आकर्षयति, यत् गङ्गायाः आध्यात्मिकसम्बन्धः जनसमाजे गाढः अस्ति। प्राचीनसभ्यतायाः जन्मभूमिः गङ्गायाः तटेषु पुरातनाः नगराः, यथा वाराणसी, विश्वस्य प्राचीनतमं नगरं, विद्यमानाः सन्ति। एषा भूमिः भारतीयसंस्कृतेः, विद्यायाः, दर्शनस्य च केन्द्रभूतम् आसीत्।

उपसंहारः

गङ्गा न केवलं नदी अस्ति, अपितु भारतीयधार्मिक- सांस्कृतिकजीवनस्य धात्री अस्ति। अस्याः संरक्षणं न केवलं कर्तव्यम्, अपितु भारतीयधरोहरायाः रक्षणं च भवति। अतः सर्वैः यत्नेन अस्याः संरक्षणं कर्तव्यम्। एवं चेत् अस्माकं परमपावनी गङ्गा पुण्यनदी रूपेण तिष्ठेत् । तुङ्गतरङ्गे गङ्गे । वन्दे गङ्गामातरम् ।

ঈশ্বরচন্দ্রঃ বিদ্যাসাগরঃ

‘ঈশ্বরচন্দ্রঃ বিদ্যাসাগরঃ’ একটি জীবনী বিষয়ক প্রকল্প।

वङ्गदेशस्य एकः महान् सन्तानः आसीत् ईश्वरचन्द्रः। सः न केवलं वङ्गदेशस्य, किन्तु समग्रस्यापि भारतस्य प्रातः स्मरणीयो महापुरुषः। मेदिनीपुरमण्डलान्तर्गतायां वीरसिंहनामधेयां पल्ल्याम् 1820 ख्रिस्टाव्दस्य 26 सेप्टेम्वर इति अङ्गलदिवसे अतीवे दरिद्रे वंशे तस्य जन्म। किन्तु परिश्रमेन चेष्टया च स पण्डिताग्रगन्य अजायत। तस्य जनकः ठाकुरदासः वन्द्योपाध्यायः जननी च भगवती देवी।

आवाल्यात् स मेधावी आसीत्। कैशोरे स्वग्रामात् वीरसिंहात् कलिकाताभिमुखं गमनकाले स पथि दूरत्वनिर्देशकशिलायां इंरेजीभाषायां लिखितान् संख्यान् दृष्ट्वेव मनसि शिक्षितवान्। कलिकातां गत्वा ईश्वरचन्द्रः विद्योपजनार्थं संस्कृतमहाविद्यालये अगच्छत्। तत्र पाठानन्तरं सविद्याकुशलः सञ्जातः। तस्य पाण्डित्यं दृष्ट्वा पण्डिताः तस्मै विद्यासागराख्याम् उपाधिम् अयच्छत्।

विंशतिवर्षीयः विद्यसागरः फोर्ट उइलियम कलेज इति शिक्षालये मुख्यपण्डितरूपेण कर्म आरभत। ततः कालेन सः कलिकाता संस्कृत महाविद्यालयस्य अध्यक्षः अभबत्। स आसीत् दार्शनिकः, शिक्षकः, लेखकः, समाजसंस्कारश्च। स अतीव दयालुः आसीत्, दरिद्रान् प्रति तस्य दया तं दयासागरः रूपेन परिचितमकरोत्। अल्पवयस्कानां विधवानां दुःखेन परिपूर्णः स विधवाविवाहः प्रचलनार्थं आन्दोलनं जनमतसंग्रहं च चकार। विधवाविवाहः शास्त्रसम्मतम् इत्यपि स प्रमाणी कृतवान्।

मातृभक्तः स मातुः सम्मानरक्षार्थं स्वजीविकामपि त्यक्तुमैच्छत्। साहित्यविषये च तस्य अनुरागः आसीत्। तस्य वङ्गगद्यशैली अपरूपा एवं स शकुन्तला, भ्रान्तिविलासः, सीतायाः वनवासः इत्यादयः ग्रन्थाः रचितवान्। संस्कृत शिक्षार्थीनां साहाय्याय स व्याकरणकौमुदी नामकं ग्रन्थं रचयामास।

शिक्षाप्रचारे, संस्कृत शिक्षाविषये विद्यासागरस्य अवदानम् असामान्यम्। स आसीत् वज्रादपि कठोरः कुसुमादपि कोमलः। विपरीत गुणद्वयस्य सहावस्थानं तस्य चरित्रे आसीत्। 1891 ख्रिस्टाव्दस्य 29 जुलाइ इति दिवसे विद्यासागरः परलोकं गतवान्।

ধন্যবাদ

একাদশ শ্রেণীর সংস্কৃত প্রকল্প তথা আমাদের www.sanskritruprekha.com সাইট Visit করার জন্য আপনাকে অনেক ধন্যবাদ। সংস্কৃতের আরো অনেক তথ্য পাওয়ার জন্য Home Page আসুন। Home Page পৌঁছানোর জন্য CLICK HERE👈

সংস্কৃত শব্দরূপের মূল Page এ যেতে CLICK HERE👈

Leave a Comment